06.112
Pancharatra and Core: Recap of the war till now, by a different author, with Arjuna at the centre.
सञ्जय उवाच॥
अभिमन्युर्महाराज तव पुत्रमयोधयत्। महत्या सेनया युक्तो भीष्महेतोः पराक्रमी ॥६-११२-१॥
दुर्योधनो रणे कार्ष्णिं नवभिर्नतपर्वभिः। आजघान रणे क्रुद्धः पुनश्चैनं त्रिभिः शरैः ॥६-११२-२॥
तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्घोरामिव स्वसाम्। प्रेषयामास सङ्क्रुद्धो दुर्योधनरथं प्रति ॥६-११२-३॥
तामापतन्तीं सहसा घोररूपां विशां पते। द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ॥६-११२-४॥
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः। दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥६-११२-५॥
पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे। दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ॥६-११२-६॥
तद्युद्धमभवद्घोरं चित्ररूपं च भारत। ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम् ॥६-११२-७॥
भीष्मस्य निधनार्थाय पार्थस्य विजयाय च। युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ ॥६-११२-८॥
सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः। आजघानोरसि क्रुद्धो नाराचेन परन्तपः ॥६-११२-९॥
शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत। अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः ॥६-११२-१०॥
अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः। त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ॥६-११२-११॥
सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः। द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ॥६-११२-१२॥
पौरवो धृष्टकेतुं च शरैरासाद्य संयुगे। बहुधा दारयां चक्रे महेष्वासं महारथम् ॥६-११२-१३॥
तथैव पौरवं युद्धे धृष्टकेतुर्महारथः। त्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः ॥६-११२-१४॥
पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः। ननाद बलवन्नादं विव्याध दशभिः शरैः ॥६-११२-१५॥
सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः। आजघान महाराज त्रिसप्तत्या शिलीमुखैः ॥६-११२-१६॥
तौ तु तत्र महेष्वासौ महामात्रौ महारथौ। महता शरवर्षेण परस्परमवर्षताम् ॥६-११२-१७॥
अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत। विरथावसियुद्धाय सङ्गतौ तौ महारथौ ॥६-११२-१८॥
आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृते। तारकाशतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ ॥६-११२-१९॥
प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ। वाशितासङ्गमे यत्तौ सिंहाविव महावने ॥६-११२-२०॥
मण्डलानि विचित्राणि गतप्रत्यागतानि च। चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ॥६-११२-२१॥
पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना। ताडयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥६-११२-२२॥
चेदिराजोऽपि समरे पौरवं पुरुषर्षभम्। आजघान शिताग्रेण जत्रुदेशे महासिना ॥६-११२-२३॥
तावन्योन्यं महाराज समासाद्य महाहवे। अन्योन्यवेगाभिहतौ निपेततुररिंदमौ ॥६-११२-२४॥
ततः स्वरथमारोप्य पौरवं तनयस्तव। जयत्सेनो रथे राजन्नपोवाह रणाजिरात् ॥६-११२-२५॥
धृष्टकेतुं च समरे माद्रीपुत्रः परन्तपः। अपोवाह रणे राजन्सहदेवः प्रतापवान् ॥६-११२-२६॥
चित्रसेनः सुशर्माणं विद्ध्वा नवभिराशुगैः। पुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः ॥६-११२-२७॥
सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशां पते। दशभिर्दशभिश्चैव विव्याध निशितैः शरैः ॥६-११२-२८॥
चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वणाम्। आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत भीष्मस्य समरे राजन्यशो मानं च वर्धयन् ॥६-११२-२९॥
सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत्। आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ॥ पुनर्विव्याध विंशत्या शरैः संनतपर्वभिः ॥६-११२-३०॥
बृहद्बलं च सौभद्रो विद्ध्वा नवभिरायसैः। नाकम्पयत सङ्ग्रामे विव्याध च पुनः पुनः ॥६-११२-३१॥
कौसल्यस्य पुनश्चापि धनुश्चिच्छेद फाल्गुणिः। आजघान शरैश्चैव त्रिंशता कङ्कपत्रिभिः ॥६-११२-३२॥
सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः। फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ॥६-११२-३३॥
