06.051
Pancharatra and Core: Late afternoon, a fight between Abhimanyu and Lakshmana; Kauravas retreat for the day, as Pandavas gain the upper hand.
सञ्जय उवाच॥
गतापराह्णभूयिष्ठे तस्मिन्नहनि भारत। रथनागाश्वपत्तीनां सादिनां च महाक्षये ॥६-५१-१॥
द्रोणपुत्रेण शल्येन कृपेण च महात्मना। समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः ॥६-५१-२॥
स लोकविदितानश्वान्निजघान महाबलः। द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ॥६-५१-३॥
ततः शल्यरथं तूर्णमास्थाय हतवाहनः। द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ॥६-५१-४॥
धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत। सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ॥६-५१-५॥
स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः। अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ ॥६-५१-६॥
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा। शल्यो द्वादशभिश्चैव कृपश्च निशितैस्त्रिभिः ॥६-५१-७॥
लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम्। अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ॥६-५१-८॥
दौर्योधनिस्तु सङ्क्रुद्धः सौभद्रं नवभिः शरैः। विव्याध समरे राजंस्तदद्भुतमिवाभवत् ॥६-५१-९॥
अभिमन्युस्तु सङ्क्रुद्धो भ्रातरं भरतर्षभ। शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत ॥६-५१-१०॥
लक्ष्मणोऽपि ततस्तस्य धनुश्चिच्छेद पत्रिणा। मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः ॥६-५१-११॥
तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा। अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ॥६-५१-१२॥
तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ। अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ॥६-५१-१३॥
ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम्। पीडितं तव पौत्रेण प्रायात्तत्र जनेश्वरः ॥६-५१-१४॥
संनिवृत्ते तव सुते सर्व एव जनाधिपाः। आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ॥६-५१-१५॥
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः। न स्म विव्यथते राजन्कृष्णतुल्यपराक्रमः ॥६-५१-१६॥
सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनञ्जयः। अभिदुद्राव सङ्क्रुद्धस्त्रातुकामः स्वमात्मजम् ॥६-५१-१७॥
ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः। अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ॥६-५१-१८॥
उद्धूतं सहसा भौमं नागाश्वरथसादिभिः। दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत ॥६-५१-१९॥
तानि नागसहस्राणि भूमिपालशतानि च। तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ॥६-५१-२०॥
प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः। कुरूणामनयस्तीव्रः समदृश्यत दारुणः ॥६-५१-२१॥
नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः। प्रजज्ञे भरतश्रेष्ठ शरसङ्घैः किरीटिनः ॥६-५१-२२॥
सादितध्वजनागास्तु हताश्वा रथिनो भृशम्। विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ॥६-५१-२३॥
विरथा रथिनश्चान्ये धावमानाः समन्ततः। तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ॥६-५१-२४॥
हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः। अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ॥६-५१-२५॥
रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः। पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनताडिताः ॥६-५१-२६॥
सगदानुद्यतान्बाहून्सखड्गांश्च विशां पते। सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ॥६-५१-२७॥
साङ्कुशान्सपताकांश्च तत्र तत्रार्जुनो नृणाम्। निचकर्त शरैरुग्रै रौद्रं बिभ्रद्वपुस्तदा ॥६-५१-२८॥
परिघाणां प्रवृद्धानां मुद्गराणां च मारिष। प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे ॥६-५१-२९॥
परश्वधानां तीक्ष्णानां तोमराणां च भारत। वर्मणां चापविद्धानां कवचानां च भूतले ॥६-५१-३०॥
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः। छत्राणां हेमदण्डानां चामराणां च भारत ॥६-५१-३१॥
प्रतोदानां कशानां च योक्त्राणां चैव मारिष। राशयश्चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ॥६-५१-३२॥
नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत। योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथञ्चन ॥६-५१-३३॥
यो यो हि समरे पार्थं पत्युद्याति विशां पते। स स वै विशिखैस्तीक्ष्णैः परलोकाय नीयते ॥६-५१-३४॥
तेषु विद्रवमाणेषु तव योधेषु सर्वशः। अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ॥६-५१-३५॥
तत्प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव। अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ॥६-५१-३६॥
एष पाण्डुसुतो वीरः कृष्णेन सहितो बली। तथा करोति सैन्यानि यथा कुर्याद्धनञ्जयः ॥६-५१-३७॥
न ह्येष समरे शक्यो जेतुमद्य कथञ्चन। यथास्य दृश्यते रूपं कालान्तकयमोपमम् ॥६-५१-३८॥
न निवर्तयितुं चापि शक्येयं महती चमूः। अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी ॥६-५१-३९॥
एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते। वपूंषि सर्वलोकस्य संहरन्निव सर्वथा ॥६-५१-४०॥
तत्रावहारं सम्प्राप्तं मन्येऽहं पुरुषर्षभ। श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथञ्चन ॥६-५१-४१॥
एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम्। अवहारमथो चक्रे तावकानां महारथः ॥६-५१-४२॥
ततोऽवहारः सैन्यानां तव तेषां च भारत। अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति ॥६-५१-४३॥