6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.050
Core and Pancharatra: Bhima, fierce and unstoppable, moved through the Kalinga battlefield - killed Kalinga's son Shakradeva, cut Bhānumant in half; killed Kalinga Śrutāyu with seven iron arrows; Satyadeva, Satya, Ketumanta were dispatched to the realm of Yama; 2700 Kalinga warriors killed;
धृतराष्ट्र उवाच॥
तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः। कथमद्भुतकर्माणं भीमसेनं महाबलम् ॥६-५०-१॥
चरन्तं गदया वीरं दण्डपाणिमिवान्तकम्। योधयामास समरे कलिङ्गः सह सेनया ॥६-५०-२॥
सञ्जय उवाच॥
पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः। महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ॥६-५०-३॥
तामापतन्तीं सहसा कलिङ्गानां महाचमूम्। रथनागाश्वकलिलां प्रगृहीतमहायुधाम् ॥६-५०-४॥
भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम्। केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ॥६-५०-५॥
ततः श्रुतायुः सङ्क्रुद्धो राज्ञा केतुमता सह। आससाद रणे भीमं व्यूढानीकेषु चेदिषु ॥६-५०-६॥
रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः। अयुतेन गजानां च निषादैः सह केतुमान् ॥ भीमसेनं रणे राजन्समन्तात्पर्यवारयत् ॥६-५०-७॥
चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः। अभ्यवर्तन्त सहसा निषादान्सह राजभिः ॥६-५०-८॥
ततः प्रववृते युद्धं घोररूपं भयानकम्। प्रजानन्न च योधान्स्वान्परस्परजिघांसया ॥६-५०-९॥
घोरमासीत्ततो युद्धं भीमस्य सहसा परैः। यथेन्द्रस्य महाराज महत्या दैत्यसेनया ॥६-५०-१०॥
तस्य सैन्यस्य सङ्ग्रामे युध्यमानस्य भारत। बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः ॥६-५०-११॥
अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते। महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम् ॥६-५०-१२॥
योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया। स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः ॥६-५०-१३॥
विमर्दः सुमहानासीदल्पानां बहुभिः सह। कलिङ्गैः सह चेदीनां निषादैश्च विशां पते ॥६-५०-१४॥
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः। भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः ॥६-५०-१५॥
सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु। स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः ॥६-५०-१६॥
न चचाल रथोपस्थाद्भीमसेनो महाबलः। शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम् ॥६-५०-१७॥
कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः। शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः ॥६-५०-१८॥
ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः। योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः ॥६-५०-१९॥
शक्रदेवस्तु समरे विसृजन्सायकान्बहून्। अश्वाञ्जघान समरे भीमसेनस्य सायकैः ॥ ववर्ष शरवर्षाणि तपान्ते जलदो यथा ॥६-५०-२०॥
हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः। शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् ॥६-५०-२१॥
स तया निहतो राजन्कलिङ्गस्य सुतो रथात्। सध्वजः सह सूतेन जगाम धरणीतलम् ॥६-५०-२२॥
हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः। रथैरनेकसाहस्रैर्भिमस्यावारयद्दिशः ॥६-५०-२३॥
ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम्। उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् ॥६-५०-२४॥
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ। नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ॥६-५०-२५॥
कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह। प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् ॥ प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ॥६-५०-२६॥
तमापतन्तं वेगेन प्रेरितं निशितं शरम्। भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ॥ उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ॥६-५०-२७॥
कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे। तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् ॥६-५०-२८॥
तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः। चिच्छेद सहसा राजन्नसम्भ्रान्तो वरासिना ॥६-५०-२९॥
निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश। भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः ॥६-५०-३०॥
भानुमांस्तु ततो भीमं शरवर्षेण छादयन्। ननाद बलवन्नादं नादयानो नभस्तलम् ॥६-५०-३१॥
न तं स ममृषे भीमः सिंहनादं महारणे। ततः स्वरेण महता विननाद महास्वनम् ॥६-५०-३२॥
तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी। न भीमं समरे मेने मानुषं भरतर्षभ ॥६-५०-३३॥
ततो भीमो महाराज नदित्वा विपुलं स्वनम्। सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् ॥६-५०-३४॥
आरुरोह ततो मध्यं नागराजस्य मारिष। खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ॥६-५०-३५॥
सोऽन्तरायुधिनं हत्वा राजपुत्रमरिंदमः। गुरुभारसहस्कन्धे नागस्यासिमपातयत् ॥६-५०-३६॥
छिन्नस्कन्धः स विनदन्पपात गजयूथपः। आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः ॥६-५०-३७॥
ततस्तस्मादवप्लुत्य गजाद्भारत भारतः। खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः ॥६-५०-३८॥
