07.000
Drona Parva - Kumbhaghonam edition
७.००१ धृतराष्ट्रेण सञ्जयंप्रति भीप्मपातानन्तरीयकदुर्योधनादिवृत्तान्तप्रश्नः॥ सञ्जयेन योधानां शरणत्वेन कर्णाह्वाने कथिते धृतराष्ट्रस्य कर्णवृत्तान्तप्रश्नः॥
७.००२ कर्णेन पाण्डवोच्छेदनपूर्वकं दुर्योधनाय राज्यदानं प्रतिज्ञाय युद्धायाभियानम्॥
७.००३ कर्णेन भीष्ममेत्य युद्धानज्ञायाचनम्॥
७.००४ भीष्मानुज्ञातस्य कर्णस्य युद्धायाऽऽगमनम्॥
७.००५ दुर्योधनपृष्टेन कर्णेन तम्प्रति द्रोणस्य सैनापत्यकरणविधानम्॥
७.००६ दुर्योधनेन द्रोणम्प्रति सैनापत्यस्वीकारप्रार्थना॥
७.००७ दुर्योधनेन द्रोणस्य सैनापत्येऽभिषेचनम्॥ द्रोणयुद्धवर्णनम्॥
७.००८ सञ्जयेन धृतराष्ट्रं प्रति द्रोणपराक्रमवर्णनपूर्वकं तन्निधनकथनम्॥
७.००९ द्रोणमरणश्राविणो धृतराष्ट्रस्य तद्गुणानुवर्णनपूर्वकं शोचनम्॥
७.०१० द्रोणमरणश्रवणेन मूर्छितस्य धृतराष्ट्रस्य पिरचारिकाभिर्जलसेचनादिना समुद्बोधनम्॥ धृतराष्ट्रेण सञ्जयम्प्रति युद्धकथनचोदना॥
७.०११ धृतराष्ट्रेण प्रसङ्गाद्भक्त्युद्रेकेण--श्रीकृष्णचरित्रानुकीर्तनम्॥ धृतराष्ट्रेण बहुधा विचिन्त्य सञ्जयम्प्रति युद्धकथनचोदना॥
७.०१२ द्रोणचोदितेन दुर्योधनेन युधिष्ठिरस्य जीवग्राहं ग्रहणवरणम्॥ द्रोणेन अर्जुनासन्निधाने तद्व्रहणे प्रतिज्ञाते दुर्यो धनेन तदुद्धोषणम्॥
७.०१३ अर्जुनेन द्रोणप्रतिज्ञाभीतस्य युधिष्ठिरस्य समाश्वासनम्॥ युद्धारम्भो द्रोणपराक्रमश्च॥
७.०१४ द्रोणयुद्धं द्वैरथयुद्धमभिमन्युपराक्रमश्च॥
७.०१५ द्रोणपर्व
७.०१६ द्रोणेन युधिष्ठिरग्रहणोद्यमे अर्जुमेन तद्भङ्गः॥
७.०१७ संशप्तकैराहूतस्यार्जुनस्य युधिष्ठिररक्षणे सत्यजितं नियोज्य तान्प्रति युद्धाय गमनम्॥
७.०१८ अर्जुनस्य संशप्तकैः सह युद्धम्॥
७.०१९ अर्जुनस्य संशप्तकैः सह युद्धम्॥
७.०२० सङ्कुलयुद्धवर्णनम्॥
७.०२१ युधिष्ठिरं जिघृक्षतो द्रोणस्य सत्यजिता निराधः॥ द्रोणेन सत्यजिति निहते भयाद्युधिष्ठिरस्यापयानम्॥ पुनर्युधिष्ठिरं जिघृक्षुणा द्रोणेन पाञ्चाल्यादीनां हननम्॥
७.०२२ द्रोणपराक्रमहृष्टेन दुर्योधनेन कर्णं सम्बोध्य भीमसेनाद्यवज्ञाने कृते कर्णेन भीमादीनां प्रशंसनपूर्वकमनवज्ञेयत्वकथनम्॥
