6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.064
Pancharatra: After further elaboration of the Pancharatra by Bhishma, Duryodhana retires to bed that night.
भीष्म उवाच॥
शृणु चेदं महाराज ब्रह्मभूतस्तवं मम। ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ॥६-६४-१॥
साध्यानामपि देवानां देवदेवेश्वरः प्रभुः। लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् ॥ भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह ॥६-६४-२॥
यज्ञानां चैव यज्ञं त्वां तपश्च तपसामपि। देवानामपि देवं च त्वामाह भगवान्भृगुः ॥ पुराणे भैरवं रूपं विष्णो भूतपतेति वै ॥६-६४-३॥
वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा। देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ॥६-६४-४॥
पूर्वे प्रजानिसर्गेषु दक्षमाहुः प्रजापतिम्। स्रष्टारं सर्वभूतानामङ्गिरास्त्वां ततोऽब्रवीत् ॥६-६४-५॥
अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम्। देवा वाक्सम्भवाश्चेति देवलस्त्वसितोऽब्रवीत् ॥६-६४-६॥
शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता। जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ॥६-६४-७॥
एवं त्वामभिजानन्ति तपसा भाविता नराः। आत्मदर्शनतृप्तानामृषीणां चापि सत्तमः ॥६-६४-८॥
राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम्। सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ॥६-६४-९॥
एष ते विस्तरस्तात सङ्क्षेपश्च प्रकीर्तितः। केशवस्य यथातत्त्वं सुप्रीतो भव केशवे ॥६-६४-१०॥
सञ्जय उवाच॥
पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव। केशवं बहु मेने स पाण्डवांश्च महारथान् ॥६-६४-११॥
तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः। माहात्म्यं ते श्रुतं राजन्केशवस्य महात्मनः ॥६-६४-१२॥
नरस्य च यथातत्त्वं यन्मां त्वं परिपृच्छसि। यदर्थं नृषु सम्भूतौ नरनारायणावुभौ ॥६-६४-१३॥
अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ। यथा च पाण्डवा राजन्नगम्या युधि कस्यचित् ॥६-६४-१४॥
प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु। तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः ॥६-६४-१५॥
पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी। नरनारायणौ देवाववज्ञाय नशिष्यसि ॥६-६४-१६॥
एवमुक्त्वा तव पिता तूष्णीमासीद्विशां पते। व्यसर्जयच्च राजानं शयनं च विवेश ह ॥६-६४-१७॥
राजापि शिबिरं प्रायात्प्रणिपत्य महात्मने। शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ ॥६-६४-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.