06.013
भूमिपर्वसञ्जय उवाच॥
उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा। यथाश्रुतं महाराज ब्रुवतस्तन्निबोध मे ॥६-१३-१॥
घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः। सुरोदः सागरश्चैव तथान्यो घर्मसागरः ॥६-१३-२॥
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप। सर्वतश्च महाराज पर्वतैः परिवारिताः ॥६-१३-३॥
गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान्। पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप ॥६-१३-४॥
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः। प्रजापतिमुपासीनः प्रजानां विदधे सुखम् ॥६-१३-५॥
कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह। सम्पूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप ॥६-१३-६॥
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः। सम्पूज्यते महाराज चातुर्वर्ण्येन नित्यदा ॥६-१३-७॥
गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान्। यत्र नित्यं निवसति श्रीमान्कमललोचनः ॥ मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः ॥६-१३-८॥
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः। सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः ॥६-१३-९॥
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः। चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ॥६-१३-१०॥
षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः। तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः ॥६-१३-११॥
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्। तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम् ॥६-१३-१२॥
धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम्। सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः ॥६-१३-१३॥
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर। विहरन्ति रमन्ते च न तेषु म्रियते जनः ॥६-१३-१४॥
न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृप। गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव ॥६-१३-१५॥
अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर। यथाश्रुतं महाराज तदव्यग्रमनाः शृणु ॥६-१३-१६॥
क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः। क्रौञ्चात्परो वामनको वामनादन्धकारकः ॥६-१३-१७॥
अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः। मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः ॥६-१३-१८॥
गोविन्दात्तु परो राजन्निबिडो नाम पर्वतः। परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन ॥६-१३-१९॥
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु। क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः ॥६-१३-२०॥
मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह। उष्णात्परः प्रावरकः प्रावरादन्धकारकः ॥६-१३-२१॥
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः। मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः ॥६-१३-२२॥
सिद्धचारणसङ्कीर्णो गौरप्रायो जनाधिप। एते देशा महाराज देवगन्धर्वसेविताः ॥६-१३-२३॥
पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान्। तत्र नित्यं निवसति स्वयं देवः प्रजापतिः ॥६-१३-२४॥
तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः। वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप ॥६-१३-२५॥
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत। द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन ॥६-१३-२६॥
विप्राणां ब्रह्मचर्येण सत्येन च दमेन च। आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः ॥६-१३-२७॥
एको जनपदो राजन्द्वीपेष्वेतेषु भारत। उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ॥६-१३-२८॥
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः। द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ॥६-१३-२९॥
स राजा स शिवो राजन्स पिता स पितामहः। गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः ॥६-१३-३०॥
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम्। सिद्धमेव महाराज भुञ्जते तत्र नित्यदा ॥६-१३-३१॥
ततः परं समा नाम दृश्यते लोकसंस्थितिः। चतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम् ॥६-१३-३२॥
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः। दिग्गजा भरतश्रेष्ठ वामनैरावतादयः ॥ सुप्रतीकस्तथा राजन्प्रभिन्नकरटामुखः ॥६-१३-३३॥
तस्याहं परिमाणं तु न सङ्ख्यातुमिहोत्सहे। असङ्ख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा ॥६-१३-३४॥
तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च। असम्बाधा महाराज तान्निगृह्णन्ति ते गजाः ॥६-१३-३५॥
पुष्करैः पद्मसङ्काशैर्वर्ष्मवद्भिर्महाप्रभैः। ते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः ॥६-१३-३६॥
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः। आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ॥६-१३-३७॥
धृतराष्ट्र उवाच॥
परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः। दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय ॥६-१३-३८॥
सञ्जय उवाच॥
उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः। स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः ॥६-१३-३९॥
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः। योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ॥६-१३-४०॥
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ। षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ॥६-१३-४१॥
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः। विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् ॥ एकोनषष्टिर्वैपुल्याच्छीतरश्मेर्महात्मनः ॥६-१३-४२॥
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन। विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम् ॥६-१३-४३॥
अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ। श्रूयते परमोदारः पतङ्गोऽसौ विभावसुः ॥ एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत ॥६-१३-४४॥
स राहुश्छादयत्येतौ यथाकालं महत्तया। चन्द्रादित्यौ महाराज सङ्क्षेपोऽयमुदाहृतः ॥६-१३-४५॥
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा। सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि ॥६-१३-४६॥
यथादृष्टं मया प्रोक्तं सनिर्याणमिदं जगत्। तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति ॥६-१३-४७॥
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम्। श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः ॥ आयुर्बलं च वीर्यं च तस्य तेजश्च वर्धते ॥६-१३-४८॥
यः शृणोति महीपाल पर्वणीदं यतव्रतः। प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ॥६-१३-४९॥
इदं तु भारतं वर्षं यत्र वर्तामहे वयम्। पूर्वं प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि ॥६-१३-५०॥