06.073
Core and Pancharatra: Bhima enters the Kaurava formation, leaving behind his chariot. Drushtadymna follows and takes Bhima on his chariot. He makes the Kaurava army retreat through the delusion weapon. Then Drona discharges a wisdom weapon to counter it. Abhimanyu and 11 others pierce the Kaurava army formation with a needle pointed formation, instructed by Yudhisthira. By afternoon, Drona is successful in defending the Pandava attack.
सञ्जय उवाच॥
आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम्। न हि दुर्योधनस्तानि पश्यते भरतर्षभ ॥ यानि त्वं दृष्टवान्राजन्धर्मसङ्करकारिते ॥६-७३-१॥
तव दोषात्पुरा वृत्तं द्यूतमेतद्विशां पते। तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः ॥ त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना ॥६-७३-२॥
आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते। इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् ॥६-७३-३॥
तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत्। शृणु युद्धं यथावृत्तं शंसतो मम मारिष ॥६-७३-४॥
भीमसेनस्तु निशितैर्बाणैर्भित्त्वा महाचमूम्। आससाद ततो वीरः सर्वान्दुर्योधनानुजान् ॥६-७३-५॥
दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम्। जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् ॥६-७३-६॥
चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च। एतानन्यांश्च सुबहून्समीपस्थान्महारथान् ॥६-७३-७॥
धार्तराष्ट्रान्सुसङ्क्रुद्धान्दृष्ट्वा भीमो महाबलः। भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् ॥६-७३-८॥
अथाह्वयन्त तेऽन्योन्यमयं प्राप्तो वृकोदरः। जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः ॥६-७३-९॥
स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः। प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः ॥६-७३-१०॥
सम्प्राप्य मध्यं व्यूहस्य न भीः पाण्डवमाविशत्। यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान् ॥६-७३-११॥
ततः शतसहस्राणि रथिनां सर्वशः प्रभो। छादयानं शरैर्घोरैस्तमेकमनुवव्रिरे ॥६-७३-१२॥
स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः। जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् ॥६-७३-१३॥
तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम्। समस्तानां वधे राजन्मतिं चक्रे महामनाः ॥६-७३-१४॥
ततो रथं समुत्सृज्य गदामादाय पाण्डवः। जघान धार्तराष्ट्राणां तं बलौघमहार्णवम् ॥६-७३-१५॥
भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः। द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः ॥६-७३-१६॥
विदार्य महतीं सेनां तावकानां नरर्षभः। आससाद रथं शून्यं भीमसेनस्य संयुगे ॥६-७३-१७॥
दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम्। धृष्टद्युम्नो महाराज दुर्मना गतचेतनः ॥६-७३-१८॥
अपृच्छद्बाष्पसंरुद्धो निस्वनां वाचमीरयन्। मम प्राणैः प्रियतमः क्व भीम इति दुःखितः ॥६-७३-१९॥
विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः। संस्थाप्य मामिह बली पाण्डवेयः प्रतापवान् ॥६-७३-२०॥
प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम्। मामुक्त्वा पुरुषव्याघ्र प्रीतियुक्तमिदं वचः ॥६-७३-२१॥
प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम्। यावदेतान्निहन्म्याशु य इमे मद्वधोद्यताः ॥६-७३-२२॥
ततो दृष्ट्वा गदाहस्तं प्रधावन्तं महाबलम्। सर्वेषामेव सैन्यानां सङ्घर्षः समजायत ॥६-७३-२३॥
तस्मिंस्तु तुमुले युद्धे वर्तमाने भयानके। भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव ॥६-७३-२४॥
विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः। प्रत्युवाच ततः सूतं रणमध्ये महाबलः ॥६-७३-२५॥
न हि मे विद्यते सूत जीवितेऽद्य प्रयोजनम्। भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः ॥६-७३-२६॥
यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति। एकायनगते भीमे मयि चावस्थिते युधि ॥६-७३-२७॥
अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरोगमाः। यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहान् ॥६-७३-२८॥
मम भीमः सखा चैव सम्बन्धी च महाबलः। भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् ॥६-७३-२९॥
सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः। निघ्नन्तं मामरीन्पश्य दानवानिव वासवम् ॥६-७३-३०॥
एवमुक्त्वा ततो वीरो ययौ मध्येन भारतीम्। भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः ॥६-७३-३१॥
स ददर्श ततो भीमं दहन्तं रिपुवाहिनीम्। वातं वृक्षानिव बलात्प्रभञ्जन्तं रणे नृपान् ॥६-७३-३२॥
ते हन्यमानाः समरे रथिनः सादिनस्तथा। पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत् ॥६-७३-३३॥
हाहाकारश्च सञ्जज्ञे तव सैन्यस्य मारिष। वध्यतो भीमसेनेन कृतिना चित्रयोधिना ॥६-७३-३४॥
ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम्। अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः ॥६-७३-३५॥
अभिद्रुतं शस्त्रभृतां वरिष्ठं; समन्ततः पाण्डवं लोकवीरैः। सैन्येन घोरेण सुसङ्गतेन; दृष्ट्वा बली पार्षतो भीमसेनम् ॥६-७३-३६॥
