Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.010
Pancharatra: Suddenly King Dhritarashtra had become a devotee of Krishna and recounts the various deeds of Krishna both as an adult and in his childhood days. Asks why foolish Duryodhana does not listen to his advice and then enquires about the war details.
धृतराष्ट्र उवाच॥
शृणु दिव्यानि कर्माणि वासुदेवस्य सञ्जय।कृतवान्यानि गोविन्दो यथा नान्यः पुमान्क्वचित् ॥७-१०-१॥
संवर्धता गोपकुले बालेनैव महात्मना।विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु सञ्जय ॥७-१०-२॥
उच्चैःश्रवस्तुल्यबलं वायुवेगसमं जवे।जघान हयराजं यो यमुनावनवासिनम् ॥७-१०-३॥
दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम्।वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह ॥७-१०-४॥
प्रलम्बं नरकं जम्भं पीठं चापि महासुरम्।मुरुं चाचलसङ्काशमवधीत्पुष्करेक्षणः ॥७-१०-५॥
तथा कंसो महातेजा जरासन्धेन पालितः।विक्रमेणैव कृष्णेन सगणः शातितो रणे ॥७-१०-६॥
सुनामा नाम विक्रान्तः समग्राक्षौहिणीपतिः।भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् ॥७-१०-७॥
बलदेवद्वितीयेन कृष्णेनामित्रघातिना।तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् ॥७-१०-८॥
दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः।आराधितः सदारेण स चास्मै प्रददौ वरान् ॥७-१०-९॥
तथा गान्धारराजस्य सुतां वीरः स्वयंवरे।निर्जित्य पृथिवीपालानवहत्पुष्करेक्षणः ॥७-१०-१०॥
अमृष्यमाणा राजानो यस्य जात्या हया इव।रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः ॥७-१०-११॥
जरासन्धं महाबाहुमुपायेन जनार्दनः।परेण घातयामास पृथगक्षौहिणीपतिम् ॥७-१०-१२॥
चेदिराजं च विक्रान्तं राजसेनापतिं बली।अर्घे विवदमानं च जघान पशुवत्तदा ॥७-१०-१३॥
सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम्।समुद्रकुक्षौ विक्रम्य पातयामास माधवः ॥७-१०-१४॥
अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान्।वत्सगर्गकरूषांश्च पुण्ड्रांश्चाप्यजयद्रणे ॥७-१०-१५॥
आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान्।काश्मीरकानौरसकान्पिशाचांश्च समन्दरान् ॥७-१०-१६॥
काम्बोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च सञ्जय।त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान् ॥७-१०-१७॥
नानादिग्भ्यश्च सम्प्राप्तान्व्रातानश्वशकान्प्रति।जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान् ॥७-१०-१८॥
प्रविश्य मकरावासं यादोभिरभिसंवृतम्।जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा ॥७-१०-१९॥
युधि पञ्चजनं हत्वा पातालतलवासिनम्।पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान् ॥७-१०-२०॥
खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम्।आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः ॥७-१०-२१॥
वैनतेयं समारुह्य त्रासयित्वामरावतीम्।महेन्द्रभवनाद्वीरः पारिजातमुपानयत् ॥७-१०-२२॥
तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम्।राज्ञां चाप्यजितं कञ्चित्कृष्णेनेह न शुश्रुम ॥७-१०-२३॥
यच्च तन्महदाश्चर्यं सभायां मम सञ्जय।कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति ॥७-१०-२४॥
यच्च भक्त्या प्रपन्नोऽहमद्राक्षं कृष्णमीश्वरम्।तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमत् ॥७-१०-२५॥
नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः।कर्मणः शक्यते गन्तुं हृषीकेशस्य सञ्जय ॥७-१०-२६॥
तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः।आगावहोऽनिरुद्धश्च चारुदेष्णश्च सारणः ॥७-१०-२७॥
उल्मुको निशठश्चैव झल्ली बभ्रुश्च वीर्यवान्।पृथुश्च विपृथुश्चैव समीकोऽथारिमेजयः ॥७-१०-२८॥
एते वै बलवन्तश्च वृष्णिवीराः प्रहारिणः।कथञ्चित्पाण्डवानीकं श्रयेयुः समरे स्थिताः ॥७-१०-२९॥
आहूता वृष्णिवीरेण केशवेन महात्मना।ततः संशयितं सर्वं भवेदिति मतिर्मम ॥७-१०-३०॥
नागायुतबलो वीरः कैलासशिखरोपमः।वनमाली हली रामस्तत्र यत्र जनार्दनः ॥७-१०-३१॥
यमाहुः सर्वपितरं वासुदेवं द्विजातयः।अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय सञ्जय ॥७-१०-३२॥
स यदा तात संनह्येत्पाण्डवार्थाय केशवः।न तदा प्रत्यनीकेषु भविता तस्य कश्चन ॥७-१०-३३॥
यदि स्म कुरवः सर्वे जयेयुः सर्वपाण्डवान्।वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम् ॥७-१०-३४॥
ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे।कौरवांश्च महाबाहुः कुन्त्यै दद्यात्स मेदिनीम् ॥७-१०-३५॥
यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः।रथस्य तस्य कः सङ्ख्ये प्रत्यनीको भवेद्रथः ॥७-१०-३६॥
न केनचिदुपायेन कुरूणां दृश्यते जयः।तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत ॥७-१०-३७॥
अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः।अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती ॥७-१०-३८॥
प्राधान्येन हि भूयिष्ठममेयाः केशवे गुणाः।मोहाद्दुर्योधनः कृष्णं यन्न वेत्तीह माधवम् ॥७-१०-३९॥
मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः।न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम् ॥७-१०-४०॥
पूर्वदेवौ महात्मानौ नरनारायणावुभौ।एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि ॥७-१०-४१॥
मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ।नाशयेतामिहेच्छन्तौ मानुषत्वात्तु नेच्छतः ॥७-१०-४२॥
युगस्येव विपर्यासो लोकानामिव मोहनम्।भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः ॥७-१०-४३॥
न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च।न क्रियाभिर्न शस्त्रेण मृत्योः कश्चिद्विमुच्यते ॥७-१०-४४॥
लोकसम्भावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ।भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि सञ्जय ॥७-१०-४५॥
यां तां श्रियमसूयामः पुरा यातां युधिष्ठिरे।अद्य तामनुजानीमो भीष्मद्रोणवधेन च ॥७-१०-४६॥
तथा च मत्कृते प्राप्तः कुरूणामेष सङ्क्षयः।पक्वानां हि वधे सूत वज्रायन्ते तृणान्यपि ॥७-१०-४७॥
अनन्यमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः।यस्य कोपान्महेष्वासौ भीष्मद्रोणौ निपातितौ ॥७-१०-४८॥
प्राप्तः प्रकृतितो धर्मो नाधर्मो मानवान्प्रति।क्रूरः सर्वविनाशाय कालः समतिवर्तते ॥७-१०-४९॥
अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः।अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम ॥७-१०-५०॥
तस्मादपरिहार्येऽर्थे सम्प्राप्ते कृच्छ्र उत्तमे।अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे ॥७-१०-५१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.