७.०२३ द्रोणपर्व
७.०२४ धृतराष्ट्रेण पुत्रान्प्रति शोचनपूर्वकं सञ्जयम्प्रति युद्धकथनचोदना॥
७.०२५ द्वन्द्वयुद्धवर्णनम्॥
७.०२६ भगदत्तपराक्रमवर्णनम्॥
७.०२७ अर्जुनेन संशप्तकानां हननम्॥
७.०२८ भगदत्तार्जुनसमागमः॥
७.०२९ अर्जुनेन सगजस्य भगदत्तस्य वधः॥
७.०३० अर्जुनयुद्धवर्णनम्॥
७.०३१ अश्वत्थाम्ना नीलस्य वधः॥
७.०३२ सङ्कुलयुद्धवर्णनम्॥
७.०३३ युधिष्ठिरस्याग्रहणात् दुर्मनायमानं दुर्योधनं प्रति द्रोणेन कस्यचिन्महारथस्य हननप्रतिज्ञा॥ सञ्जयेन धृतराष्ट्रं प्रति सङ्क्षेपतोऽभिमन्युवधकथनम्॥
७.०३४ द्रोणेन पद्मव्यूहरचना॥
७.०३५ युधिष्ठिरेणाभिमन्युम्प्रति पद्मव्यूहभेदनचोदना॥
७.०३६ अभिमन्युयुद्धवर्णनम्॥
७.०३७ अभिमन्युपराक्रमवर्णनम्॥
७.०३८ अभिमन्युपराक्रमवर्णनम्॥
७.०३९ दुश्शासनाभिमन्युसमागमः॥
७.०४० अभिमन्युना कर्णदुःशासनपराजयः॥
७.०४१ अभिमन्युपराक्रमवर्णनम्॥
७.०४२ स़ञ्जयेन धृतराष्ट्रं प्रति अभिमन्युमनुगतानां जयद्गथेन निरोधकथनम्॥ तथा जयद्गथस्य रुद्रात् पाण्डवनिरोधरूपवरलाभकथनम्॥
७.०४३ जयद्रथेन रुद्रवरात् व्यूहपथं पिधाय पाण्डवादिनिरोधः॥
७.०४४ अभिमन्युपराक्रमवर्णनम्॥
७.०४५ अभिमन्योः पराक्रमः तेन दुर्योधनपराजयः॥
७.०४६ अभिमन्युना दुर्योधनसूनोर्लक्ष्मणस्य वधः॥
७.०४७ अभिमन्युपराक्रमवर्णनम्॥
७.०४८ द्रोणादिभिः षड्भिरभिमन्योर्विरथीकरणम्॥
७.०४९ अभिमन्युवधः॥
७.०५० युद्धभूमिवर्णनम्॥
७.०५१ युधिष्ठिरस्याभिमन्युमनुशोच्य विलापः॥
७.०५२ युधिष्ठिराश्वासनाय व्यासेन तम्प्रति अकम्पनोपाख्यानकथनोपक्रमः॥
७.०५३ ब्रह्मरुद्रसंवादः॥ ब्रह्मणा प्रजासंहाराय मृत्युदेवीसर्जनम्॥
७.०५४ नारदेन मृत्युब्रह्मसंवादकथनेन अकम्पनस्य शोकपरिहरणम्॥ व्यासेनाकम्पनोपाख्यानकथनात् युधिष्ठिरस्य शोकापनोदनम्॥
७.०५५ व्यासेन युधिष्ठिरं प्रति षोडशराजकीयाख्यानकथनप्रारम्भः॥ नारदेन सृञ्जयम्प्रति मरुत्तराजचरितकथनम्॥
७.०५६ नारदेन सृञ्जयम्प्रति सुहोत्रचरित्रकीर्तनम्॥
७.०५७ नारदेन सृञ्जयम्प्रति अङ्गराजगुणवर्णनम्॥
७.०५८ नारदेन सृञ्जयम्प्रति शिबिवैभवशंसनम्॥
७.०५९ सृञ्जयम्प्रति नारदेन राममङिमानुवर्णनम्॥
७.०६० नारदेन सृञ्जयम्प्रति भगीरथचरित्रकथनम्॥
