06.113
Pancharatra and Core: Narration by a different author; recap of the war; Virata's brother Shatanika killed;
सञ्जय उवाच॥
एवं व्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु। ब्रह्मलोकपराः सर्वे समपद्यन्त भारत ॥६-११३-१॥
न ह्यनीकमनीकेन समसज्जत सङ्कुले। न रथा रथिभिः सार्धं न पदाताः पदातिभिः ॥६-११३-२॥
अश्वा नाश्वैरयुध्यन्त न गजा गजयोधिभिः। महान्व्यतिकरो रौद्रः सेनयोः समपद्यत ॥६-११३-३॥
नरनागरथेष्वेवं व्यवकीर्णेषु सर्वशः। क्षये तस्मिन्महारौद्रे निर्विशेषमजायत ॥६-११३-४॥
ततः शल्यः कृपश्चैव चित्रसेनश्च भारत। दुःशासनो विकर्णश्च रथानास्थाय सत्वराः ॥ पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् ॥६-११३-५॥
सा वध्यमाना समरे पाण्डुसेना महात्मभिः। त्रातारं नाध्यगच्छद्वै मज्जमानेव नौर्जले ॥६-११३-६॥
यथा हि शैशिरः कालो गवां मर्माणि कृन्तति। तथा पाण्डुसुतानां वै भीष्मो मर्माण्यकृन्तत ॥६-११३-७॥
अतीव तव सैन्यस्य पार्थेन च महात्मना। नगमेघप्रतीकाशाः पातिता बहुधा गजाः ॥६-११३-८॥
मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः। इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ॥६-११३-९॥
पेतुरार्तस्वरं कृत्वा तत्र तत्र महागजाः। आबद्धाभरणैः कायैर्निहतानां महात्मनाम् ॥६-११३-१०॥
छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः। तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये ॥ भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये ॥६-११३-११॥
ते पराक्रान्तमालोक्य राजन्युधि पितामहम्। न न्यवर्तन्त कौरव्या ब्रह्मलोकपुरस्कृताः ॥६-११३-१२॥
इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम्। पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये ॥६-११३-१३॥
पाण्डवापि महाराज स्मरन्तो विविधान्बहून्। क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप ॥६-११३-१४॥
भयं त्यक्त्वा रणे शूरा ब्रह्मलोकपुरस्कृताः। तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् ॥६-११३-१५॥
सेनापतिस्तु समरे प्राह सेनां महारथः। अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह ॥६-११३-१६॥
सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः। अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः ॥६-११३-१७॥
वध्यमानस्ततो राजन्पिता शान्तनवस्तव। अमर्षवशमापन्नो योधयामास सृञ्जयान् ॥६-११३-१८॥
तस्य कीर्तिमतस्तात पुरा रामेण धीमता। सम्प्रदत्तास्त्रशिक्षा वै परानीकविनाशिनी ॥६-११३-१९॥
स तां शिक्षामधिष्ठाय कृत्वा परबलक्षयम्। अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ॥ भीष्मो दश सहस्राणि जघान परवीरहा ॥६-११३-२०॥
तस्मिंस्तु दिवसे प्राप्ते दशमे भरतर्षभ। भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे ॥ गजाश्वममितं हत्वा हताः सप्त महारथाः ॥६-११३-२१॥
हत्वा पञ्च सहस्राणि रथिनां प्रपितामहः। नराणां च महायुद्धे सहस्राणि चतुर्दश ॥६-११३-२२॥
तथा दन्तिसहस्रं च हयानामयुतं पुनः। शिक्षाबलेन निहतं पित्रा तव विशां पते ॥६-११३-२३॥
ततः सर्वमहीपानां क्षोभयित्वा वरूथिनीम्। विराटस्य प्रियो भ्राता शतानीको निपातितः ॥६-११३-२४॥
शतानीकं च समरे हत्वा भीष्मः प्रतापवान्। सहस्राणि महाराज राज्ञां भल्लैर्न्यपातयत् ॥६-११३-२५॥
ये च केचन पार्थानामभियाता धनञ्जयम्। राजानो भीष्ममासाद्य गतास्ते यमसादनम् ॥६-११३-२६॥
एवं दश दिशो भीष्मः शरजालैः समन्ततः। अतीत्य सेनां पार्थानामवतस्थे चमूमुखे ॥६-११३-२७॥
स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि। सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः ॥६-११३-२८॥
न चैनं पार्थिवा राजञ्शेकुः केचिन्निरीक्षितुम्। मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि ॥६-११३-२९॥
यथा दैत्यचमूं शक्रस्तापयामास संयुगे। तथा भीष्मः पाण्डवेयांस्तापयामास भारत ॥६-११३-३०॥
तथा च तं पराक्रान्तमालोक्य मधुसूदनः। उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् ॥६-११३-३१॥
एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः। नानिहत्य बलादेनं विजयस्ते भविष्यति ॥६-११३-३२॥
यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः। न हि भीष्मशरानन्यः सोढुमुत्सहते विभो ॥६-११३-३३॥
ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः। सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः ॥६-११३-३४॥
स चापि कुरुमुख्यानामृषभः पाण्डवेरितान्। शरव्रातैः शरव्रातान्बहुधा विदुधाव तान् ॥६-११३-३५॥
तेन पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान्। पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥६-११३-३६॥
यमौ च चेकितानश्च केकयाः पञ्च चैव ह। सात्यकिश्च महाराज सौभद्रोऽथ घटोत्कचः ॥६-११३-३७॥
द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान्। सुशर्मा च विराटश्च पाण्डवेया महाबलाः ॥६-११३-३८॥
एते चान्ये च बहवः पीडिता भीष्मसायकैः। समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे ॥६-११३-३९॥
ततः शिखण्डी वेगेन प्रगृह्य परमायुधम्। भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ॥६-११३-४०॥
ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित्। भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः ॥६-११३-४१॥
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः। विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना ॥६-११३-४२॥
अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः। दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः ॥६-११३-४३॥
ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः। बहुधा भीष्ममानर्छन्मार्गणैः कृतमार्गणाः ॥६-११३-४४॥
विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः। पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् ॥ कृत्वा शरविघातं च क्रीडन्निव पितामहः ॥६-११३-४५॥
नाभिसन्धत्त पाञ्चाल्यं स्मयमानो मुहुर्मुहुः। स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिनः ॥ जघान द्रुपदानीके रथान्सप्त महारथः ॥६-११३-४६॥
ततः किलकिलाशब्दः क्षणेन समपद्यत। मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् ॥६-११३-४७॥
ते वराश्वरथव्रातैर्वारणैः सपदातिभिः। तमेकं छादयामासुर्मेघा इव दिवाकरम् ॥ भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् ॥६-११३-४८॥
ततस्तस्य च तेषां च युद्धे देवासुरोपमे। किरीटी भीष्ममानर्छत्पुरस्कृत्य शिखण्डिनम् ॥६-११३-४९॥