06.072
Core and Pancharatra: Dhritarashtra laments the fate of his son's army, despite its being groomed and managed effectively.
धृतराष्ट्र उवाच॥
एवं बहुगुणं सैन्यमेवं बहुविधं परम्। व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय ॥६-७२-१॥
पुष्टमस्माकमत्यन्तमभिकामं च नः सदा। प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् ॥६-७२-२॥
नातिवृद्धमबालं च न कृशं न च पीवरम्। लघुवृत्तायतप्रायं सारगात्रमनामयम् ॥६-७२-३॥
आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम्। असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् ॥६-७२-४॥
प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च। भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः ॥६-७२-५॥
कम्पनेषु च चापेषु कणपेषु च सर्वशः। क्षेपणीषु च चित्रासु मुष्टियुद्धेषु कोविदम् ॥६-७२-६॥
अपरोक्षं च विद्यासु व्यायामेषु कृतश्रमम्। शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् ॥६-७२-७॥
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते। सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ॥६-७२-८॥
नागाश्वरथयानेषु बहुशः सुपरीक्षितम्। परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥६-७२-९॥
न गोष्ठ्या नोपचारेण न च बन्धुनिमित्ततः। न सौहृदबलैश्चापि नाकुलीनपरिग्रहैः ॥६-७२-१०॥
समृद्धजनमार्यं च तुष्टसत्कृतबान्धवम्। कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च ॥६-७२-११॥
सजयैश्च नरैर्मुख्यैर्बहुशो मुख्यकर्मभिः। लोकपालोपमैस्तात पालितं लोकविश्रुतैः ॥६-७२-१२॥
बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः। अस्मानभिगतैः कामात्सबलैः सपदानुगैः ॥६-७२-१३॥
महोदधिमिवापूर्णमापगाभिः समन्ततः। अपक्षैः पक्षसङ्काशै रथैर्नागैश्च संवृतम् ॥६-७२-१४॥
नानायोधजलं भीमं वाहनोर्मितरङ्गिणम्। क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम् ॥६-७२-१५॥
ध्वजभूषणसम्बाधं रत्नपट्टेन सञ्चितम्। वाहनैः परिसर्पद्भिर्वायुवेगविकम्पितम् ॥६-७२-१६॥
अपारमिव गर्जन्तं सागरप्रतिमं महत्। द्रोणभीष्माभिसङ्गुप्तं गुप्तं च कृतवर्मणा ॥६-७२-१७॥
कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा। भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः ॥६-७२-१८॥
गुप्तं प्रवीरैर्लोकस्य सारवद्भिर्महात्मभिः। यदहन्यत सङ्ग्रामे दिष्टमेतत्पुरातनम् ॥६-७२-१९॥
नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः। ऋषयो वा महाभागाः पुराणा भुवि सञ्जय ॥६-७२-२०॥
ईदृशो हि बलौघस्तु युक्तः शस्त्रास्त्रसम्पदा। वध्यते यत्र सङ्ग्रामे किमन्यद्भागधेयतः ॥६-७२-२१॥
विपरीतमिदं सर्वं प्रतिभाति स्म सञ्जय। यत्रेदृशं बलं घोरं नातरद्युधि पाण्डवान् ॥६-७२-२२॥
अथ वा पाण्डवार्थाय देवास्तत्र समागताः। युध्यन्ते मामकं सैन्यं यदवध्यन्त सञ्जय ॥६-७२-२३॥
उक्तो हि विदुरेणेह हितं पथ्यं च सञ्जय। न च गृह्णाति तन्मन्दः पुत्रो दुर्योधनो मम ॥६-७२-२४॥
तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः। आसीद्यथागतं तात येन दृष्टमिदं पुरा ॥६-७२-२५॥
अथ वा भाव्यमेवं हि सञ्जयैतेन सर्वथा। पुरा धात्रा यथा सृष्टं तत्तथा न तदन्यथा ॥६-७२-२६॥