७.०६१ नारदेन सञ्जयम्प्रति दिलीपप्रभाववर्णनम्॥
७.०६२ नारदेन सृञ्जयम्प्रति मान्धातृचरिताभिधानम्॥
७.०६३ नारद उवाच।
७.०६४ नारदेन सृञ्जयम्प्रत्यम्बरीषविभवाभिधानम्॥
७.०६५ नारदेन सृञ्जयम्प्रति शशिबिन्दुयशोनुवर्णनम्॥
७.०६६ नारदेन सृञ्जयम्प्रति गयगुणानुवर्णनम्॥
७.०६७ नारदेन सृञ्जयम्प्रति रन्तिदेवचरित्रकीर्तनम्॥
७.०६८ नारदेन सृञ्जयम्प्रति भरतचरितकथनम्॥
७.०६९ नारदेन सृञ्जयम्प्रति पृथुचरिब्रकथनम्॥
७.०७० सृञ्जयम्प्रति नारदेन परशुरामप्रभाववर्णनम्॥
७.०७१ युधिष्ठिरं समाश्वास्य स्वाश्रमगमनम्॥
७.०७२ अभिमन्युमनुशोच्यार्जुनस्य विलापः॥
७.०७३ युधिष्ठिरेणार्जुनम्प्रत्यभिमन्युनिधनप्रकारकथनम्॥ अर्जुनेन सशपथं जयद्रथवधप्रतिज्ञा॥
७.०७४ अर्जुनप्रतिज्ञाश्रवणचकितस्य जयद्रथस्य द्रोणतुर्योधनाश्यासनम्॥
७.०७५ श्रीकृष्णेनार्जुनम्प्रति द्रोणादिभिर्जयद्रथरक्षणप्रतिज्ञादिकथनम्॥
७.०७६ अर्जुनेन श्रीकृष्णम्प्रति स्वसामर्थ्यकथनम्॥
७.०७७ श्रीकृष्णेन सुभद्रासमाश्वासनम्॥
७.०७८ अभिमन्युमनुशोच्य विलपन्त्याः सुभद्रायाः कृष्णेनाश्वासनम्॥
७.०७९ श्रीकृष्णेन रात्रावर्जुनेन त्र्यम्बकाय बलिप्रदापनम्॥ कृष्णदारुकसम्भाषणम्॥
७.०८० अर्जुनस्य स्वप्ने कृष्णेन सह कैलासगमनम्॥ तथा स्तुत्या रुद्रप्रसादनम्॥
७.०८१ अर्जुनेन स्वप्ने शंकरात्पाशुपतास्त्रमुपलक्ष्य कृष्णेनसह पुनः शिबिरं प्रत्यागमनम्॥
७.०८२ श्रीकृष्णस्य कृताह्निकं युधिष्ठिरं प्रत्यागमनम्॥
७.०८३ जयद्रथवधस्य दुष्करत्वाशङ्किनो युधिष्ठिरस्य कृष्णेन समाश्वासनम्॥
७.०८४ जयद्रथम्प्रति गच्छताऽर्जुनेन युधिष्ठिररक्षणाय सात्यकिम्प्रति चोदना॥
७.०८५ धृतराष्ट्रेण पुत्रान्प्रति शोचनपूर्वकं सञ्जयम्प्रत्यभिमन्युनिधनानन्तरीयकयुद्धकथनचोदना॥
७.०८६ सञ्जयेन धृतराष्ट्रोपालम्भपूर्वकं युद्धकथनोपक्रमः॥
७.०८७ द्रोणेन शकटव्यूहनिर्माणम्॥
७.०८८ अर्जुनस्य रणाङ्गणप्रवेशः॥
७.०८९ अर्जुनयुद्धवर्णनम्॥
७.०९० अर्जुनेन दुःशासनपराजयः॥
७.०९१ अर्जुनस्य व्यूहमुखस्थेन द्रोणेन कञ्चित्कालं युद्ध्वा तमपहाय व्यूहप्रवेशः॥
७.०९२ अर्जुनेन श्रुतायुधसुदक्षिणयोर्वधः॥
७.०९३ अर्जुनेन श्रुतायुःप्रभृतीनां वधः॥
