06.033
Pancharatra: Bhagavad Gita 11th chapter.
अर्जुन उवाच॥
मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम्। यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥६-३३-१॥
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया। त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥६-३३-२॥
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर। द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥६-३३-३॥
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो। योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥६-३३-४॥
श्रीभगवानुवाच॥
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः। नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥६-३३-५॥
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा। बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥६-३३-६॥
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्। मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥६-३३-७॥
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा। दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥६-३३-८॥
सञ्जय उवाच॥
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः। दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥६-३३-९॥
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्। अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥६-३३-१०॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्। सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥६-३३-११॥
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता। यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥६-३३-१२॥
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा। अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥६-३३-१३॥
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः। प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥६-३३-१४॥
अर्जुन उवाच॥
पश्यामि देवांस्तव देव देहे; सर्वांस्तथा भूतविशेषसङ्घान्। ब्रह्माणमीशं कमलासनस्थ; मृषींश्च सर्वानुरगांश्च दिव्यान् ॥६-३३-१५॥
अनेकबाहूदरवक्त्रनेत्रं; पश्यामि त्वा सर्वतोऽनन्तरूपम्। नान्तं न मध्यं न पुनस्तवादिं; पश्यामि विश्वेश्वर विश्वरूप ॥६-३३-१६॥
किरीटिनं गदिनं चक्रिणं च; तेजोराशिं सर्वतो दीप्तिमन्तम्। पश्यामि त्वां दुर्निरीक्ष्यं समन्ता; द्दीप्तानलार्कद्युतिमप्रमेयम् ॥६-३३-१७॥
त्वमक्षरं परमं वेदितव्यं; त्वमस्य विश्वस्य परं निधानम्। त्वमव्ययः शाश्वतधर्मगोप्ता; सनातनस्त्वं पुरुषो मतो मे ॥६-३३-१८॥
अनादिमध्यान्तमनन्तवीर्य; मनन्तबाहुं शशिसूर्यनेत्रम्। पश्यामि त्वां दीप्तहुताशवक्त्रं; स्वतेजसा विश्वमिदं तपन्तम् ॥६-३३-१९॥
द्यावापृथिव्योरिदमन्तरं हि; व्याप्तं त्वयैकेन दिशश्च सर्वाः। दृष्ट्वाद्भुतं रूपमिदं तवोग्रं; लोकत्रयं प्रव्यथितं महात्मन् ॥६-३३-२०॥
अमी हि त्वा सुरसङ्घा विशन्ति; केचिद्भीताः प्राञ्जलयो गृणन्ति। स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः; स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥६-३३-२१॥
रुद्रादित्या वसवो ये च साध्या; विश्वेऽश्विनौ मरुतश्चोष्मपाश्च। गन्धर्वयक्षासुरसिद्धसङ्घा; वीक्षन्ते त्वा विस्मिताश्चैव सर्वे ॥६-३३-२२॥
रूपं महत्ते बहुवक्त्रनेत्रं; महाबाहो बहुबाहूरुपादम्। बहूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥६-३३-२३॥
नभःस्पृशं दीप्तमनेकवर्णं; व्यात्ताननं दीप्तविशालनेत्रम्। दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णो ॥६-३३-२४॥
दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि। दिशो न जाने न लभे च शर्म; प्रसीद देवेश जगन्निवास ॥६-३३-२५॥
अमी च त्वां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसङ्घैः। भीष्मो द्रोणः सूतपुत्रस्तथासौ; सहास्मदीयैरपि योधमुख्यैः ॥६-३३-२६॥
वक्त्राणि ते त्वरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि। केचिद्विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥६-३३-२७॥
