6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.085
Core and Pancharatra: In the afternoon, commanded by Yudhisthira, Pandava army attacks Bhishma with the intent to kill him. Drona torments Shrinjayas. Bhima goes after the elephant army. Nakula and Sahadeva go after the cavalry.
धृतराष्ट्र उवाच॥
दृष्ट्वा मम हतान्पुत्रान्बहूनेकेन सञ्जय। भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे ॥६-८५-१॥
अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय। मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम् ॥६-८५-२॥
यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत। यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः ॥६-८५-३॥
सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः। अश्वत्थाम्नस्तथा तात शूराणां सुमहात्मनाम् ॥६-८५-४॥
अन्येषां चैव वीराणां मध्यगास्तनया मम। यदहन्यन्त सङ्ग्रामे किमन्यद्भागधेयतः ॥६-८५-५॥
न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत। वार्यमाणो मया तात भीष्मेण विदुरेण च ॥६-८५-६॥
गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया। नावबुध्यत्पुरा मोहात्तस्य प्राप्तमिदं फलम् ॥६-८५-७॥
यद्भीमसेनः समरे पुत्रान्मम विचेतसः। अहन्यहनि सङ्क्रुद्धो नयते यमसादनम् ॥६-८५-८॥
सञ्जय उवाच॥
इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम्। न बुद्धवानसि विभो प्रोच्यमानं हितं तदा ॥६-८५-९॥
निवारय सुतान्द्यूतात्पाण्डवान्मा द्रुहेति च। सुहृदां हितकामानां ब्रुवतां तत्तदेव च ॥६-८५-१०॥
न शुश्रूषसि यद्वाक्यं मर्त्यः पथ्यमिवौषधम्। तदेव त्वामनुप्राप्तं वचनं साधु भाषितम् ॥६-८५-११॥
विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम्। अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः ॥६-८५-१२॥
तदेतत्समतिक्रान्तं पूर्वमेव विशां पते। तस्मान्मे शृणु तत्त्वेन यथा युद्धमवर्तत ॥६-८५-१३॥
मध्याह्ने सुमहारौद्रः सङ्ग्रामः समपद्यत। लोकक्षयकरो राजंस्तन्मे निगदतः शृणु ॥६-८५-१४॥
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्। संरब्धान्यभ्यधावन्त भीष्ममेव जिघांसया ॥६-८५-१५॥
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः। युक्तानीका महाराज भीष्ममेव समभ्ययुः ॥६-८५-१६॥
अर्जुनो द्रौपदेयाश्च चेकितानश्च संयुगे। दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः ॥६-८५-१७॥
अभिमन्युस्तथा वीरो हैडिम्बश्च महारथः। भीमसेनश्च सङ्क्रुद्धस्तेऽभ्यधावन्त कौरवान् ॥६-८५-१८॥
त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि। तथैव कौरवे राजन्नवध्यन्त परे रणे ॥६-८५-१९॥
द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह। अभ्यद्रवत सङ्क्रुद्धः प्रेषयिष्यन्यमक्षयम् ॥६-८५-२०॥
तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मनाम्। वध्यतां समरे राजन्भारद्वाजेन धन्विना ॥६-८५-२१॥
द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे। विवेष्टन्तः स्म दृश्यन्ते व्याधिक्लिष्टा नरा इव ॥६-८५-२२॥
कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे। अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणामिव ॥६-८५-२३॥
तथैव कौरवेयाणां भीमसेनो महाबलः। चकार कदनं घोरं क्रुद्धः काल इवापरः ॥६-८५-२४॥
वध्यतां तत्र सैन्यानामन्योन्येन महारणे। प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी ॥६-८५-२५॥
स सङ्ग्रामो महाराज घोररूपोऽभवन्महान्। कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः ॥६-८५-२६॥
ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः। गजानीकं समासाद्य प्रेषयामास मृत्यवे ॥६-८५-२७॥
तत्र भारत भीमेन नाराचाभिहता गजाः। पेतुः सेदुश्च नेदुश्च दिशश्च परिबभ्रमुः ॥६-८५-२८॥
छिन्नहस्ता महानागाश्छिन्नपादाश्च मारिष। क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशिश्यिरे ॥६-८५-२९॥
नकुलः सहदेवश्च हयानीकमभिद्रुतौ। ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः ॥ वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥६-८५-३०॥
पतद्भिश्च हयै राजन्समास्तीर्यत मेदिनी। निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः ॥ हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा ॥६-८५-३१॥
अर्जुनेन हतैः सङ्ख्ये तथा भारत वाजिभिः। प्रबभौ वसुधा घोरा तत्र तत्र विशां पते ॥६-८५-३२॥
रथैर्भग्नैर्ध्वजैश्छिन्नैश्छत्रैश्च सुमहाप्रभैः। हारैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः ॥६-८५-३३॥
उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वषः। अनुकर्षैः शुभै राजन्योक्त्रैश्चव्यसुरश्मिभिः ॥ सञ्छन्ना वसुधा भाति वसन्ते कुसुमैरिव ॥६-८५-३४॥
एवमेष क्षयो वृत्तः पाण्डूनामपि भारत। क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे ॥६-८५-३५॥
अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि। तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः ॥६-८५-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.