७.०९४ अर्जुनाद्भीतेन दुर्योधनेन द्रोणमेत्य तदुपालम्भपूर्वकं जयद्रथम्प्रति शोचनम्॥ द्रोणेन दुर्योधनस्य मन्त्रोच्चारणपूर्वकं कवचमाबध्यार्जुनेन सह युद्धाय प्रेषणम्॥
७.०९५ राज्ञां द्वन्द्वीभूय युद्धाय समागमः॥
७.०९६ राज्ञां द्वन्द्वयुद्धवर्णनम्॥
७.०९७ द्रोणधृष्टद्युम्नयोर्युद्धम्॥
७.०९८ द्रोणसात्यक्योर्युद्धम्॥
७.०९९ अर्जुनेन रणाङ्कणे हयाप्यायनाय शरैः सरोनिर्माणम्॥ तथा शरमयवेश्मनिर्माणम्॥
७.१०० श्रीकृष्णेनार्जुननिर्मितसरसि स्नापनादिनाऽऽप्यायितानां तुरगाणां पुना रथे योजनम्॥ पुना रथमारूढयोः कृष्णः र्जुनयोर्जयद्रथम्प्रति गमनम्॥
७.१०१ जयद्रथं यियासोरर्जुनस्य दुर्योधनेन निरोधः॥
७.१०२ दुर्योधने निरुन्धाने कृष्णेन तद्दुष्कृतानुस्मारणपूर्वकमर्जुनम्प्रति तद्वधचोदना॥ अर्जुनम्प्रति दुर्योधनस्य वीरवादः॥
७.१०३ अर्जुनेन दुर्योधनपराजयः॥
७.१०४ अर्जुनस्य भूरिश्रवःप्रभृतिभिरष्टभिर्युद्धम्॥
७.१०५ सञ्जयेन रथानां ध्वजवर्णनम्॥
७.१०६ द्रोणयुधिष्ठिरयोर्युद्धम्॥
७.१०७ सङ्कुलयुद्धवर्णनम्॥
७.१०८ द्रौपदेयैः शलवधः॥ भीमसेनेनालम्बुसपराजयः॥
७.१०९ घटोत्कचेनालम्बुसवधः॥
७.११० रणाङ्कणो पाञ्चजन्यस्वने श्रुते अश्रुतेच गाण्डीवघोषे अर्जुनस्य विपदमाशङ्कमानेन युधिष्ठिरेण सात्यकिम्प्रति अर्जुनवृत्तान्तपरिज्ञानाय गमनचोदना॥
७.१११ अर्जुनम्प्रति गच्छेति युधिष्ठिरचोदितेन सात्यकिना तम्प्रति स्वस्यार्जुनेन तद्रक्षणाय नियोगाभिधानपूर्वकं स्वेन तस्यापरित्याज्यत्वकथनम्॥ युधिष्ठिरेण भीमादिभिः स्वस्य रक्षणकथनपूर्वकं पुनः सात्यकेरर्जुनम्प्रति गमने नियोजनम्॥
७.११२ सात्यकेः युधिष्ठिररक्षणे भीमं नियोज्यार्जुनदर्शनाय प्रस्थानम्॥
७.११३ अर्जुनं गच्छतः सात्यकेः कृतवर्मणासह युद्धम्॥
७.११४ धृतराष्ट्रस्य स्वसैन्यपराजयश्रवणेन शोचनम्॥ सञ्जयेन तदुपालम्भपूर्वकं कृतवर्मपराक्रमकथनम्॥
७.११५ सात्यकिना जलसन्धस्य वधः॥
७.११६ सात्यकिना दुर्योधनकृतवर्मणोः पराजयः॥
७.११७ सात्यकिपराक्रमवर्णनम्॥
७.११८ सात्यकिना सुदर्शननाम्नो राज्ञो वधः॥
७.११९ सात्यकिपराक्रमवर्णनम्॥
७.१२० सात्यकियुद्धवर्णनम्॥
७.१२१ सात्यकियुद्धवर्णनम्॥
