06.114
Pancharatra and Core: Shikhandi, protected by Arjuna, attacked Bhishma; Bhishma fell, and decides to sustain his life until the northern solstice arrived.
सञ्जय उवाच॥
एवं ते पण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम्। विव्यधुः समरे भीष्मं परिवार्य समन्ततः ॥६-११४-१॥
शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः। मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः ॥६-११४-२॥
शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः। नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत ॥ अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः ॥६-११४-३॥
स विशीर्णतनुत्राणः पीडितो बहुभिस्तदा। विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु ॥६-११४-४॥
स दीप्तशरचापार्चिरस्त्रप्रसृतमारुतः। नेमिनिर्ह्रादसंनादो महास्त्रोदयपावकः ॥६-११४-५॥
चित्रचापमहाज्वालो वीरक्षयमहेन्धनः। युगान्ताग्निसमो भीष्मः परेषां समपद्यत ॥६-११४-६॥
निपत्य रथसङ्घानामन्तरेण विनिःसृतः। दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश्चरन् ॥६-११४-७॥
ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च। पाण्डवानीकिनीमध्यमाससाद स वेगितः ॥६-११४-८॥
ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम्। द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् ॥६-११४-९॥
भीमघोषैर्महावेगैर्वैरिवारणभेदिभिः। षडेतान्षड्भिरानर्छद्भास्करप्रतिमैः शरैः ॥६-११४-१०॥
तस्य ते निशितान्बाणान्संनिवार्य महारथाः। दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा ॥६-११४-११॥
शिखण्डी तु रणे बाणान्यान्मुमोच महाव्रते। ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाः शिलाशिताः ॥६-११४-१२॥
ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत। शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ॥६-११४-१३॥
भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः। द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः ॥६-११४-१४॥
भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च। सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः ॥६-११४-१५॥
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः। अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान् ॥६-११४-१६॥
तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति। उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये ॥६-११४-१७॥
हतानयत गृह्णीत युध्यतापि च कृन्तत। इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति ॥६-११४-१८॥
तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः। अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ ॥६-११४-१९॥
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः। विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः ॥६-११४-२०॥
अभिमन्युश्च सङ्क्रुद्धः सप्तैते क्रोधमूर्छिताः। समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः ॥६-११४-२१॥
तेषां समभवद्युद्धं तुमुलं लोमहर्षणम्। सङ्ग्रामे भरतश्रेष्ठ देवानां दानवैरिव ॥६-११४-२२॥
शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना। अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे ॥ सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ॥६-११४-२३॥
सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम्। तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः ॥६-११४-२४॥
एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः। धनुर्भीष्मस्य चिच्छेद सव्यसाची परन्तपः ॥६-११४-२५॥
स च्छिन्नधन्वा सङ्क्रुद्धः सृक्किणी परिसंलिहन्। शक्तिं जग्राह सङ्क्रुद्धो गिरीणामपि दारणीम् ॥६-११४-२६॥
तां च चिक्षेप सङ्क्रुद्धः फल्गुनस्य रथं प्रति ॥६-११४-२६॥
तामापतन्तीं सम्प्रेक्ष्य ज्वलन्तीमशनीमिव। समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः ॥६-११४-२७॥
तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः। सङ्क्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम् ॥६-११४-२८॥
सा पपात परिच्छिन्ना सङ्क्रुद्धेन किरीटिना। मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा ॥६-११४-२९॥
छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः। अचिन्तयद्रणे वीरो बुद्ध्या परपुरञ्जयः ॥६-११४-३०॥
शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः ॥६-११४-३१॥
कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवैः। अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः ॥६-११४-३२॥
पित्रा तुष्टेन मे पूर्वं यदा कालीमुदावहत्। स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा ॥ तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ॥६-११४-३३॥
एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः। ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् ॥६-११४-३४॥
यत्ते व्यवसितं वीर अस्माकं सुमहत्प्रियम्। तत्कुरुष्व महेष्वास युद्धाद्बुद्धिं निवर्तय ॥६-११४-३५॥
