06.115
Pancharatra and Core: Both sides withdrew from the battle that evening; Arjuna provides a pillow made of arrows to Bhishma; everyone departs after making arrangement to protect Bhishma, while he lies on the bed of arrows.
धृतराष्ट्र उवाच॥
कथमासंस्तदा योधा हीना भीष्मेण सञ्जय। बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ॥६-११५-१॥
तदैव निहतान्मन्ये कुरूनन्यांश्च पार्थिवान्। न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजे ॥६-११५-२॥
ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति। यदद्य पितरं श्रुत्वा निहतं मम दुर्मतेः ॥६-११५-३॥
अश्मसारमयं नूनं हृदयं मम सञ्जय। श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते ॥६-११५-४॥
पुनः पुनर्न मृष्यामि हतं देवव्रतं रणे। न हतो जामदग्न्येन दिव्यैरस्त्रैः स्म यः पुरा ॥६-११५-५॥
यदद्य निहतेनाजौ भीष्मेण जयमिच्छता। चेष्टितं नरसिंहेन तन्मे कथय सञ्जय ॥६-११५-६॥
सञ्जय उवाच॥
सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन्। पाञ्चालानां ददद्धर्षं कुरुवृद्धः पितामहः ॥६-११५-७॥
स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा। भीष्मो रथात्प्रपतितः प्रच्युतो धरणीतले ॥६-११५-८॥
हा हेति तुमुलः शब्दो भूतानां समपद्यत। सीमावृक्षे निपतिते कुरूणां समितिक्षये ॥६-११५-९॥
उभयोः सेनयो राजन्क्षत्रियान्भयमाविशत्। भीष्मं शन्तनवं दृष्ट्वा विशीर्णकवचध्वजम् ॥ कुरवः पर्यवर्तन्त पाण्डवाश्च विशां पते ॥६-११५-१०॥
खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा। ररास पृथिवी चैव भीष्मे शान्तनवे हते ॥६-११५-११॥
अयं ब्रह्मविदां श्रेष्ठो अयं ब्रह्मविदां गतिः। इत्यभाषन्त भूतानि शयानं भरतर्षभम् ॥६-११५-१२॥
अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा। ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः ॥६-११५-१३॥
इति स्म शरतल्पस्थं भरतानाममध्यमम्। ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः ॥६-११५-१४॥
हते शान्तनवे भीष्मे भरतानां पितामहे। न किञ्चित्प्रत्यपद्यन्त पुत्रास्तव च भारत ॥६-११५-१५॥
विवर्णवदनाश्चासन्गतश्रीकाश्च भारत। अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः ॥६-११५-१६॥
पाण्डवाश्च जयं लब्ध्वा सङ्ग्रामशिरसि स्थिताः। सर्वे दध्मुर्महाशङ्खान्हेमजालपरिष्कृतान् ॥६-११५-१७॥
भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ। अपश्याम रणे राजन्भीमसेनं महाबलम् ॥ आक्रीडमानं कौन्तेयं हर्षेण महता युतम् ॥६-११५-१८॥
निहत्य समरे शत्रून्महाबलसमन्वितान्। संमोहश्चापि तुमुलः कुरूणामभवत्तदा ॥६-११५-१९॥
कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः। तथा निपतिते भीष्मे कौरवाणां धुरन्धरे ॥ हाहाकारमभूत्सर्वं निर्मर्यादमवर्तत ॥६-११५-२०॥
दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव। उत्तमं जवमास्थाय द्रोणानीकं समाद्रवत् ॥६-११५-२१॥
भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः। प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिचोदयन् ॥६-११५-२२॥
तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन्। दुःशासनं महाराज किमयं वक्ष्यतीति वै ॥६-११५-२३॥
ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः। द्रोणस्तदप्रियं श्रुत्वा सहसा न्यपतद्रथात् ॥६-११५-२४॥
स सञ्ज्ञामुपलभ्याथ भारद्वाजः प्रतापवान्। निवारयामास तदा स्वान्यनीकानि मारिष ॥६-११५-२५॥
विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान्। दूतैः शीघ्राश्वसंयुक्तैरवहारमकारयन् ॥६-११५-२६॥
विनिवृत्तेषु सैन्येषु पारम्पर्येण सर्वशः। विमुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः ॥६-११५-२७॥
व्युपारम्य ततो युद्धाद्योधाः शतसहस्रशः। उपतस्थुर्महात्मानं प्रजापतिमिवामराः ॥६-११५-२८॥
ते तु भीष्मं समासाद्य शयानं भरतर्षभम्। अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह ॥६-११५-२९॥
अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान्। अभ्यभाषत धर्मात्मा भीष्मः शान्तनवस्तदा ॥६-११५-३०॥
स्वागतं वो महाभागाः स्वागतं वो महारथाः। तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः ॥६-११५-३१॥
अभिनन्द्य स तानेवं शिरसा लम्बताब्रवीत्। शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् ॥६-११५-३२॥
ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च। उपधानानि मुख्यानि नैच्छत्तानि पितामहः ॥६-११५-३३॥