७.१२२ सात्यकिभयात्पलायमानस्य दुश्शासनस्य द्रोणेनोपालम्भः॥ द्रोणधृष्टद्युम्नयोर्युद्धम्॥
७.१२३ सात्यकिना दुःशासनपराजयः॥
७.१२४ सङ्कुलयुद्धवर्णनम्॥
७.१२५ द्रोणपराक्रमवर्णनम्॥
७.१२६ अर्जुनवृत्तान्तपरिज्ञानाय सात्यकिं प्रेषितवता युधिष्ठिरेण पुनस्तयोर्वृत्तान्तपरिज्ञानाय भीमसेनस्य तत्र गमनचोदना॥
७.१२७ कतिचन धार्तराष्ट्रान्निहत्य निर्गच्छता भीमेन स्वपथं निरुन्धानस्य द्रोणस्य रथभञ्जनम्॥
७.१२८ पुनर्द्रोणरथान्भङ्क्त्वा गच्छतो भीमस्यार्जुनदर्शनेन सिंहनादः॥ तच्छ्रवणेन युधिष्ठिरस्य हर्षोदयः॥
७.१२९ भीमेन कर्णपराजयो दुःशलवधश्च॥
७.१३० द्रोणदुर्योधनसंवादो दुर्योधनयुद्धं च॥
७.१३१ भीमेन कर्णस्य पराजयः॥
७.१३२ भीमकर्णयोर्युद्धम्॥
७.१३३ भीमेन कर्णसहकारिणो दुर्जयस्य वधः॥
७.१३४ भीमेन पराजितस्य कर्णस्य पलायनम्॥
७.१३५ भीमेन दुर्मर्षणादिदुर्योधनानुजानां पञ्चानां हननम्॥
७.१३६ भीमेन चित्रोपचित्रादिदुर्योधनानुजवधः॥
७.१३७ द्रोणपर्व
७.१३८ द्रोणपर्व
७.१३९ भीमकर्णयुद्धवर्णनम्॥
७.१४० सात्यकिना अलम्बुसदधः॥
७.१४१ सात्यकेरर्जुनदर्शनं भूरिश्रवसा समागमश्च॥
७.१४२ सात्यकिभूरिश्रवसोर्युद्धम्॥ सात्यकिशिरच्छेदायोन्नमितस्य स्वङ्गभृतो भूरिश्रवोभुजस्यार्जुनेन सञ्छेदः॥
७.१४३ अर्जुनच्छिन्नभुजस्य भूरिश्रवसः तदुपालम्भपूर्वकं प्रायोपवेशः॥ सात्यकिना भूरिश्रवश्शिरश्छेदः॥
७.१४४ सञ्जयेन धृतराष्ट्रम्प्रति सात्यकेः भूरिश्रवसा पराभवकारणकथनम्॥ तथा यादवानां प्रशंसनम्॥
७.१४५ कृष्णार्जुनयोः संवादः कर्णसात्यक्योर्युद्धं च॥
७.१४६ अर्जुनेन कर्णेंप्रति तत्कुतभीमगर्हणातितिक्षया तद्गर्हणपूर्वकं तत्सुतवधप्रतिज्ञा॥ कर्णदुर्योधनसंवादः सङ्कुलयुद्धं च॥
७.१४७ अल्पशेषे दिवसे तिरोहिते च जयद्रथे कृष्णेनान्धकारसर्जनेन सूर्यबिम्बपिधानम्॥ अदृश्यमाने भानौ जयद्रथे च निःशङ्कमात्मानमाविष्कुर्वति अर्जुनेन कृष्णचोदनया तच्छिरश्छेदः॥ कृष्णेनार्जुनम्प्रति जयद्रथशिरः बूतले न निपातनीयमित्युक्ते तेन तम्प्रति तत्कारणकथनप्रार्थना॥
७.१४८ कृष्णेनार्जुनं प्रति सैन्धवमूर्ध्नो धरण्यामनिपातनीयत्वे कारणाभिधानम्॥ कृष्णाज्ञयाऽर्जुनेन स्यमन्तपञ्चके सन्ध्य मुपासमानस्य वृद्धक्षत्रस्योत्सङ्गे जयद्रथशिरसो निपातनम्॥ उत्तिष्ठमानस्य तस्योत्सङ्गाच्छिरसि धरणौ पतिते वृद्ध क्षत्रमूर्ध्नो विदारणम्॥
