6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.011
Library: Epochs, life span, and characteristics of people.
धृतराष्ट्र उवाच॥
भारतस्यास्य वर्षस्य तथा हैमवतस्य च। प्रमाणमायुषः सूत फलं चापि शुभाशुभम् ॥६-११-१॥
अनागतमतिक्रान्तं वर्तमानं च सञ्जय। आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च ॥६-११-२॥
सञ्जय उवाच॥
चत्वारि भारते वर्षे युगानि भरतर्षभ। कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन ॥६-११-३॥
पूर्वं कृतयुगं नाम ततस्त्रेतायुगं विभो। सङ्क्षेपाद्द्वापरस्याथ ततः पुष्यं प्रवर्तते ॥६-११-४॥
चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम। आयुःसङ्ख्या कृतयुगे सङ्ख्याता राजसत्तम ॥६-११-५॥
तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप। द्विसहस्रं द्वापरे तु शते तिष्ठति सम्प्रति ॥६-११-६॥
न प्रमाणस्थितिर्ह्यस्ति पुष्येऽस्मिन्भरतर्षभ। गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ॥६-११-७॥
महाबला महासत्त्वाः प्रजागुणसमन्विताः। अजायन्त कृते राजन्मुनयः सुतपोधनाः ॥६-११-८॥
महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः। जाताः कृतयुगे राजन्धनिनः प्रियदर्शनाः ॥६-११-९॥
आयुष्मन्तो महावीरा धनुर्धरवरा युधि। जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः ॥६-११-१०॥
सर्ववर्णा महाराज जायन्ते द्वापरे सति। महोत्साहा महावीर्याः परस्परवधैषिणः ॥६-११-११॥
तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप। लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत ॥६-११-१२॥
ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च। पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत ॥६-११-१३॥
सङ्क्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप। गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ॥६-११-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.