तयोर्युद्धं समभवद्भीष्महेतोः परन्तप। संरब्धयोर्महाराज समरे चित्रयोधिनोः ॥ यथा देवासुरे युद्धे मयवासवयोरभूत् ॥६-११२-३४॥
भीमसेनो गजानीकं योधयन्बह्वशोभत। यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् ॥६-११२-३५॥
ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः। निपेतुरुर्व्यां सहिता नादयन्तो वसुन्धराम् ॥६-११२-३६॥
गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः। विरेजुर्वसुधां प्राप्य विकीर्णा इव पर्वताः ॥६-११२-३७॥
युधिष्ठिरो महेष्वासो मद्रराजानमाहवे। महत्या सेनया गुप्तं पीडयामास सङ्गतः ॥६-११२-३८॥
मद्रेश्वरश्च समरे धर्मपुत्रं महारथम्। पीडयामास संरब्धो भीष्महेतोः पराक्रमी ॥६-११२-३९॥
विराटं सैन्धवो राजा विद्ध्वा संनतपर्वभिः। नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरर्दयत् ॥६-११२-४०॥
विराटश्च महाराज सैन्धवं वाहिनीमुखे। त्रिंशता निशितैर्बाणैराजघान स्तनान्तरे ॥६-११२-४१॥
चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ। रेजतुश्चित्ररूपौ तौ सङ्ग्रामे मत्स्यसैन्धवौ ॥६-११२-४२॥
द्रोणः पाञ्चालपुत्रेण समागम्य महारणे। महासमुदयं चक्रे शरैः संनतपर्वभिः ॥६-११२-४३॥
ततो द्रोणो महाराज पार्षतस्य महद्धनुः। छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत ॥६-११२-४४॥
सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा। द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ॥६-११२-४५॥
ताञ्शराञ्शरसङ्घैस्तु संनिवार्य महारथः। द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् ॥६-११२-४६॥
तस्य क्रुद्धो महाराज पार्षतः परवीरहा। द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ॥६-११२-४७॥
तामापतन्तीं सहसा हेमपट्टविभूषिताम्। शरैः पञ्चाशता द्रोणो वारयामास संयुगे ॥६-११२-४८॥
सा छिन्ना बहुधा राजन्द्रोणचापच्युतैः शरैः। चूर्णीकृता विशीर्यन्ती पपात वसुधातले ॥६-११२-४९॥
गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः। द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ॥६-११२-५०॥
तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत। पार्षतं च महेष्वासं पीडयामास संयुगे ॥६-११२-५१॥
एवमेतन्महद्युद्धं द्रोणपार्षतयोरभूत्। भीष्मं प्रति महाराज घोररूपं भयानकम् ॥६-११२-५२॥
अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः। अभ्यद्रवत संयत्तं वने मत्तमिव द्विपम् ॥६-११२-५३॥
प्रत्युद्ययौ च तं पार्थं भगदत्तः प्रतापवान्। त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ॥६-११२-५४॥
तमापतन्तं सहसा महेन्द्रगजसंनिभम्। परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत ॥६-११२-५५॥
ततो गजगतो राजा भगदत्तः प्रतापवान्। अर्जुनं शरवर्षेण वारयामास संयुगे ॥६-११२-५६॥
अर्जुनस्तु रणे नागमायान्तं रजतोपमम्। विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ॥६-११२-५७॥
शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत्। भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ॥६-११२-५८॥
प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज। प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति ॥६-११२-५९॥
ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम्। शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत ॥६-११२-६०॥
ततस्ते तावकाः शूराः पाण्डवं रभसं रणे। सर्वेऽभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ॥६-११२-६१॥
नानाविधान्यनीकानि पुत्राणां ते जनाधिप। अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥६-११२-६२॥
शिखण्डी तु समासाद्य भरतानां पितामहम्। इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ॥६-११२-६३॥
सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान्। न्यवारयत सैन्यं च पाण्डवानां महारथः ॥६-११२-६४॥
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः। शरसङ्घमहाज्वालः क्षत्रियान्समरेऽदहत् ॥६-११२-६५॥
यथा हि सुमहानग्निः कक्षे चरति सानिलः। तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ॥६-११२-६६॥
सुवर्णपुङ्खैरिषुभिः शितैः संनतपर्वभिः। नादयन्स दिशो भीष्मः प्रदिशश्च महायशाः ॥६-११२-६७॥
पातयन्रथिनो राजन्गजांश्च सह सादिभिः। मुण्डतालवनानीव चकार स रथव्रजान् ॥६-११२-६८॥
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे। चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः ॥६-११२-६९॥