७.१४९ अर्जुनेन निजशराहतिमोहितं कृपम्प्रति शोचनम्॥ सार्जुनेन कृष्णेन युधिष्ठिरमेत्य जयद्रथवधकथनम्॥ भीमादीनां युधिष्ठिरसमीपसमागमनम्॥
७.१५० युधिष्ठिरेण स्वाभिवादकानां कृष्णभीमार्जुनसात्यकीनामालिङ्गनादिना सत्कारः॥ कृष्णयुधिष्ठिरयोः संलापः॥
७.१५१ सैन्धववधदुःखितेन दुर्योधनेन द्रोणमेत्य आत्मोपालम्भपूर्वकं परिशोचनम्॥
७.१५२ द्रोणेन सोपालम्भं दुर्योधनाश्वासनपूर्वकं रणाय निर्याणम्॥
७.१५३ दुर्योधनेन कर्णंप्रति जयद्रथवधे द्रोणस्य पार्थपक्षपातादौदासीन्यस्य हेतुत्वेऽभिहिते कर्णेन तन्निराकरणपूर्वकं दैवस्यैव तत्र हेतुत्वकथनम्॥ रात्रियुद्धारम्भः॥
७.१५४ युधिष्ठिरेण दुर्योधनपराजयः॥
७.१५५ द्रोणयुद्धवर्णनम्॥
७.१५६ भीमेन दुर्मददुष्कर्णादिवधः॥
७.१५७ सात्यकिना सोमदत्तपराजयः॥ अश्वत्थामघटोत्कचयुद्धमश्वत्थामपराक्रमश्च॥
७.१५८ भीमेनः बाह्लीकवधः॥ तथा दुर्योधनानुजदशकस्य शकुनिभ्रातृपञ्चकस्य च वधः॥
७.१५९ कर्णेन पाण्डवहननं प्रतिजानानमात्मानमधिक्षिपतः कृपस्य जिह्वाच्छेदप्रतिज्ञानम्॥
७.१६० कृपगर्हणातितिक्षया कर्णवधायाक्ष्युत्तिष्ठतोऽश्वत्थाम्नः कृपदुर्योधनाक्ष्यां निवारणम्॥ अर्जुनेन कर्णपराजयो दुर्योधनेन रणाय द्रौणिचोदना च॥
७.१६१ द्रौणिधृष्टद्युम्नयोर्युद्धम्। द्रौणिपराक्रमः॥
७.१६२ सङ्कुलयुद्धवर्णनम्॥
७.१६३ सात्यकिना सोमदत्तवधः॥ द्रोणयुधिष्ठिरयुद्धम्॥
७.१६४ सेनाद्वये दीपोद्योxxxनम्॥
७.१६५ सङ्कुलयुद्धम्॥
७.१६६ कृतवर्मणा युधिष्ठिरपराजयः॥
७.१६७ सात्यकिना भूरिनाम्नो राज्ञो वधः॥ द्रौणिना घटोत्कचपराजयः॥ भीमेन दुर्योधनपराभवः॥
७.१६८ कर्णेन सहदेवस्य पराजयपूर्वकमवहेलनम्॥ शल्येन विराटपराजयः॥ अर्जुनेनालायुधपराजयः॥
७.१६९ सङ्कुलयुद्धम्॥
७.१७० नकुलकृपाभ्यां शकुनिशिखण्डिपराजयः॥
७.१७१ द्रोणधृष्टद्युम्नादीनां सङ्कुलयुद्धम्॥
७.१७२ सङ्कुलयुद्धम्॥ धृष्टद्युम्नादीनां हर्षात्सिंहनादः॥
७.१७३ द्रोणकर्णयोः सात्यकिधृष्टद्युम्नाक्ष्यां युद्धम्॥
