6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.016
सञ्जय उवाच॥
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि। न तु दुर्योधने दोषमिममासक्तुमर्हसि ॥६-१६-१॥
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः। एनसा तेन नान्यं स उपाशङ्कितुमर्हति ॥६-१६-२॥
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्। स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥६-१६-३॥
निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया। अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने ॥६-१६-४॥
हयानां च गजानां च शूराणां चामितौजसाम्। प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च ॥६-१६-५॥
शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः। दिष्टमेतत्पुरा नूनमेवम्भावि नराधिप ॥६-१६-६॥
नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते। यस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम् ॥६-१६-७॥
दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च। परचित्तस्य विज्ञानमतीतानागतस्य च ॥६-१६-८॥
व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा। शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः ॥६-१६-९॥
शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम्। भारतानां महद्युद्धं यथाभूल्लोमहर्षणम् ॥६-१६-१०॥
तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः। दुर्योधनो महाराज दुःशासनमथाब्रवीत् ॥६-१६-११॥
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः। अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय ॥६-१६-१२॥
अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः। पाण्डवानां ससैन्यानां कुरूणां च समागमः ॥६-१६-१३॥
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात्। हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् ॥६-१६-१४॥
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम्। श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम ॥६-१६-१५॥
तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः। शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ॥६-१६-१६॥
तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः। सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् ॥६-१६-१७॥
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम्। मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ॥६-१६-१८॥
वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्। गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः ॥६-१६-१९॥
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः। यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु ॥६-१६-२०॥
ततो रजन्यां व्युष्टायां शब्दः समभवन्महान्। क्रोशतां भूमिपालानां युज्यतां युज्यतामिति ॥६-१६-२१॥
शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत। हयहेषितशब्दैश्च रथनेमिस्वनैस्तथा ॥६-१६-२२॥
गजानां बृंहतां चैव योधानां चाभिगर्जताम्। क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ॥६-१६-२३॥
उदतिष्ठन्महाराज सर्वं युक्तमशेषतः। सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः ॥ तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च ॥६-१६-२४॥
तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः। विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः ॥६-१६-२५॥
रथानीकान्यदृश्यन्त नगराणीव भूरिशः। अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् ॥६-१६-२६॥
धनुर्भिरृष्टिभिः खड्गैर्गदाभिः शक्तितोमरैः। योधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः ॥६-१६-२७॥
गजा रथाः पदाताश्च तुरगाश्च विशां पते। व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः ॥६-१६-२८॥
ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः। स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः ॥६-१६-२९॥
काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः। अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः ॥६-१६-३०॥
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव। संनद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः ॥६-१६-३१॥
उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः। ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः ॥६-१६-३२॥
शकुनिः सौबलः शल्यः सैन्धवोऽथ जयद्रथः। विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः ॥६-१६-३३॥
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः। बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः ॥६-१६-३४॥
दशैते पुरुषव्याघ्राः शूराः परिघबाहवः। अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः ॥६-१६-३५॥
एते चान्ये च बहवो दुर्योधनवशानुगाः। राजानो राजपुत्राश्च नीतिमन्तो महाबलाः ॥६-१६-३६॥
संनद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः। बद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्जमालिनः ॥६-१६-३७॥
सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः। समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः ॥६-१६-३८॥
एकादशी धार्तराष्ट्री कौरवाणां महाचमूः। अग्रतः सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः ॥६-१६-३९॥
श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम्। अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् ॥६-१६-४०॥
हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम्। श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ॥६-१६-४१॥
दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः। सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः ॥६-१६-४२॥
जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा। धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः ॥६-१६-४३॥
एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारत। पाण्डवानां तथा सप्त महापुरुषपालिताः ॥६-१६-४४॥
उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ। युगान्ते समुपेतौ द्वौ दृश्येते सागराविव ॥६-१६-४५॥
नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः। अनीकानां समेतानां समवायस्तथाविधः ॥६-१६-४६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.