स चचार बहून्मार्गानभीतः पातयन्गजान्। अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ॥६-५०-३९॥
अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः। पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः ॥ श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः ॥६-५०-४०॥
छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः। खड्गेन शितधारेण संयुगे गजयोधिनाम् ॥६-५०-४१॥
पदातिरेकः सङ्क्रुद्धः शत्रूणां भयवर्धनः। मोहयामास च तदा कालान्तकयमोपमः ॥६-५०-४२॥
मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन्। सासिमुत्तमवेगेन विचरन्तं महारणे ॥६-५०-४३॥
निकृत्य रथिनामाजौ रथेषाश्च युगानि च। जघान रथिनश्चापि बलवानरिमर्दनः ॥६-५०-४४॥
भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत। भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ॥ सम्पातं समुदीर्यं च दर्शयामास पाण्डवः ॥६-५०-४५॥
केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना। विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ॥६-५०-४६॥
छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे। वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः ॥ निपेतुरुर्व्यां च तथा विनदन्तो महारवान् ॥६-५०-४७॥
छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च। परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः ॥६-५०-४८॥
ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा। तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च ॥६-५०-४९॥
अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह। घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि ॥ पततः पतितांश्चैव पश्यामः सह सादिभिः ॥६-५०-५०॥
छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः। आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव ॥६-५०-५१॥
विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः। अश्वारोहवरांश्चापि पातयामास भारत ॥ तद्घोरमभवद्युद्धं तस्य तेषां च भारत ॥६-५०-५२॥
खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः। परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः ॥६-५०-५३॥
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च। तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे ॥६-५०-५४॥
प्रोथयन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा। स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव ॥६-५०-५५॥
आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः। पातयामास खड्गेन सध्वजानपि पाण्डवः ॥६-५०-५६॥
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः। मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः ॥६-५०-५७॥
निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत्। खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् ॥६-५०-५८॥
ऊरुवेगेन चाप्यन्यान्पातयामास भूतले। अपरे चैनमालोक्य भयात्पञ्चत्वमागताः ॥६-५०-५९॥
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम्। परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् ॥६-५०-६०॥
ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ। श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् ॥६-५०-६१॥
तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः। भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे ॥६-५०-६२॥
कलिङ्गबाणाभिहतस्तोत्त्रार्दित इव द्विपः। भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः ॥६-५०-६३॥
अथाशोकः समादाय रथं हेमपरिष्कृतम्। भीमं सम्पादयामास रथेन रथसारथिः ॥६-५०-६४॥
तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः। कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् ॥६-५०-६५॥
ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान्। प्रेषयामास सङ्क्रुद्धो दर्शयन्पाणिलाघवम् ॥६-५०-६६॥
स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः। समाहतो भृशं राजन्कलिङ्गेन महायशाः ॥ सञ्चुक्रुधे भृशं भीमो दण्डाहत इवोरगः ॥६-५०-६७॥
क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः। कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ॥६-५०-६८॥
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ। सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ॥६-५०-६९॥
ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः। केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ॥६-५०-७०॥
ततः कलिङ्गाः सङ्क्रुद्धा भीमसेनममर्षणम्। अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् ॥६-५०-७१॥
ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः। कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ॥६-५०-७२॥
संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम्। गदामादाय तरसा परिप्लुत्य महाबलः ॥ भीमः सप्तशतान्वीराननयद्यमसादनम् ॥६-५०-७३॥
पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः। प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् ॥६-५०-७४॥
एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः। बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् ॥६-५०-७५॥
हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना। विप्रजग्मुरनीकेषु मेघा वातहता इव ॥ मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः ॥६-५०-७६॥
ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली। सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् ॥६-५०-७७॥
मोहश्चापि कलिङ्गानामाविवेश परन्तप। प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः ॥६-५०-७८॥
भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः। मार्गान्बहून्विचरता धावता च ततस्ततः ॥ मुहुरुत्पतता चैव संमोहः समजायत ॥६-५०-७९॥
भीमसेनभयत्रस्तं सैन्यं च समकम्पत। क्षोभ्यमाणमसम्बाधं ग्राहेणेव महत्सरः ॥६-५०-८०॥
त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा। पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः ॥६-५०-८१॥
सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः। अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ॥६-५०-८२॥
सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः। भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ॥६-५०-८३॥
धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः। महता मेघवर्णेन नागानीकेन पृष्ठतः ॥६-५०-८४॥
एवं सञ्चोद्य सर्वाणि स्वान्यनीकानि पार्षतः। भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ॥६-५०-८५॥
न हि पाञ्चालराजस्य लोके कश्चन विद्यते। भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ॥६-५०-८६॥
सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम्। भीमसेनं महाबाहुं पार्षतः परवीरहा ॥६-५०-८७॥
ननर्द बहुधा राजन्हृष्टश्चासीत्परन्तपः। शङ्खं दध्मौ च समरे सिंहनादं ननाद च ॥६-५०-८८॥
स च पारावताश्वस्य रथे हेमपरिष्कृते। कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् ॥६-५०-८९॥
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम्। भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ॥६-५०-९०॥
तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ। कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ ॥६-५०-९१॥
स तत्र गत्वा शैनेयो जवेन जयतां वरः। पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः ॥६-५०-९२॥
स कृत्वा कदनं तत्र प्रगृहीतशरासनः। आस्थितो रौद्रमात्मानं जघान समरे परान् ॥६-५०-९३॥
कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम्। रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ॥६-५०-९४॥
अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम्। सन्ततार सुदुस्तारां भीमसेनो महाबलः ॥६-५०-९५॥
भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप। कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते ॥६-५०-९६॥
ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे। अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः ॥६-५०-९७॥
तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः। अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥६-५०-९८॥
परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे। त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा ॥६-५०-९९॥
प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव। यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ॥६-५०-१००॥
ततः शरसहस्रेण संनिवार्य महारथान्। हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः ॥६-५०-१०१॥
हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान्। शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ॥६-५०-१०२॥
अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव। त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ॥६-५०-१०३॥
ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम्। भीमसेनो रथात्तूर्णं पुप्लुवे मनुजर्षभ ॥६-५०-१०४॥
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया। सारथिं कुरुवृद्धस्य पातयामास सायकैः ॥६-५०-१०५॥
भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः। वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ॥६-५०-१०६॥
भीमसेनस्ततो राजन्नपनीते महाव्रते। प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ॥६-५०-१०७॥
स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत। नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ॥६-५०-१०८॥
धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः। पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् ॥६-५०-१०९॥
सम्पूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ। धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ॥६-५०-११०॥
अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः। प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ॥६-५०-१११॥
दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान्। शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ॥६-५०-११२॥
स्वबाहुबलवीर्येण नागाश्वरथसङ्कुलः। महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया ॥६-५०-११३॥
एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदमः। रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ॥६-५०-११४॥
ततः स्वरथमारुह्य पुनरेव महारथः। तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ॥६-५०-११५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.