यथा नदीनां बहवोऽम्बुवेगाः; समुद्रमेवाभिमुखा द्रवन्ति। तथा तवामी नरलोकवीरा; विशन्ति वक्त्राण्यभिविज्वलन्ति ॥६-३३-२८॥
यथा प्रदीप्तं ज्वलनं पतङ्गा; विशन्ति नाशाय समृद्धवेगाः। तथैव नाशाय विशन्ति लोका; स्तवापि वक्त्राणि समृद्धवेगाः ॥६-३३-२९॥
लेलिह्यसे ग्रसमानः समन्ता; ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः। तेजोभिरापूर्य जगत्समग्रं; भासस्तवोग्राः प्रतपन्ति विष्णो ॥६-३३-३०॥
आख्याहि मे को भवानुग्ररूपो; नमोऽस्तु ते देववर प्रसीद। विज्ञातुमिच्छामि भवन्तमाद्यं; न हि प्रजानामि तव प्रवृत्तिम् ॥६-३३-३१॥
श्रीभगवानुवाच॥
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो; लोकान्समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वा न भविष्यन्ति सर्वे; येऽवस्थिताः प्रत्यनीकेषु योधाः ॥६-३३-३२॥
तस्मात्त्वमुत्तिष्ठ यशो लभस्व; जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्। मयैवैते निहताः पूर्वमेव; निमित्तमात्रं भव सव्यसाचिन् ॥६-३३-३३॥
द्रोणं च भीष्मं च जयद्रथं च; कर्णं तथान्यानपि योधवीरान्। मया हतांस्त्वं जहि मा व्यथिष्ठा; युध्यस्व जेतासि रणे सपत्नान् ॥६-३३-३४॥
सञ्जय उवाच॥
एतच्छ्रुत्वा वचनं केशवस्य; कृताञ्जलिर्वेपमानः किरीटी। नमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः प्रणम्य ॥६-३३-३५॥
अर्जुन उवाच॥
स्थाने हृषीकेश तव प्रकीर्त्या; जगत्प्रहृष्यत्यनुरज्यते च। रक्षांसि भीतानि दिशो द्रवन्ति; सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥६-३३-३६॥
कस्माच्च ते न नमेरन्महात्म; न्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे। अनन्त देवेश जगन्निवास; त्वमक्षरं सदसत्तत्परं यत् ॥६-३३-३७॥
त्वमादिदेवः पुरुषः पुराण; स्त्वमस्य विश्वस्य परं निधानम्। वेत्तासि वेद्यं च परं च धाम; त्वया ततं विश्वमनन्तरूप ॥६-३३-३८॥
वायुर्यमोऽग्निर्वरुणः शशाङ्कः; प्रजापतिस्त्वं प्रपितामहश्च। नमो नमस्तेऽस्तु सहस्रकृत्वः; पुनश्च भूयोऽपि नमो नमस्ते ॥६-३३-३९॥
नमः पुरस्तादथ पृष्ठतस्ते; नमोऽस्तु ते सर्वत एव सर्व। अनन्तवीर्यामितविक्रमस्त्वं; सर्वं समाप्नोषि ततोऽसि सर्वः ॥६-३३-४०॥
सखेति मत्वा प्रसभं यदुक्तं; हे कृष्ण हे यादव हे सखेति। अजानता महिमानं तवेदं; मया प्रमादात्प्रणयेन वापि ॥६-३३-४१॥
यच्चावहासार्थमसत्कृतोऽसि; विहारशय्यासनभोजनेषु। एकोऽथ वाप्यच्युत तत्समक्षं; तत्क्षामये त्वामहमप्रमेयम् ॥६-३३-४२॥
पितासि लोकस्य चराचरस्य; त्वमस्य पूज्यश्च गुरुर्गरीयान्। न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो; लोकत्रयेऽप्यप्रतिमप्रभाव ॥६-३३-४३॥
तस्मात्प्रणम्य प्रणिधाय कायं; प्रसादये त्वामहमीशमीड्यम्। पितेव पुत्रस्य सखेव सख्युः; प्रियः प्रियायार्हसि देव सोढुम् ॥६-३३-४४॥
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा; भयेन च प्रव्यथितं मनो मे। तदेव मे दर्शय देव रूपं; प्रसीद देवेश जगन्निवास ॥६-३३-४५॥
किरीटिनं गदिनं चक्रहस्त; मिच्छामि त्वां द्रष्टुमहं तथैव। तेनैव रूपेण चतुर्भुजेन; सहस्रबाहो भव विश्वमूर्ते ॥६-३३-४६॥
श्रीभगवानुवाच॥
मया प्रसन्नेन तवार्जुनेदं; रूपं परं दर्शितमात्मयोगात्। तेजोमयं विश्वमनन्तमाद्यं; यन्मे त्वदन्येन न दृष्टपूर्वम् ॥६-३३-४७॥
न वेदयज्ञाध्ययनैर्न दानै; र्न च क्रियाभिर्न तपोभिरुग्रैः। एवंरूपः शक्य अहं नृलोके; द्रष्टुं त्वदन्येन कुरुप्रवीर ॥६-३३-४८॥
मा ते व्यथा मा च विमूढभावो; दृष्ट्वा रूपं घोरमीदृङ्ममेदम्। व्यपेतभीः प्रीतमनाः पुनस्त्वं; तदेव मे रूपमिदं प्रपश्य ॥६-३३-४९॥
सञ्जय उवाच॥
इत्यर्जुनं वासुदेवस्तथोक्त्वा; स्वकं रूपं दर्शयामास भूयः। आश्वासयामास च भीतमेनं; भूत्वा पुनः सौम्यवपुर्महात्मा ॥६-३३-५०॥
अर्जुन उवाच॥
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन। इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥६-३३-५१॥
श्रीभगवानुवाच॥
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम। देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥६-३३-५२॥
नाहं वेदैर्न तपसा न दानेन न चेज्यया। शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥६-३३-५३॥
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥६-३३-५४॥
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥६-३३-५५॥