6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.065
Core and Pancharatra: On the fifth day, Bhishma arranged the army in crocodile formation, seeing Pandavas in an unconquerable eagle formation.
सञ्जय उवाच॥
व्युषितायां च शर्वर्यामुदिते च दिवाकरे। उभे सेने महाराज युद्धायैव समीयतुः ॥६-६५-१॥
अभ्यधावंश्च सङ्क्रुद्धाः परस्परजिगीषवः। ते सर्वे सहिता युद्धे समालोक्य परस्परम् ॥६-६५-२॥
पाण्डवा धार्तराष्ट्राश्च राजन्दुर्मन्त्रिते तव। व्यूहौ च व्यूह्य संरब्धाः सम्प्रयुद्धाः प्रहारिणः ॥६-६५-३॥
अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः। तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः ॥६-६५-४॥
स निर्ययौ रथानीकं पिता देवव्रतस्तव। महता रथवंशेन संवृतो रथिनां वरः ॥६-६५-५॥
इतरेतरमन्वीयुर्यथाभागमवस्थिताः। रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा ॥६-६५-६॥
तान्दृष्ट्वा प्रोद्यतान्सङ्ख्ये पाण्डवाश्च यशस्विनः। श्येनेन व्यूहराजेन तेनाजय्येन संयुगे ॥६-६५-७॥
अशोभत मुखे तस्य भीमसेनो महाबलः। नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः ॥६-६५-८॥
शीर्षं तस्याभवद्वीरः सात्यकिः सत्यविक्रमः। विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा ॥६-६५-९॥
अक्षौहिण्या समग्रा या वामपक्षोऽभवत्तदा। महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे ॥६-६५-१०॥
दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः। पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् ॥६-६५-११॥
पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरः। भ्रातृभ्यां सहितो धीमान्यमाभ्यां चारुविक्रमः ॥६-६५-१२॥
प्रविश्य तु रणे भीमो मकरं मुखतस्तदा। भीष्ममासाद्य सङ्ग्रामे छादयामास सायकैः ॥६-६५-१३॥
ततो भीष्मो महास्त्राणि पातयामास भारत। मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे ॥६-६५-१४॥
संमुह्यति तदा सैन्ये त्वरमाणो धनञ्जयः। भीष्मं शरसहस्रेण विव्याध रणमूर्धनि ॥६-६५-१५॥
परिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे। स्वेनानीकेन हृष्टेन युद्धाय समवस्थितः ॥६-६५-१६॥
ततो दुर्योधनो राजा भारद्वाजमभाषत। पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः ॥ भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः ॥६-६५-१७॥
आचार्य सततं त्वं हि हितकामो ममानघ। वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् ॥६-६५-१८॥
देवानपि रणे जेतुं प्रार्थयामो न संशयः। किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ॥६-६५-१९॥
एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष। अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः ॥६-६५-२०॥
सात्यकिस्तु तदा द्रोणं वारयामास भारत। ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ॥६-६५-२१॥
शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान्। अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव ॥६-६५-२२॥
भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत। संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् ॥६-६५-२३॥
ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष। भीमसेनं रणे क्रुद्धाश्छादयां चक्रिरे शरैः ॥६-६५-२४॥
तत्राभिमन्युः सङ्क्रुद्धो द्रौपदेयाश्च मारिष। विव्यधुर्निशितैर्बाणैः सर्वांस्तानुद्यतायुधान् ॥६-६५-२५॥
भीष्मद्रोणौ च सङ्क्रुद्धावापतन्तौ महाबलौ। प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे ॥६-६५-२६॥
प्रगृह्य बलवद्वीरो धनुर्जलदनिस्वनम्। अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् ॥६-६५-२७॥
शिखण्डिनं समासाद्य भरतानां पितामहः। अवर्जयत सङ्ग्रामे स्त्रीत्वं तस्यानुसंस्मरन् ॥६-६५-२८॥
ततो द्रोणो महाराज अभ्यद्रवत तं रणे। रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः ॥६-६५-२९॥
शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम्। अवर्जयत सङ्ग्रामे युगान्ताग्निमिवोल्बणम् ॥६-६५-३०॥
ततो बलेन महता पुत्रस्तव विशां पते। जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः ॥६-६५-३१॥
तथैव पाण्डवा राजन्पुरस्कृत्य धनञ्जयम्। भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् ॥६-६५-३२॥
तद्युद्धमभवद्घोरं देवानां दानवैरिव। जयं च काङ्क्षतां नित्यं यशश्च परमाद्भुतम् ॥६-६५-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.