अथोपगच्छच्छरविक्षताङ्गं; पदातिनं क्रोधविषं वमन्तम्। आश्वासयन्पार्षतो भीमसेनं; गदाहस्तं कालमिवान्तकाले ॥६-७३-३७॥
निःशल्यमेनं च चकार तूर्ण; मारोपयच्चात्मरथं महात्मा। भृशं परिष्वज्य च भीमसेन; माश्वासयामास च शत्रुमध्ये ॥६-७३-३८॥
भ्रातॄनथोपेत्य तवापि पुत्र; स्तस्मिन्विमर्दे महति प्रवृत्ते। अयं दुरात्मा द्रुपदस्य पुत्रः; समागतो भीमसेनेन सार्धम् ॥ तं यात सर्वे सहिता निहन्तुं; मा वो रिपुः प्रार्थयतामनीकम् ॥६-७३-३९॥
श्रुत्वा तु वाक्यं तममृष्यमाणा; ज्येष्ठाज्ञया चोदिता धार्तराष्ट्राः। वधाय निष्पेतुरुदायुधास्ते; युगक्षये केतवो यद्वदुग्राः ॥६-७३-४०॥
प्रगृह्य चित्राणि धनूंषि वीरा; ज्यानेमिघोषैः प्रविकम्पयन्तः। शरैरवर्षन्द्रुपदस्य पुत्रं; यथाम्बुदा भूधरं वारिजालैः ॥ निहत्य तांश्चापि शरैः सुतीक्ष्णै; र्न विव्यथे समरे चित्रयोधी ॥६-७३-४१॥
समभ्युदीर्णांश्च तवात्मजांस्तथा; निशाम्य वीरानभितः स्थितान्रणे। जिघांसुरुग्रं द्रुपदात्मजो युवा; प्रमोहनास्त्रं युयुजे महारथः ॥ क्रुद्धो भृशं तव पुत्रेषु राज; न्दैत्येषु यद्वत्समरे महेन्द्रः ॥६-७३-४२॥
ततो व्यमुह्यन्त रणे नृवीराः; प्रमोहनास्त्राहतबुद्धिसत्त्वाः। प्रदुद्रुवुः कुरवश्चैव सर्वे; सवाजिनागाः सरथाः समन्तात् ॥ परीतकालानिव नष्टसञ्ज्ञा; न्मोहोपेतांस्तव पुत्रान्निशम्य ॥६-७३-४३॥
एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः। द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः ॥६-७३-४४॥
सोऽतिविद्धस्तदा राजन्रणे द्रोणेन पार्थिवः। अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् ॥६-७३-४५॥
जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान्। तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः ॥६-७३-४६॥
अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः। प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव ॥६-७३-४७॥
ततो द्रोणो राजगृद्धी त्वरितोऽभिययौ रणात्। तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् ॥ धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे ॥६-७३-४८॥
मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः। ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यशातयत् ॥६-७३-४९॥
अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः। पुनर्युद्धाय समरे प्रययुर्भीमपार्षतौ ॥६-७३-५०॥
ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान्। गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि ॥६-७३-५१॥
सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः। प्रवृत्तिमधिगच्छन्तु न हि शुध्यति मे मनः ॥६-७३-५२॥
त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः। बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः ॥ मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि ॥६-७३-५३॥
केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान्। अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः ॥६-७३-५४॥
ते कृत्वा समरे व्यूहं सूचीमुखमरिंदमाः। बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे ॥६-७३-५५॥
तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान्। भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता ॥६-७३-५६॥
न सन्धारयितुं शक्ता तव सेना जनाधिप। मदमूर्छान्वितात्मानं प्रमदेवाध्वनि स्थिता ॥६-७३-५७॥
तेऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः। परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ ॥६-७३-५८॥
तौ च दृष्ट्वा महेष्वासानभिमन्युपुरोगमान्। बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम् ॥६-७३-५९॥
दृष्ट्वा च सहसायान्तं पाञ्चाल्यो गुरुमात्मनः। नाशंसत वधं वीरः पुत्राणां तव पार्षतः ॥६-७३-६०॥
ततो रथं समारोप्य केकयस्य वृकोदरम्। अभ्यधावत्सुसङ्क्रुद्धो द्रोणमिष्वस्त्रपारगम् ॥६-७३-६१॥
तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान्। क्रुद्धश्चिच्छेद भल्लेन धनुः शत्रुनिषूदनः ॥६-७३-६२॥
अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते। दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् ॥६-७३-६३॥
अथान्यद्धनुरादाय पार्षतः परवीरहा। द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः ॥६-७३-६४॥
तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः। हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः ॥६-७३-६५॥
वैवस्वतक्षयं घोरं प्रेषयामास वीर्यवान्। सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे ॥६-७३-६६॥
हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः। आरुरोह महाबाहुरभिमन्योर्महारथम् ॥६-७३-६७॥
ततः सरथनागाश्वा समकम्पत वाहिनी। पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः ॥६-७३-६८॥
तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा। नाशक्नुवन्वारयितुं समस्तास्ते महारथाः ॥६-७३-६९॥
वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः। व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः ॥६-७३-७०॥
तथा दृष्ट्वा च तत्सैन्यं जहृषे च बलं तव। दृष्ट्वाचार्यं च सङ्क्रुद्धं दहन्तं रिपुवाहिनीम् ॥ चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत ॥६-७३-७१॥