6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.110
सञ्जय उवाच॥
अर्जुनस्तु रणे शल्यं यतमानं महारथम्। छादयामास समरे शरैः संनतपर्वभिः ॥६-११०-१॥
सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत। प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् ॥६-११०-२॥
चित्रसेनं विकर्णं च कृतवर्माणमेव च। दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ ॥६-११०-३॥
एकैकं त्रिभिरानर्छत्कङ्कबर्हिणवाजितैः। शरैरतिरथो युद्धे पीडयन्वाहिनीं तव ॥६-११०-४॥
जयद्रथो रणे पार्थं भित्त्वा भारत सायकैः। भीमं विव्याध तरसा चित्रसेनरथे स्थितः ॥६-११०-५॥
शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः। विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः ॥६-११०-६॥
चित्रसेनादयश्चैव पुत्रास्तव विशां पते। पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैः शरैः ॥ आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष ॥६-११०-७॥
तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ। अपीडयेतां समरे त्रिगर्तानां महद्बलम् ॥६-११०-८॥
सुशर्मापि रणे पार्थं विद्ध्वा बहुभिरायसैः। ननाद बलवन्नादं नादयन्वै नभस्तलम् ॥६-११०-९॥
अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ। विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः ॥६-११०-१०॥
तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ। क्रीडमानौ रथोदारौ चित्ररूपौ व्यरोचताम् ॥ आमिषेप्सू गवां मध्ये सिंहाविव बलोत्कटौ ॥६-११०-११॥
छित्त्वा धनूंषि वीराणां शरांश्च बहुधा रणे। पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् ॥६-११०-१२॥
रथाश्च बहवो भग्ना हयाश्च शतशो हताः। गजाश्च सगजारोहाः पेतुरुर्व्यां महामृधे ॥६-११०-१३॥
रथिनः सादिनश्चैव तत्र तत्र निसूदिताः। दृश्यन्ते बहुधा राजन्वेष्टमानाः समन्ततः ॥६-११०-१४॥
हतैर्गजपदात्योघैर्वाजिभिश्च निसूदितैः। रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी ॥६-११०-१५॥
छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितैः। अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत ॥६-११०-१६॥
केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा। उष्णीषैरपविद्धैश्च चामरव्यजनैरपि ॥६-११०-१७॥
तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः। ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ॥६-११०-१८॥
तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम्। शरैः संवार्य तान्वीरान्निजघान बलं तव ॥६-११०-१९॥
पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम्। गाङ्गेयस्य रथाभ्याशमुपजग्मे महाभये ॥६-११०-२०॥
कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः। विन्दानुविन्दावावन्त्यावाजग्मुः संयुगं तदा ॥६-११०-२१॥
ततो भीमो महेष्वासः फल्गुनश्च महारथः। कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे ॥६-११०-२२॥
ततो बर्हिणवाजानामयुतान्यर्बुदानि च। धनञ्जयरथे तूर्णं पातयन्ति स्म संयुगे ॥६-११०-२३॥
ततस्ताञ्शरजालेन संनिवार्य महारथान्। पार्थः समन्तात्समरे प्रेषयामास मृत्यवे ॥६-११०-२४॥
शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः। आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः ॥६-११०-२५॥
तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः। अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ॥६-११०-२६॥
अथान्यद्धनुरादाय समरे भारसाधनम्। मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः ॥६-११०-२७॥
त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः। भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् ॥६-११०-२८॥
ततो द्रोणो महाराज मागधश्च महारथः। दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः ॥६-११०-२९॥
यत्र पार्थो महाराज भीमसेनश्च पाण्डवः। कौरव्यस्य महासेनां जघ्नतुस्तौ महारथौ ॥६-११०-३०॥
जयत्सेनस्तु समरे भीमं भीमायुधं युवा। विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ ॥६-११०-३१॥
तं भीमो दशभिर्विद्ध्वा पुनर्विव्याध सप्तभिः। सारथिं चास्य भल्लेन रथनीडादपाहरत् ॥६-११०-३२॥
उद्भ्रान्तैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः। मागधोऽपहृतो राजा सर्वसैन्यस्य पश्यतः ॥६-११०-३३॥
द्रोणस्तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः। विव्याध बाणैः सुशितैः पञ्चषष्ट्या तमायसैः ॥६-११०-३४॥
तं भीमः समरश्लाघी गुरुं पितृसमं रणे। विव्याध नवभिर्भल्लैस्तथा षष्ट्या च भारत ॥६-११०-३५॥
अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः। व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथानिलः ॥६-११०-३६॥
ततो भीष्मश्च राजा च सौबलश्च बृहद्बलः। अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनधनञ्जयौ ॥६-११०-३७॥
तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः। अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ॥६-११०-३८॥
शिखण्डी तु समासाद्य भारतानां पितामहम्। अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम् ॥६-११०-३९॥
युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्। अयोधयन्रणे भीष्मं संहताः सह सृञ्जयैः ॥६-११०-४०॥
तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम्। शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥६-११०-४१॥
ततः प्रववृते युद्धं कौरवाणां भयावहम्। तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति ॥६-११०-४२॥
तावकानां रणे भीष्मो ग्लह आसीद्विशां पते। तत्र हि द्यूतमायातं विजयायेतराय वा ॥६-११०-४३॥
धृष्टद्युम्नो महाराज सर्वसैन्यान्यचोदयत्। अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः ॥६-११०-४४॥
सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी। भीष्ममेवाभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे ॥६-११०-४५॥
भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम्। आपतन्तीं महाराज वेलामिव महोदधिः ॥६-११०-४६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.