6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.098
धृतराष्ट्र उवाच॥
कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः। समीयतू रणे शूरौ तन्ममाचक्ष्व सञ्जय ॥६-९८-१॥
प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः। आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय ॥६-९८-२॥
तावुभौ रथिनौ सङ्ख्ये दृप्तौ सिंहाविवोत्कटौ। कथं समीयतुर्युद्धे भारद्वाजधनञ्जयौ ॥६-९८-३॥
सञ्जय उवाच॥
न द्रोणः समरे पार्थं जानीते प्रियमात्मनः। क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ॥६-९८-४॥
न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम्। निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह ॥६-९८-५॥
रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः। नाचिन्तयत तान्बाणान्पार्थचापच्युतान्युधि ॥६-९८-६॥
शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे। प्रजज्वाल च रोषेण गहनेऽग्निरिवोत्थितः ॥६-९८-७॥
ततोऽर्जुनं रणे द्रोणः शरैः संनतपर्वभिः। वारयामास राजेन्द्र नचिरादिव भारत ॥६-९८-८॥
ततो दुर्योधनो राजा सुशर्माणमचोदयत्। द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ॥६-९८-९॥
त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम्। छादयामास समरे पार्थं बाणैरयोमुखैः ॥६-९८-१०॥
ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे। हंसा इव महाराज शरत्काले नभस्तले ॥६-९८-११॥
ते शराः प्राप्य कौन्तेयं समस्ता विविशुः प्रभो। फलभारनतं यद्वत्स्वादुवृक्षं विहङ्गमाः ॥६-९८-१२॥
अर्जुनस्तु रणे नादं विनद्य रथिनां वरः। त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ॥६-९८-१३॥
ते वध्यमानाः पार्थेन कालेनेव युगक्षये। पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः ॥ मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ॥६-९८-१४॥
शरवृष्टिं ततस्तां तु शरवर्षेण पाण्डवः। प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः ॥६-९८-१५॥
तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम्। विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदाम् ॥६-९८-१६॥
यदेको वारयामास मारुतोऽभ्रगणानिव। कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः ॥६-९८-१७॥
अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत। मुमोचास्त्रं महाराज वायव्यं पृतनामुखे ॥६-९८-१८॥
प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम्। पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ॥६-९८-१९॥
ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम्। शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ॥६-९८-२०॥
द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे महामृधे। प्रशशाम ततो वायुः प्रसन्नाश्चाभवन्दिशः ॥६-९८-२१॥
ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान्। निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् ॥६-९८-२२॥
ततो दुर्योधनो राजा कृपश्च रथिनां वरः। अश्वत्थामा ततः शल्यः काम्बोजश्च सुदक्षिणः ॥६-९८-२३॥
विन्दानुविन्दावावन्त्यौ बाह्लिकश्च सबाह्लिकः। महता रथवंशेन पार्थस्यावारयन्दिशः ॥६-९८-२४॥
तथैव भगदत्तश्च श्रुतायुश्च महाबलः। गजानीकेन भीमस्य ताववारयतां दिशः ॥६-९८-२५॥
भूरिश्रवाः शलश्चैव सौबलश्च विशां पते। शरौघैर्विविधैस्तूर्णं माद्रीपुत्राववारयन् ॥६-९८-२६॥
भीष्मस्तु सहितः सर्वैर्धार्तराष्ट्रस्य सैनिकैः। युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् ॥६-९८-२७॥
आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः। लेलिहन्सृक्किणी वीरो मृगराडिव कानने ॥६-९८-२८॥
ततस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे। अवप्लुत्य रथात्तूर्णं तव सैन्यमभीषयत् ॥६-९८-२९॥
तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः। परिवव्रू रणे यत्ता भीमसेनं समन्ततः ॥६-९८-३०॥
गजमध्यमनुप्राप्तः पाण्डवश्च व्यराजत। मेघजालस्य महतो यथा मध्यगतो रविः ॥६-९८-३१॥
व्यधमत्स गजानीकं गदया पाण्डवर्षभः। महाभ्रजालमतुलं मातरिश्वेव सन्ततम् ॥६-९८-३२॥
ते वध्यमाना बलिना भीमसेनेन दन्तिनः। आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ॥६-९८-३३॥
बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः। फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ॥६-९८-३४॥
विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत्। विषाणेन च तेनैव कुम्भेऽभ्याहत्य दन्तिनम् ॥ पातयामास समरे दण्डहस्त इवान्तकः ॥६-९८-३५॥
शोणिताक्तां गदां बिभ्रन्मेदोमज्जाकृतच्छविः। कृताङ्गदः शोणितेन रुद्रवत्प्रत्यदृश्यत ॥६-९८-३६॥
एवं ते वध्यमानास्तु हतशेषा महागजाः। प्राद्रवन्त दिशो राजन्विमृद्नन्तः स्वकं बलम् ॥६-९८-३७॥
द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ। दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥६-९८-३८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.