6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.101
सञ्जय उवाच॥
दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम्। यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ॥६-१०१-१॥
दुर्योधनो महाराज दुःशासनमभाषत। एष शूरो महेष्वासो भीष्मः शत्रुनिषूदनः ॥६-१०१-२॥
छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ। तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः ॥६-१०१-३॥
रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः। निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह ॥६-१०१-४॥
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम्। गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं पितामहः ॥६-१०१-५॥
स भवान्सर्वसैन्येन परिवार्य पितामहम्। समरे दुष्करं कर्म कुर्वाणं परिरक्षतु ॥६-१०१-६॥
एवमुक्तस्तु समरे पुत्रो दुःशासनस्तव। परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ॥६-१०१-७॥
ततः शतसहस्रेण हयानां सुबलात्मजः। विमलप्रासहस्तानामृष्टितोमरधारिणाम् ॥६-१०१-८॥
दर्पितानां सुवेगानां बलस्थानां पताकिनाम्। शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ॥६-१०१-९॥
नकुलं सहदेवं च धर्मराजं च पाण्डवम्। न्यवारयन्नरश्रेष्ठं परिवार्य समन्ततः ॥६-१०१-१०॥
ततो दुर्योधनो राजा शूराणां हयसादिनाम्। अयुतं प्रेषयामास पाण्डवानां निवारणे ॥६-१०१-११॥
तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे। खुराहता धरा राजंश्चकम्पे च ननाद च ॥६-१०१-१२॥
खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा। महावंशवनस्येव दह्यमानस्य पर्वते ॥६-१०१-१३॥
उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः। दिवाकरपथं प्राप्य छादयामास भास्करम् ॥६-१०१-१४॥
वेगवद्भिर्हयैस्तैस्तु क्षोभितं पाण्डवं बलम्। निपतद्भिर्महावेगैर्हंसैरिव महत्सरः ॥ हेषतां चैव शब्देन न प्राज्ञायत किञ्चन ॥६-१०१-१५॥
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ। प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् ॥६-१०१-१६॥
उद्वृत्तस्य महाराज प्रावृट्कालेन पूर्यतः। पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः ॥६-१०१-१७॥
ततस्ते रथिनो राजञ्शरैः संनतपर्वभिः। न्यकृन्तन्नुत्तमाङ्गानि कायेभ्यो हयसादिनाम् ॥६-१०१-१८॥
ते निपेतुर्महाराज निहता दृढधन्विभिः। नागैरिव महानागा यथा स्युर्गिरिगह्वरे ॥६-१०१-१९॥
तेऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः। न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश ॥६-१०१-२०॥
अत्यासन्ना हयारोहा ऋष्टिभिर्भरतर्षभ। अच्छिनन्नुत्तमाङ्गानि फलानीव महाद्रुमात् ॥६-१०१-२१॥
ससादिनो हया राजंस्तत्र तत्र निषूदिताः। पतिताः पात्यमानाश्च शतशोऽथ सहस्रशः ॥६-१०१-२२॥
वध्यमाना हयास्ते तु प्राद्रवन्त भयार्दिताः। यथा सिंहान्समासाद्य मृगाः प्राणपरायणाः ॥६-१०१-२३॥
पाण्डवास्तु महाराज जित्वा शत्रून्महाहवे। दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे ॥६-१०१-२४॥
ततो दुर्योधनो दृष्ट्वा दीनं सैन्यमवस्थितम्। अब्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः ॥६-१०१-२५॥
एष पाण्डुसुतो ज्येष्ठो जित्वा मातुल मामकान्। पश्यतां नो महाबाहो सेनां द्रावयते बली ॥६-१०१-२६॥
तं वारय महाबाहो वेलेव मकरालयम्। त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः ॥६-१०१-२७॥
पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान्। प्रययौ रथवंशेन यत्र राजा युधिष्ठिरः ॥६-१०१-२८॥
तदापतद्वै सहसा शल्यस्य सुमहद्बलम्। महौघवेगं समरे वारयामास पाण्डवः ॥६-१०१-२९॥
मद्रराजं च समरे धर्मराजो महारथः। दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे ॥ नकुलः सहदेवश्च त्रिभिस्त्रिभिरजिह्मगैः ॥६-१०१-३०॥
मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः। युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः ॥ माद्रीपुत्रौ च संरब्धौ द्वाभ्यां द्वाभ्यामताडयत् ॥६-१०१-३१॥
ततो भीमो महाबाहुर्दृष्ट्वा राजानमाहवे। मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा ॥ अभ्यद्रवत सङ्ग्रामे युधिष्ठिरममित्रजित् ॥६-१०१-३२॥
ततो युद्धं महाघोरं प्रावर्तत सुदारुणम्। अपरां दिशमास्थाय द्योतमाने दिवाकरे ॥६-१०१-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.