७.१७४ कर्णं युयुत्सोरर्जुनस्य कृष्णेन सहेतुकथनं तेन युद्धनिषेधः॥ कृष्णार्जुनचोदनया घटोत्कचस्य कर्णेन सह रणारम्भः॥
७.१७५ घटोत्कचेन जटासुरसुतवधः॥
७.१७६ कर्णघटोत्कचयोर्युद्धम्॥
७.१७७ बकादिबन्धुवधाद्भीमे चिरवैरिणा अलायुधराक्षसेन सुयोधनादायोधनाक्ष्यनुज्ञामुपलक्ष्य घटोत्कचं प्रत्यभिगमनम्॥
७.१७८ भीमालायुधयोर्युद्धम्॥
७.१७९ घटोत्कचेनाऽलायुधवधः॥
७.१८० कर्णेन घटोत्कचवधः॥
७.१८१ घटोत्कचनिधनात्सर्वेषु शोचत्सु हर्षादात्मानं परिष्वजमानं कृष्णं प्रत्यर्जुनेन हर्षङेतुप्रश्नः॥ कृष्णेन तदभिधानपूर्वकं कर्णप्रभावप्रशंसनम्॥
७.१८२ श्रीकृष्णेनार्जुनम्प्रति जरासन्धादिपराक्रमकथनपूर्वकं तेषां दुर्जयतया पूर्वमेव स्वेनोपायैर्हननकथनम्॥
७.१८३ धृतराष्ट्रेण सञ्जयम्प्रति कर्णेन अर्जुने शक्तेरमोक्षणकारणप्रश्ने सञ्जयेन सात्यकिम्प्रति कृष्णोक्ततदुत्तरकथनम्॥
७.१८४ कर्णशक्तेर्घटोत्कचवधेन वैफल्याद्धृतराष्ट्रेण शोचनम्॥ युधिष्ठिरेण कृष्णे घटोत्कचकृतोपकारनिवेदनपूर्वकं शोचन॥ व्यासेन क्रोधात्कर्णजिघांसया गच्छन्तं युधिष्ठिरमेत्य समाश्वासनेन तं निवर्त्य पुनरन्तर्धानम्॥
७.१८५ निद्रोपद्रुतानां सैन्यानामर्जुनाज्ञया स्वापेन श्रान्तिमपनीय चन्द्रोदयानन्तरं युद्धारम्भः॥
७.१८६ दुर्योधनोपालम्भकोपितेन द्रोणेन पार्थदुर्योधनप्रशंसाधिक्षेपपूर्वकं रणाय निःसरणम्॥
७.१८७ द्रोणेन द्रुपदविराटादीनां वधः॥ भीमेन निष्ठुरभाषणेन धृष्टद्युम्नमुद्योज्य द्रोणानीकाभिगमनम्॥ चतुर्दशरात्रियुद्धसमाप्तिः॥
७.१८८ पञ्चदशदिवसयुद्धारम्भः॥ सङ्कुलयुद्धम्। नकुलेन दुर्योधनपराजयः॥
७.१८९ द्रोणार्जुनादीनां सङ्कुलयुद्धम्॥
७.१९० सात्यकिदुर्योधनादीनां सङ्कुलयुद्धवर्णनम्॥
७.१९१ कृष्णेन युधिष्ठिरम्प्रति द्रोणजये तस्य शस्त्रन्यासस्य तत्रचाश्वत्थामवधश्रवणस्य हेतुत्वकथनम्॥ भीमेनाश्वत्थामनाम्नि गजे निहते युधिष्ठिरेण कृष्णचोदनया द्रोणम्प्रति तद्विवक्षया अश्वत्थामा हत इति कथनम्॥
७.१९२ अश्वत्थामवधश्रवणनिर्विण्णद्रोणमारणाय धृष्टद्युम्नसमुद्यमः॥ द्रोणग्रस्तस्य धृष्टद्युम्नस्य सात्यकिना विमोचनम्॥
७.१९३ द्रोणधृष्टद्युम्नयोर्युद्धम्॥ द्रोणेन सोपालम्भभीमवचः श्रवणेन शस्त्रन्यासपूर्वकं योगेन शीरत्यागः॥ शरीरार्न्निर्गच्छतस्तेजोरूपस्य द्रोणस्य सञ्जयादिभिः पञ्चभिरेवावलोकनम्॥ धृष्टद्युम्नेन द्रोणशिरश्छेदः॥