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः। निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ॥६-११२-७०॥
अमोघा ह्यपतन्बाणाः पितुस्ते मनुजेश्वर। नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः ॥६-११२-७१॥
निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः। वातायमानान्पश्याम ह्रियमाणान्विशां पते ॥६-११२-७२॥
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश। महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥६-११२-७३॥
अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः। सङ्ग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः ॥ जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् ॥६-११२-७४॥
न तत्रासीन्महाराज सोमकानां महारथः। यः सम्प्राप्य रणे भीष्मं जीविते स्म मनो दधे ॥६-११२-७५॥
तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति। नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् ॥६-११२-७६॥
न कश्चिदेनं समरे प्रत्युद्याति महारथः। ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् ॥ शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ॥६-११२-७७॥
शिखण्डी तु रणे भीष्ममासाद्य भरतर्षभ। दशभिर्दशभिर्बाणैराजघान महाहवे ॥६-११२-७८॥
शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा। अवैक्षत कटाक्षेण निर्दहन्निव भारत ॥६-११२-७९॥
स्त्रीत्वं तत्संस्मरन्राजन्सर्वलोकस्य पश्यतः। न जघान रणे भीष्मः स च तं नावबुद्धवान् ॥६-११२-८०॥
अर्जुनस्तु महाराज शिखण्डिनमभाषत। अभित्वरस्व त्वरितो जहि चैनं पितामहम् ॥६-११२-८१॥
किं ते विवक्षया वीर जहि भीष्मं महारथम्। न ह्यन्यमनुपश्यामि कञ्चिद्यौधिष्ठिरे बले ॥६-११२-८२॥
यः शक्तः समरे भीष्मं योधयेत पितामहम्। ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ॥६-११२-८३॥
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ। शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् ॥६-११२-८४॥
अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव। अर्जुनं समरे क्रुद्धं वारयामास सायकैः ॥६-११२-८५॥
तथैव च चमूं सर्वां पाण्डवानां महारथः। अप्रैषीत्समरे तीक्ष्णैः परलोकाय मारिष ॥६-११२-८६॥
तथैव पाण्डवा राजन्सैन्येन महता वृताः। भीष्मं प्रच्छादयामासुर्मेघा इव दिवाकरम् ॥६-११२-८७॥
स समन्तात्परिवृतो भारतो भरतर्षभ। निर्ददाह रणे शूरान्वनं वह्निरिव ज्वलन् ॥६-११२-८८॥
तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम्। अयोधयत यत्पार्थं जुगोप च यतव्रतम् ॥६-११२-८९॥
कर्मणा तेन समरे तव पुत्रस्य धन्विनः। दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ॥६-११२-९०॥
यदेकः समरे पार्थान्सानुगान्समयोधयत्। न चैनं पाण्डवा युद्धे वायरामासुरुल्बणम् ॥६-११२-९१॥
दुःशासनेन समरे रथिनो विरथीकृताः। सादिनश्च महाराज दन्तिनश्च महाबलाः ॥६-११२-९२॥
विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्धरणीतले। शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ॥६-११२-९३॥
यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणः। तथा जज्वाल पुत्रस्ते पाण्डवान्वै विनिर्दहन् ॥६-११२-९४॥
तं भारतमहामात्रं पाण्डवानां महारथः। जेतुं नोत्सहते कश्चिन्नाप्युद्यातुं कथञ्चन ॥ ऋते महेन्द्रतनयं श्वेताश्वं कृष्णसारथिम् ॥६-११२-९५॥
स हि तं समरे राजन्विजित्य विजयोऽर्जुनः। भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः ॥६-११२-९६॥
विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः। पुनः पुनः समाश्वस्य प्रायुध्यत रणोत्कटः ॥ अर्जुनं च रणे राजन्योधयन्स व्यराजत ॥६-११२-९७॥
शिखण्डी तु रणे राजन्विव्याधैव पितामहम्। शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ॥६-११२-९८॥
न च तेऽस्य रुजं चक्रुः पितुस्तव जनेश्वर। स्मयमानश्च गाङ्गेयस्तान्बाणाञ्जगृहे तदा ॥६-११२-९९॥
उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति। तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ॥६-११२-१००॥
तं क्षत्रिया महाराज ददृशुर्घोरमाहवे। भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् ॥६-११२-१०१॥
ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष। अभिद्रवत सङ्ग्रामे फल्गुनं सर्वतो रथैः ॥६-११२-१०२॥
भीष्मो वः समरे सर्वान्पलयिष्यति धर्मवित्। ते भयं सुमहत्त्वक्त्वा पाण्डवान्प्रतियुध्यत ॥६-११२-१०३॥
एष तालेन दीप्तेन भीष्मस्तिष्ठति पालयन्। सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च ॥६-११२-१०४॥
