07.011 
 Pancharatra and Core: Drona, in his admiration for Duryodhana, grants him a boon, and Duryodhana asks for Yudhisthira's capture. 
सञ्जय उवाच॥
हन्त ते वर्णयिष्यामि सर्वं प्रत्यक्षदर्शिवान्। यथा स न्यपतद्द्रोणः सादितः पाण्डुसृञ्जयैः ॥७-११-१॥
सेनापतित्वं सम्प्राप्य भारद्वाजो महारथः। मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् ॥७-११-२॥
यत्कौरवाणामृषभादापगेयादनन्तरम्। सेनापत्येन मां राजन्नद्य सत्कृतवानसि ॥७-११-३॥
सदृशं कर्मणस्तस्य फलं प्राप्नुहि पार्थिव। करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि ॥७-११-४॥
ततो दुर्योधनश्चिन्त्य कर्णदुःशासनादिभिः। तमथोवाच दुर्धर्षमाचार्यं जयतां वरम् ॥७-११-५॥
ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम्। गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय ॥७-११-६॥
ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः। सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् ॥७-११-७॥
धन्यः कुन्तीसुतो राजा यस्य ग्रहणमिच्छसि। न वधार्थं सुदुर्धर्ष वरमद्य प्रयाचसि ॥७-११-८॥
किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि। नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् ॥७-११-९॥
आहो स्विद्धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते। यदिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि ॥७-११-१०॥
अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान्। राज्यांशं प्रतिदत्त्वा च सौभ्रात्रं कर्तुमिच्छसि ॥७-११-११॥
धन्यः कुन्तीसुतो राजा सुजाता चास्य धीमतः। अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् ॥७-११-१२॥
द्रोणेन त्वेवमुक्तस्य तव पुत्रस्य भारत। सहसा निःसृतो भावो योऽस्य नित्यं प्रवर्तते ॥७-११-१३॥
नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि। तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् ॥७-११-१४॥
वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम। हते युधिष्ठिरे पार्थो हन्यात्सर्वान्हि नो ध्रुवम् ॥७-११-१५॥
न च शक्यो रणे सर्वैर्निहन्तुममरैरपि। य एव चैषां शेषः स्यात्स एवास्मान्न शेषयेत् ॥७-११-१६॥
सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते। पुनर्यास्यन्त्यरण्याय कौन्तेयास्तमनुव्रताः ॥७-११-१७॥
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति। अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् ॥७-११-१८॥
तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित्। तं वरं सान्तरं तस्मै ददौ सञ्चिन्त्य बुद्धिमान् ॥७-११-१९॥
द्रोण उवाच॥
न चेद्युधिष्ठिरं वीर पालयेदर्जुनो युधि। मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः ॥७-११-२०॥
न हि पार्थो रणे शक्यः सेन्द्रैर्देवासुरैरपि। प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम् ॥७-११-२१॥
असंशयं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि। तरुणः कीर्तियुक्तश्च एकायनगतश्च सः ॥७-११-२२॥
अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान्। अमर्षितश्च ते राजंस्तेन नामर्षयाम्यहम् ॥७-११-२३॥
स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते। अपनीते ततः पार्थे धर्मराजो जितस्त्वया ॥७-११-२४॥
ग्रहणं चेज्जयं तस्य मन्यसे पुरुषर्षभ। एतेन चाभ्युपायेन ध्रुवं ग्रहणमेष्यति ॥७-११-२५॥
अहं गृहीत्वा राजानं सत्यधर्मपरायणम्। आनयिष्यामि ते राजन्वशमद्य न संशयः ॥७-११-२६॥
यदि स्थास्यति सङ्ग्रामे मुहूर्तमपि मेऽग्रतः। अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जये ॥७-११-२७॥
फल्गुनस्य समक्षं तु न हि पार्थो युधिष्ठिरः। ग्रहीतुं समरे शक्यः सेन्द्रैरपि सुरासुरैः ॥७-११-२८॥
सञ्जय उवाच॥
सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे। गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः ॥७-११-२९॥
पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः। ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः ॥७-११-३०॥
ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत्। सैन्यस्थानेषु सर्वेषु व्याघोषितमरिंदम ॥७-११-३१॥