06.111
Pancharatra and Core: Slightly different version of the agreement between Yudhishthira and Bhishma with a varied version of day ten recap till now.
धृतराष्ट्र उवाच॥
कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय। अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः ॥६-१११-१॥
कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन्। आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः ॥६-१११-२॥
सञ्जय उवाच॥
कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत। यथा च तदभूद्युद्धं तत्ते वक्ष्यामि शृण्वतः ॥६-१११-३॥
प्रेषिताः परलोकाय परमास्त्रैः किरीटिना। अहन्यहनि सम्प्राप्तास्तावकानां रथव्रजाः ॥६-१११-४॥
यथाप्रतिज्ञं कौरव्यः स चापि समितिञ्जयः। पार्थानामकरोद्भीष्मः सततं समितिक्षयम् ॥६-१११-५॥
कुरुभिः सहितं भीष्मं युध्यमानं महारथम्। अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः ॥६-१११-६॥
दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे। अवर्तत महारौद्रः सततं समितिक्षयः ॥६-१११-७॥
तस्मिन्नयुतशो राजन्भूयश्च स परन्तपः। भीष्मः शान्तनवो योधाञ्जघान परमास्त्रवित् ॥६-१११-८॥
येषामज्ञातकल्पानि नामगोत्राणि पार्थिव। ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः ॥६-१११-९॥
दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम्। निरविद्यत धर्मात्मा जीवितेन परन्तपः ॥६-१११-१०॥
स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखं रणे। न हन्यां मानवश्रेष्ठान्सङ्ग्रामेऽभिमुखानिति ॥६-१११-११॥
चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव। अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् ॥६-१११-१२॥
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद। शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः ॥६-१११-१३॥
निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत। घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे ॥६-१११-१४॥
तस्मात्पार्थं पुरोधाय पाञ्चालान्सृञ्जयांस्तथा। मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् ॥६-१११-१५॥
तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः। भीष्मं प्रतिययौ यत्तः सङ्ग्रामे सह सृञ्जयैः ॥६-१११-१६॥
धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः। श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् ॥६-१११-१७॥
अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे। रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना ॥६-१११-१८॥
अयं चापि महेष्वासः पार्षतो वाहिनीपतिः। भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् ॥६-१११-१९॥
न वै भीष्माद्भयं किञ्चित्कर्तव्यं युधि सृञ्जयाः। ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् ॥६-१११-२०॥
तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः। ब्रह्मलोकपरा भूत्वा सञ्जग्मुः क्रोधमूर्छिताः ॥६-१११-२१॥
शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम्। भीष्मस्य पातने यत्नं परमं ते समास्थिताः ॥६-१११-२२॥
ततस्तव सुतादिष्टा नानाजनपदेश्वराः। द्रोणेन सहपुत्रेण सहसेना महाबलाः ॥६-१११-२३॥
दुःशासनश्च बलवान्सह सर्वैः सहोदरैः। भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा ॥६-१११-२४॥
ततस्तु तावकाः शूराः पुरस्कृत्य यतव्रतम्। शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥६-१११-२५॥
चेदिभिश्च सपाञ्चालैः सहितो वानरध्वजः। ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् ॥६-१११-२६॥
द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम्। युधामन्युः सहामात्यं दुर्योधनमयोधयत् ॥६-१११-२७॥
विराटस्तु सहानीकः सहसेनं जयद्रथम्। वृद्धक्षत्रस्य दायादमाससाद परन्तपः ॥६-१११-२८॥
मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः। भीमसेनाभिगुप्तश्च नागानीकमुपाद्रवत् ॥६-१११-२९॥
अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम्। द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः ॥६-१११-३०॥
कर्णिकारध्वजं चापि सिंहकेतुररिंदमः। प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः ॥६-१११-३१॥
शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम्। राजभिः समरे सार्धमभिपेतुर्जिघांसवः ॥६-१११-३२॥
तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे। सम्प्रधावत्स्वनीकेषु मेदिनी समकम्पत ॥६-१११-३३॥
तान्यनीकान्यनीकेषु समसज्जन्त भारत। तावकानां परेषां च दृष्ट्वा शान्तनवं रणे ॥६-१११-३४॥
ततस्तेषां प्रयततामन्योन्यमभिधावताम्। प्रादुरासीन्महाञ्शब्दो दिक्षु सर्वासु भारत ॥६-१११-३५॥
शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः। सिंहनादैश्च सैन्यानां दारुणः समपद्यत ॥६-१११-३६॥
सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा। वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत ॥६-१११-३७॥
रजोमेघाश्च सञ्जज्ञुः शस्त्रविद्युद्भिरावृताः। धनुषां चैव निर्घोषो दारुणः समपद्यत ॥६-१११-३८॥
बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः। रथगोषश्च सञ्जग्मुः सेनयोरुभयोरपि ॥६-१११-३९॥
प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम्। निष्प्रकाशमिवाकाशं सेनयोः समपद्यत ॥६-१११-४०॥
अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे। कुञ्जराः कुञ्जराञ्जघ्नुः पदातींश्च पदातयः ॥६-१११-४१॥
तदासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह। भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा ॥६-१११-४२॥
तयोः समागमो घोरो बभूव युधि भारत। अन्योन्यस्य वधार्थाय जिगीषूणां रणाजिरे ॥६-१११-४३॥