त्रिदशापि समुद्युक्ता नालं भीष्मं समासितुम्। किमु पार्था महात्मानं मर्त्यभूतास्तथाबलाः ॥ तस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संयुगे ॥६-११२-१०५॥
अहमद्य रणे यत्तो योधयिष्यामि फल्गुनम्। सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपाः ॥६-११२-१०६॥
तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः। अर्जुनं प्रति संयत्ता बलवन्तो महारथाः ॥६-११२-१०७॥
ते विदेहाः कलिङ्गाश्च दाशेरकगणैः सह। अभिपेतुर्निषादाश्च सौवीराश्च महारणे ॥६-११२-१०८॥
बाह्लिका दरदाश्चैव प्राच्योदीच्याश्च मालवाः। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥६-११२-१०९॥
शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह। अभिपेतू रणे पार्थं पतङ्गा इव पावकम् ॥६-११२-११०॥
स तान्सर्वान्सहानीकान्महाराज महारथान्। दिव्यान्यस्त्राणि सञ्चिन्त्य प्रसन्धाय धनञ्जयः ॥६-११२-१११॥
स तैरस्त्रैर्महावेगैर्ददाहाशु महाबलः। शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः ॥६-११२-११२॥
तस्य बाणसहस्राणि सृजतो दृढधन्विनः। दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत ॥६-११२-११३॥
ते शरार्ता महाराज विप्रकीर्णरथध्वजाः। नाब्यवर्तन्त राजानः सहिता वानरध्वजम् ॥६-११२-११४॥
सध्वजा रथिनः पेतुर्हयारोहा हयैः सह। गजाः सह गजारोहैः किरीटिशरताडिताः ॥६-११२-११५॥
ततोऽर्जुनभुजोत्सृष्टैरावृतासीद्वसुन्धरा। विद्रवद्भिश्च बहुधा बलै राज्ञां समन्ततः ॥६-११२-११६॥
अथ पार्थो महाबाहुर्द्रावयित्वा वरूथिनीम्। दुःशासनाय समरे प्रेषयामास सायकान् ॥६-११२-११७॥
ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः। धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः ॥ हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् ॥६-११२-११८॥
विविंशतिं च विंशत्या विरथं कृतवान्प्रभो। आजघान भृशं चैव पञ्चभिर्नतपर्वभिः ॥६-११२-११९॥
कृपं शल्यं विकर्णं च विद्ध्वा बहुभिरायसैः। चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः ॥६-११२-१२०॥
एवं ते विरथाः पञ्च कृपः शल्यश्च मारिष। दुःशासनो विकर्णश्च तथैव च विविंशतिः ॥ सम्प्राद्रवन्त समरे निर्जिताः सव्यसाचिना ॥६-११२-१२१॥
पूर्वाह्णे तु तथा राजन्पराजित्य महारथान्। प्रजज्वाल रणे पार्थो विधूम इव पावकः ॥६-११२-१२२॥
तथैव शरवर्षेण भास्करो रश्मिवानिव। अन्यानपि महाराज पातयामास पार्थिवान् ॥६-११२-१२३॥
पराङ्मुखीकृत्य तदा शरवर्षैर्महारथान्। प्रावर्तयत सङ्ग्रामे शोणितोदां महानदीम् ॥ मध्येन कुरुसैन्यानां पाण्डवानां च भारत ॥६-११२-१२४॥
गजाश्च रथसङ्घाश्च बहुधा रथिभिर्हताः। रथाश्च निहता नागैर्नागा हयपदातिभिः ॥६-११२-१२५॥
अन्तरा छिध्यमानानि शरीराणि शिरांसि च। निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् ॥६-११२-१२६॥
छन्नमायोधनं रेजे कुण्डलाङ्गदधारिभिः। पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ॥६-११२-१२७॥
रथनेमिनिकृत्ताश्च गजैश्चैवावपोथिताः। पादाताश्चाप्यदृश्यन्त साश्वाः सहयसादिनः ॥६-११२-१२८॥
गजाश्वरथसङ्घाश्च परिपेतुः समन्ततः। विशीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः ॥६-११२-१२९॥
तद्गजाश्वरथौघानां रुधिरेण समुक्षितम्। छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् ॥६-११२-१३०॥
श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह। प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः ॥६-११२-१३१॥
ववुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताः। दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च ॥६-११२-१३२॥
काञ्चनानि च दामानि पताकाश्च महाधनाः। धूमायमाना दृश्यन्ते सहसा मारुतेरिताः ॥६-११२-१३३॥
श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः। विनिकीर्णाः स्म दृश्यन्ते शतशोऽथ सहस्रशः ॥ सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः ॥६-११२-१३४॥
क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः। समन्ततो व्यदृश्यन्त पतिता धरणीतले ॥६-११२-१३५॥
ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन्। अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् ॥६-११२-१३६॥
तं शिखण्डी रणे यत्तमभ्यधावत दंशितः। सञ्जहार ततो भीष्मस्तदस्त्रं पावकोपमम् ॥६-११२-१३७॥
एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः। निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् ॥६-११२-१३८॥