अब्रवीच्च नरव्याघ्रः प्रहसन्निव तान्नृपान्। नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः ॥६-११५-३४॥
ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम्। धनञ्जयं दीर्घबाहुं सर्वलोकमहारथम् ॥६-११५-३५॥
धनञ्जय महाबाहो शिरसो मेऽस्य लम्बतः। दीयतामुपधानं वै यद्युक्तमिह मन्यसे ॥६-११५-३६॥
स संन्यस्य महच्चापमभिवाद्य पितामहम्। नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥६-११५-३७॥
आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर। प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह ॥६-११५-३८॥
तमब्रवीच्छान्तनवः शिरो मे तात लम्बते। उपधानं कुरुश्रेष्ठ फल्गुनोपनयस्व मे ॥ शयनस्यानुरूपं हि शीघ्रं वीर प्रयच्छ मे ॥६-११५-३९॥
त्वं हि पार्थ महाबाहो श्रेष्ठः सर्वधनुष्मताम्। क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः ॥६-११५-४०॥
फल्गुनस्तु तथेत्युक्त्वा व्यवसायपुरोजवः। प्रगृह्यामन्त्र्य गाण्डीवं शरांश्च नतपर्वणः ॥६-११५-४१॥
अनुमान्य महात्मानं भरतानाममध्यमम्। त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः ॥६-११५-४२॥
अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना। अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् ॥६-११५-४३॥
उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम्। कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् ॥६-११५-४४॥
अनुरूपं शयानस्य पाण्डवोपहितं त्वया। यद्यन्यथा प्रवर्तेथाः शपेयं त्वामहं रुषा ॥६-११५-४५॥
एवमेतन्महाबाहो धर्मेषु परिनिष्ठितम्। स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै ॥६-११५-४६॥
एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः। राज्ञश्च राजपुत्रांश्च पाण्डवेनाभि संस्थितान् ॥६-११५-४७॥
शयेयमस्यां शय्यायां यावदावर्तनं रवेः। ये तदा पारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः ॥६-११५-४८॥
दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः। अर्चिष्मान्प्रतपँल्लोकान्रथेनोत्तमतेजसा ॥ विमोक्ष्येऽहं तदा प्राणान्सुहृदः सुप्रियानपि ॥६-११५-४९॥
परिखा खन्यतामत्र ममावसदने नृपाः। उपासिष्ये विवस्वन्तमेवं शरशताचितः ॥ उपारमध्वं सङ्ग्रामाद्वैराण्युत्सृज्य पार्थिवाः ॥६-११५-५०॥
उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः। सर्वोपकरणैर्युक्ताः कुशलास्ते सुशिक्षिताः ॥६-११५-५१॥
तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच वचनं तदा। दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः ॥६-११५-५२॥
एवङ्गते न हीदानीं वैद्यैः कार्यमिहास्ति मे। क्षत्रधर्मप्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् ॥६-११५-५३॥
नैष धर्मो महीपालाः शरतल्पगतस्य मे। एतैरेव शरैश्चाहं दग्धव्योऽन्ते नराधिपाः ॥६-११५-५४॥
तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव। वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः ॥६-११५-५५॥
ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः। स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः ॥६-११५-५६॥
उपधानं ततो दत्त्वा पितुस्तव जनेश्वर। सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः ॥६-११५-५७॥
उपगम्य महात्मानं शयानं शयने शुभे। तेऽभिवाद्य ततो भीष्मं कृत्वा चाभिप्रदक्षिणम् ॥६-११५-५८॥
विधाय रक्षां भीष्मस्य सर्व एव समन्ततः। वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः ॥ निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः ॥६-११५-५९॥
निविष्टान्पाण्डवांश्चापि प्रीयमाणान्महारथान्। भीष्मस्य पतनाद्धृष्टानुपगम्य महारथान् ॥ उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम् ॥६-११५-६०॥
दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः। अवध्यो मानुषैरेष सत्यसन्धो महारथः ॥६-११५-६१॥
अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः। त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा ॥६-११५-६२॥
एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम्। तव प्रसादाद्विजयः क्रोधात्तव पराजयः ॥ त्वं हि नः शरणं कृष्ण भक्तानामभयङ्करः ॥६-११५-६३॥
अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव। रष्किता समरे नित्यं नित्यं चापि हिते रतः ॥ सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः ॥६-११५-६४॥
एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः। त्वय्येवैतद्युक्तरूपं वचनं पार्थिवोत्तम ॥६-११५-६५॥