07.013 
 Core and Pancharatra: The victorious army led by Yudhishthira attacked Drona from all sides. The notable battle takes place between Abhimanyua and Jayadratha, and then between Abhimanyua and Shalya.
सञ्जय उवाच॥
ततः स पाण्डवानीके जनयंस्तुमुलं महत्। व्यचरत्पाण्डवान्द्रोणो दहन्कक्षमिवानलः ॥७-१३-१॥
निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम्। दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः ॥७-१३-२॥
प्रततं चास्यमानस्य धनुषोऽस्याशुकारिणः। ज्याघोषः श्रूयतेऽत्यर्थं विस्फूर्जितमिवाशनेः ॥७-१३-३॥
रथिनः सादिनश्चैव नागानश्वान्पदातिनः। रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः ॥७-१३-४॥
नानद्यमानः पर्जन्यः सानिलः शुचिसङ्क्षये। अश्मवर्षमिवावर्षत्परेषामावहद्भयम् ॥७-१३-५॥
व्यचरत्स तदा राजन्सेनां विक्षोभयन्प्रभुः। वर्धयामास सन्त्रासं शात्रवाणाममानुषम् ॥७-१३-६॥
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्। भ्रमद्रथाम्बुदे तस्मिन्दृश्यते स्म पुनः पुनः ॥७-१३-७॥
स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सुदारुणः। युगान्तकाले यन्तेव रौद्रां प्रास्कन्दयन्नदीम् ॥७-१३-८॥
अमर्षवेगप्रभवां क्रव्यादगणसङ्कुलाम्। बलौघैः सर्वतः पूर्णां वीरवृक्षापहारिणीम् ॥७-१३-९॥
शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम्। कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम् ॥७-१३-१०॥
मेदोमज्जास्थिसिकतामुष्णीषवरफेनिलाम्। सङ्ग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम् ॥७-१३-११॥
नरनागाश्वसम्भूतां शरवेगौघवाहिनीम्। शरीरदारुशृङ्गाटां भुजनागसमाकुलाम् ॥७-१३-१२॥
उत्तमाङ्गोपलतलां निस्त्रिंशझषसेविताम्। रथनागह्रदोपेतां नानाभरणनीरजाम् ॥७-१३-१३॥
महारथशतावर्तां भूमिरेणूर्मिमालिनीम्। महावीर्यवतां सङ्ख्ये सुतरां भीरुदुस्तराम् ॥७-१३-१४॥
शूरव्यालसमाकीर्णां प्राणिवाणिजसेविताम्। छिन्नच्छत्रमहाहंसां मुकुटाण्डजसङ्कुलाम् ॥७-१३-१५॥
चक्रकूर्मां गदानक्रां शरक्षुद्रझषाकुलाम्। बडगृध्रसृगालानां घोरसङ्घैर्निषेविताम् ॥७-१३-१६॥
निहतान्प्राणिनः सङ्ख्ये द्रोणेन बलिना शरैः। वहन्तीं पितृलोकाय शतशो राजसत्तम ॥७-१३-१७॥
शरीरशतसम्बाधां केशशैवलशाद्वलाम्। नदीं प्रावर्तयद्राजन्भीरूणां भयवर्धिनीम् ॥७-१३-१८॥
तं जयन्तमनीकानि तानि तान्येव भारत। सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः ॥७-१३-१९॥
तानभिद्रवतः शूरांस्तावका दृढकार्मुकाः। सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम् ॥७-१३-२०॥
शतमायस्तु शकुनिः सहदेवं समाद्रवत्। सनियन्तृध्वजरथं विव्याध निशितैः शरैः ॥७-१३-२१॥
तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि। नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध मातुलम् ॥७-१३-२२॥
सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात्। स तस्य गदया राजन्रथात्सूतमपातयत् ॥७-१३-२३॥
ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ। चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ ॥७-१३-२४॥
द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः। बहुभिस्तेन चाभ्यस्तस्तं विव्याध शताधिकैः ॥७-१३-२५॥
विविंशतिं भीमसेनो विंशत्या निशितैः शरैः। विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत् ॥७-१३-२६॥
विविंशतिस्तु सहसा व्यश्वकेतुशरासनम्। भीमं चक्रे महाराज ततः सैन्यान्यपूजयन् ॥७-१३-२७॥
स तन्न ममृषे वीरः शत्रोर्विजयमाहवे। ततोऽस्य गदया दान्तान्हयान्सर्वानपातयत् ॥७-१३-२८॥
शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः। विव्याध प्रहसन्बाणैर्लाडयन्कोपयन्निव ॥७-१३-२९॥
तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः। निपात्य नकुलः सङ्ख्ये शङ्खं दध्मौ प्रतापवान् ॥७-१३-३०॥
धृष्टकेतुः कृपेनास्ताञ्छित्त्वा बहुविधाञ्शरान्। कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत्त्रिभिः ॥७-१३-३१॥
तं कृपः शरवर्षेण महता समवाकिरत्। निवार्य च रणे विप्रो धृष्टकेतुमयोधयत् ॥७-१३-३२॥
सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे। विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव ॥७-१३-३३॥
सप्तसप्ततिभिर्भोजस्तं विद्ध्वा निशितैः शरैः। नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम् ॥७-१३-३४॥
सेनापतिः सुशर्माणं शीघ्रं मर्मस्वताडयत्। स चापि तं तोमरेण जत्रुदेशे अताडयत् ॥७-१३-३५॥
वैकर्तनं तु समरे विराटः प्रत्यवारयत्। सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत् ॥७-१३-३६॥
तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम्। यत्सैन्यं वारयामास शरैः संनतपर्वभिः ॥७-१३-३७॥
द्रुपदस्तु स्वयं राजा भगदत्तेन सङ्गतः। तयोर्युद्धं महाराज चित्ररूपमिवाभवत् ॥ भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ ॥७-१३-३८॥
भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम्। महता सायकौघेन छादयामास वीर्यवान् ॥७-१३-३९॥
शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशां पते। नवत्या सायकानां तु कम्पयामास भारत ॥७-१३-४०॥
राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसावुभौ। चक्रातेऽत्यद्भुतं युद्धं परस्परवधैषिणौ ॥७-१३-४१॥
मायाशतसृजौ दृप्तौ मायाभिरितरेतरम्। अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ ॥७-१३-४२॥
चेकितानोऽनुविन्देन युयुधे त्वतिभैरवम्। यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥७-१३-४३॥
लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम्। यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे ॥७-१३-४४॥
ततः प्रजविताश्वेन विधिवत्कल्पितेन च। रथेनाभ्यपतद्राजन्सौभद्रं पौरवो नदन् ॥७-१३-४५॥
ततोऽभियाय त्वरितो युद्धाकाङ्क्षी महाबलः। तेन चक्रे महद्युद्धमभिमन्युररिंदमः ॥७-१३-४६॥
पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत्। तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत् ॥७-१३-४७॥
सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः। पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः ॥७-१३-४८॥
ततः संहर्षयन्सेनां सिंहवद्विनदन्मुहुः। समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम् ॥७-१३-४९॥
द्वाभ्यां शराभ्यां हार्दिक्यश्चकर्त सशरं धनुः। तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा ॥ उद्बबर्ह सितं खड्गमाददानः शरावरम् ॥७-१३-५०॥
स तेनानेकतारेण चर्मणा कृतहस्तवत्। भ्रान्तासिरचरन्मार्गान्दर्शयन्वीर्यमात्मनः ॥७-१३-५१॥
भ्रामितं पुनरुद्भ्रान्तमाधूतं पुनरुच्छ्रितम्। चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत ॥७-१३-५२॥
स पौरवरथस्येषामाप्लुत्य सहसा नदन्। पौरवं रथमास्थाय केशपक्षे परामृशत् ॥७-१३-५३॥
जघानास्य पदा सूतमसिनापातयद्ध्वजम्। विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत् ॥७-१३-५४॥
तमाकलितकेशान्तं ददृशुः सर्वपार्थिवाः। उक्षाणमिव सिंहेन पात्यमानमचेतनम् ॥७-१३-५५॥
तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत्। पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः ॥७-१३-५६॥
स बर्हिणमहावाजं किङ्किणीशतजालवत्। चर्म चादाय खड्गं च नदन्पर्यपतद्रथात् ॥७-१३-५७॥
ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम्। उत्पपात रथात्तूर्णं श्येनवन्निपपात च ॥७-१३-५८॥
प्रासपट्टिशनिस्त्रिंशाञ्शत्रुभिः सम्प्रवेरितान्। चिच्छेदाथासिना कार्ष्णिश्चर्मणा संरुरोध च ॥७-१३-५९॥
स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः। तमुद्यम्य महाखड्गं चर्म चाथ पुनर्बली ॥७-१३-६०॥
वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम्। ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम् ॥७-१३-६१॥
तौ परस्परमासाद्य खड्गदन्तनखायुधौ। हृष्टवत्सम्प्रजह्राते व्याघ्रकेसरिणाविव ॥७-१३-६२॥
सम्पातेष्वभिपातेषु निपातेष्वसिचर्मणोः। न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः ॥७-१३-६३॥
अवक्षेपोऽसिनिर्ह्रादः शस्त्रान्तरनिदर्शनम्। बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत ॥७-१३-६४॥
बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम्। ददृशाते महात्मानौ सपक्षाविव पर्वतौ ॥७-१३-६५॥
ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः। शरावरणपक्षान्ते प्रजहार जयद्रथः ॥७-१३-६६॥
रुक्मपक्षान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे। सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः ॥७-१३-६७॥
भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्। सोऽदृश्यत निमेषेण स्वरथं पुनरास्थितः ॥७-१३-६८॥
तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम्। सहिताः सर्वराजानः परिवव्रुः समन्ततः ॥७-१३-६९॥
ततश्चर्म च खड्गं च समुत्क्षिप्य महाबलः। ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम् ॥७-१३-७०॥
सिन्धुराजं परित्यज्य सौभद्रः परवीरहा। तापयामास तत्सैन्यं भुवनं भास्करो यथा ॥७-१३-७१॥
तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम्। चिक्षेप समरे घोरां दीप्तामग्निशिखामिव ॥७-१३-७२॥
तामवप्लुत्य जग्राह सकोशं चाकरोदसिम्। वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम् ॥७-१३-७३॥
तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः। सहिताः सर्वराजानः सिंहनादमथानदन् ॥७-१३-७४॥
ततस्तामेव शल्यस्य सौभद्रः परवीरहा। मुमोच भुजवीर्येण वैडूर्यविकृताजिराम् ॥७-१३-७५॥
सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा। जघान सूतं शल्यस्य रथाच्चैनमपातयत् ॥७-१३-७६॥
ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः। सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ ॥ यमौ च द्रौपदेयाश्च साधु साध्विति चुक्रुशुः ॥७-१३-७७॥
बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः। प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम् ॥ तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम् ॥७-१३-७८॥
अथैनं सहसा सर्वे समन्तान्निशितैः शरैः। अभ्याकिरन्महाराज जलदा इव पर्वतम् ॥७-१३-७९॥
तेषां च प्रियमन्विच्छन्सूतस्य च पराभवात्। आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात् ॥७-१३-८०॥