6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.066
Core and Pancharatra: In the forenoon, a very terrible battle occurred between the Kauravas and the Pandavas.
सञ्जय उवाच॥
अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा। भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव ॥६-६६-१॥
पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत। कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ॥६-६६-२॥
तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये। अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् ॥६-६६-३॥
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः। भेरीशङ्खनिनादैश्च तुमुलः समपद्यत ॥६-६६-४॥
युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः। अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः ॥६-६६-५॥
शिरसां पात्यमानानां समरे निशितैः शरैः। अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ ॥६-६६-६॥
कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च। पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ॥६-६६-७॥
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः। सहस्ताभरणैश्चान्यैरभवच्छादिता मही ॥६-६६-८॥
कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः। मुखैश्च चन्द्रसङ्काशै रक्तान्तनयनैः शुभैः ॥६-६६-९॥
गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते। आसीत्सर्वा समाकीर्णा मुहूर्तेन वसुन्धरा ॥६-६६-१०॥
रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशितैः। आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् ॥६-६६-११॥
स सम्प्रहारस्तुमुलः कटुकः शोणितोदकः। प्रावर्तत कुरूणां च पाण्डवानां च भारत ॥६-६६-१२॥
तस्मिन्महाभये घोरे तुमुले लोमहर्षणे। ववर्षुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः ॥६-६६-१३॥
क्रोशन्ति कुञ्जरास्तत्र शरवर्षप्रतापिताः। तावकानां परेषां च संयुगे भरतोत्तम ॥ अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥६-६६-१४॥
उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः। तावकानां परेषां च योधानां भरतर्षभ ॥६-६६-१५॥
अश्वानां कुञ्जराणां च रथानां चातिवर्तताम्। सङ्घाताः स्म प्रदृश्यन्ते तत्र तत्र विशां पते ॥६-६६-१६॥
गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः। जघ्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः ॥६-६६-१७॥
अपरे बाहुभिर्वीरा नियुद्धकुशला युधि। बहुधा समसज्जन्त आयसैः परिघैरिव ॥६-६६-१८॥
मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पते। अन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह ॥६-६६-१९॥
विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः। अन्योन्यमभिधावन्त परस्परवधैषिणः ॥६-६६-२०॥
ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः। पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ॥६-६६-२१॥
तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम्। भीष्ममभ्यद्रवन्क्रुद्धा रणे रभसवाहनाः ॥६-६६-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.