७.१९४ दृर्योधनचोदनया कृपेण द्रोणवधं श्रावितस्याश्वत्थाम्नः कोपोदयः॥
७.१९५ धृतराष्ट्रेण सञ्जयम्प्रति द्रोणवधश्राविणाश्वत्थाम्ना किमुक्तमिति प्रश्नः॥
७.१९६ अश्वत्थाम्ना सक्रोधं युधिष्ठिराद्युपालभ्यः॥ तथा द्रोणस्य नारायणास्त्रलाभप्रकारादिकथनपूर्वकं तेन पाण्डवादिवध प्रतिज्ञानम्॥
७.१९७ कुरुसेनाहरवश्रवणभीतेन युधिष्ठिरेण पलायितसेनाप्रतिनिवर्तकप्रश्ने अर्जुनेन तत्कथनपूर्वकं द्रोणवधोपेक्षणादात्मोपालम्भः॥
७.१९८ साधिक्षेपमश्वत्थामतो युधिष्ठिरं भीषयन्तं पार्थंप्रति भीमेन सामर्षमात्मबलवर्णनादिपूर्वकं स्वेनाश्वत्थामादिविजयप्रतिज्ञानम्॥ धृष्टद्युम्नेनाप्यर्जुनं प्रति सक्रोधं क्षात्रधर्मादिकथनपूर्वकं स्वकृतद्ग्रोणवधस्य धार्मिकत्वकथनम्॥
७.१९९ सात्यकिनिष्ठुरभाषणरुष्टेन धृष्टद्युम्नेन समर्मोद्धाटनं तद्गर्हणम्॥ धृष्टद्युम्नजिघांसया गदामुद्यम्यापततः सात्यकेः कृष्णचोदितेन भीमेन निवारणम्॥ सर्वेषां पुनर्युद्धोद्यमः॥
७.२०० द्रोणमारणरुष्टेनाश्वत्थाम्ना वैरिसेनायां नारायणास्त्रप्रयोगः॥ अस्त्रतेजसा पीड्यमानानां कृष्णवचनात् यानावरोहणशस्त्रन्यासादिना आत्मरक्षणम्॥ भीमे एकस्मिन्नेव शस्त्रधारणेन प्रतियुध्यमाने सति तन्मस्तकेऽस्त्रस्य प्रज्वलनम्॥
७.२०१ नारयणास्त्रेणावेष्टिते भीमे कृष्णार्जुनाश्यां हस्ततः शस्त्रापकर्षणपूर्वकं रथादवरोपिते सत्यस्त्रस्य प्रशमनम्॥ ततः सङ्कुलयुद्धम्॥
७.२०२ नारायणास्त्रे विफलीकृते पुनरश्वत्थाम्नाऽऽग्नेयास्त्रप्रयोगः॥ तस्यापि पार्थेन व्यर्थीकरणे दूयमानेन द्रौणिना शस्त्रन्यासपूर्वकं रणाङ्कणान्निर्गमनम्॥ निर्गच्छता च तेन यदृच्छासमागतं व्यासं प्रति निजास्त्रवैफल्यकारणप्रश्नः॥ व्यासेन कृष्णार्जुनयोर्नरनारायणात्मकत्वे कथिते प्रतिनिवृत्तेन द्रौणिना सेनावहारः॥
७.२०३ इतरालक्षितं पुरतः स्वानुकूलं युध्यमानं शूलपाणिं कञ्चन पुरुषप्रवरमवलोकयता पार्थेन स क इति यदृच्छासमागतं व्यासं प्रति प्रश्नः॥ तेन तम्प्रति तस्य तस्य पशुपतित्वोक्त्या शतरुद्रीयपठनेन सविस्तरं तद्गुणगणवर्णनम्॥