तस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः। अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ॥६-११४-३६॥
देवदुन्दुभयश्चैव सम्प्रणेदुर्महास्वनाः। पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव ॥६-११४-३७॥
न च तच्छुश्रुवे कश्चित्तेषां संवदतां नृप। ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ॥६-११४-३८॥
सम्भ्रमश्च महानासीत्त्रिदशानां विशां पते। पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा ॥६-११४-३९॥
इति देवगणानां च श्रुत्वा वाक्यं महामनाः। ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ॥ भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः ॥६-११४-४०॥
शिखण्डी तु महाराज भरतानां पितामहम्। आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः ॥६-११४-४१॥
स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः। नाकम्पत महाराज क्षितिकम्पे यथाचलः ॥६-११४-४२॥
ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः। गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् ॥६-११४-४३॥
पुनः शरशतेनैनं त्वरमाणो धनञ्जयः। सर्वगात्रेषु सङ्क्रुद्धः सर्वमर्मस्वताडयत् ॥६-११४-४४॥
एवमन्यैरपि भृशं वध्यमानो महारणे। न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः ॥६-११४-४५॥
ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत। शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ॥६-११४-४६॥
अथैनं दशभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे। सारथिं विशिखैश्चास्य दशभिः समकम्पयत् ॥६-११४-४७॥
सोऽन्यत्कार्मुकमादत्त गाङ्गेयो बलवत्तरम्। तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरुपानुदत् ॥ निमेषान्तरमात्रेण आत्तमात्तं महारणे ॥६-११४-४८॥
एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यपि। ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ॥६-११४-४९॥
अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दयत्। सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ॥६-११४-५०॥
एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः। शरैरनेकसाहस्रैर्मामेवाभ्यसते रणे ॥६-११४-५१॥
न चैष शक्यः समरे जेतुं वज्रभृता अपि। न चापि सहिता वीरा देवदानवराक्षसाः ॥ मां चैव शक्ता निर्जेतुं किमु मर्त्याः सुदुर्बलाः ॥६-११४-५२॥
एवं तयोः संवदतोः फल्गुनो निशितैः शरैः। शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ॥६-११४-५३॥
ततो दुःशासनं भूयः स्मयमानोऽभ्यभाषत। अतिविद्धः शितैर्बाणैर्भृशं गाण्डीवधन्वना ॥६-११४-५४॥
वज्राशनिसमस्पर्शाः शिताग्राः सम्प्रवेशिताः। विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः ॥६-११४-५५॥
निकृन्तमाना मर्माणि दृढावरणभेदिनः। मुसलानीव मे घ्नन्ति नेमे बाणाः शिखण्डिनः ॥६-११४-५६॥
ब्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः। मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः ॥६-११४-५७॥
भुजगा इव सङ्क्रुद्धा लेलिहाना विषोल्बणाः। ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः ॥६-११४-५८॥
नाशयन्तीव मे प्राणान्यमदूता इवाहिताः। गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ॥६-११४-५९॥
कृन्तन्ति मम गात्राणि माघमासे गवामिव। अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ॥६-११४-६०॥
सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः। वीरं गण्डीवधन्वानमृते जिष्णुं कपिध्वजम् ॥६-११४-६१॥
इति ब्रुवञ्शान्तनवो दिधक्षुरिव पाण्डवम्। सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत ॥६-११४-६२॥
तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत्। पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ॥६-११४-६३॥
चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम्। खड्गं चान्यतरं प्रेप्सुर्मृत्योरग्रे जयाय वा ॥६-११४-६४॥
तस्य तच्छतधा चर्म व्यधमद्दंशितात्मनः। रथादनवरूढस्य तदद्भुतमिवाभवत् ॥६-११४-६५॥
विनद्योच्चैः सिंह इव स्वान्यनीकान्यचोदयत्। अभिद्रवत गाङ्गेयं मां वोऽस्तु भयमण्वपि ॥६-११४-६६॥
अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः। पट्टिशैश्च सनिस्त्रिंशैर्नानाप्रहरणैस्तथा ॥६-११४-६७॥
वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः। सिंहनादस्ततो घोरः पाण्डवानामजायत ॥६-११४-६८॥
तथैव तव पुत्राश्च राजन्भीष्मजयैषिणः। तमेकमभ्यवर्तन्त सिंहनादांश्च नेदिरे ॥६-११४-६९॥
तत्रासीत्तुमुलं युद्धं तावकानां परैः सह। दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे ॥६-११४-७०॥
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव। सैन्यानां युध्यमानानां निघ्नतामितरेतरम् ॥६-११४-७१॥
अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत्। समं च विषमं चैव न प्राज्ञायत किञ्चन ॥६-११४-७२॥
योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि। अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ॥६-११४-७३॥
ततः सेनामुखे तस्मिन्स्थितः पार्थो धनञ्जयः। मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् ॥६-११४-७४॥
वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात्। पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महारणात् ॥६-११४-७५॥
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥६-११४-७६॥
शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह। द्वादशैते जनपदाः शरार्ता व्रणपीडिताः ॥ सङ्ग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना ॥६-११४-७७॥
ततस्तमेकं बहवः परिवार्य समन्ततः। परिकाल्य कुरून्सर्वाञ्शरवर्षैरवाकिरन् ॥६-११४-७८॥
निपातयत गृह्णीत विध्यताथ च कर्षत। इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति ॥६-११४-७९॥
अभिहत्य शरौघैस्तं शतशोऽथ सहस्रशः। न तस्यासीदनिर्भिन्नं गात्रेष्वङ्गुलमात्रकम् ॥६-११४-८०॥
एवं विभो तव पिता शरैर्विशकलीकृतः। शिताग्रैः फल्गुनेनाजौ प्राक्षिराः प्रापतद्रथात् ॥ किञ्चिच्छेषे दिनकरे पुत्राणां तव पश्यताम् ॥६-११४-८१॥
हा हेति दिवि देवानां पार्थिवानां च सर्वशः। पतमाने रथाद्भीष्मे बभूव सुमहान्स्वनः ॥६-११४-८२॥
तं पतन्तमभिप्रेक्ष्य महात्मानं पितामहम्। सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः ॥६-११४-८३॥
स पपात महाबाहुर्वसुधामनुनादयन्। इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् ॥ धरणीं नास्पृशच्चापि शरसङ्घैः समाचितः ॥६-११४-८४॥
शरतल्पे महेष्वासं शयानं पुरुषर्षभम्। रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ॥६-११४-८५॥
अभ्यवर्षत पर्जन्यः प्राकम्पत च मेदिनी। पतन्स ददृशे चापि खर्वितं च दिवाकरम् ॥६-११४-८६॥
सञ्ज्ञां चैवालभद्वीरः कालं सञ्चिन्त्य भारत। अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः ॥६-११४-८७॥
कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः। कालं कर्ता नरव्याघ्रः सम्प्राप्ते दक्षिणायने ॥६-११४-८८॥
स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत्। धारयामास च प्राणान्पतितोऽपि हि भूतले ॥ उत्तरायणमन्विच्छन्भीष्मः कुरुपितामहः ॥६-११४-८९॥
तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता। महर्षीन्हंसरूपेण प्रेषयामास तत्र वै ॥६-११४-९०॥
ततः सम्पातिनो हंसास्त्वरिता मानसौकसः। आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् ॥ यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ॥६-११४-९१॥
ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः। अपश्यञ्शरतल्पस्थं भीष्मं कुरुपितामहम् ॥६-११४-९२॥
ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम्। गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् ॥६-११४-९३॥
इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः। भीष्म एव महात्मा सन्संस्थाता दक्षिणायने ॥६-११४-९४॥
इत्युक्त्वा प्रस्थितान्हंसान्दक्षिणामभितो दिशम्। सम्प्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत ॥६-११४-९५॥
तानब्रवीच्छान्तनवो नाहं गन्ता कथञ्चन। दक्षिणावृत्त आदित्ये एतन्मे मनसि स्थितम् ॥६-११४-९६॥
गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम्। उदगावृत्त आदित्ये हंसाः सत्यं ब्रवीमि वः ॥६-११४-९७॥
धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया। ऐश्वर्यभूतः प्राणानामुत्सर्गे नियतो ह्यहम् ॥ तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने ॥६-११४-९८॥
यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना। छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा ॥६-११४-९९॥
धारयिष्ये ततः प्राणानुत्सर्गे नियते सति। इत्युक्त्वा तांस्तदा हंसानशेत शरतल्पगः ॥६-११४-१००॥
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि। पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ॥६-११४-१०१॥
तस्मिन्हते महासत्त्वे भरतानाममध्यमे। न किञ्चित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ ॥ संमोहश्चैव तुमुलः कुरूणामभवत्तदा ॥६-११४-१०२॥
नृपा दुर्योधनमुखा निःश्वस्य रुरुदुस्ततः। विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः ॥६-११४-१०३॥
दध्युश्चैव महाराज न युद्धे दधिरे मनः। ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ॥६-११४-१०४॥
अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि। अभावः सुमहान्राजन्कुरूनागादतन्द्रितः ॥६-११४-१०५॥
हतप्रवीराश्च वयं निकृत्ताश्च शितैः शरैः। कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना ॥६-११४-१०६॥
पाण्डवास्तु जयं लब्ध्वा परत्र च परां गतिम्। सर्वे दध्मुर्महाशङ्खाञ्शूराः परिघबाहवः ॥ सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर ॥६-११४-१०७॥
ततस्तूर्यसहस्रेषु नदत्सु सुमहाबलः। आस्फोटयामास भृशं भीमसेनो ननर्त च ॥६-११४-१०८॥
सेनयोरुभयोश्चापि गाङ्गेये विनिपातिते। संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः ॥६-११४-१०९॥
प्राक्रोशन्प्रापतंश्चान्ये जग्मुर्मोहं तथापरे। क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चैकेऽभ्यपूजयन् ॥६-११४-११०॥
ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम्। भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे ॥६-११४-१११॥
महोपनिषदं चैव योगमास्थाय वीर्यवान्। जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् ॥६-११४-११२॥