Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.019
Core and Pancharatra: Yudhishthira responds with a semi-circular military formation, and Drishtadyumna takes assures to protect Yudhisthira at any cost. Intense battle progresses.
सञ्जय उवाच॥
परिणाम्य निशां तां तु भारद्वाजो महारथः। बहूक्त्वा च ततो राजन्राजानं च सुयोधनम् ॥७-१९-१॥
विधाय योगं पार्थेन संशप्तकगणैः सह। निष्क्रान्ते च रणात्पार्थे संशप्तकवधं प्रति ॥७-१९-२॥
व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम्। अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया ॥७-१९-३॥
व्यूहं दृष्ट्वा सुपर्णं तु भारद्वाजकृतं तदा। व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः ॥७-१९-४॥
मुखमासीत्सुपर्णस्य भारद्वाजो महारथः। शिरो दुर्योधनो राजा सोदर्यैः सानुगैः सह ॥७-१९-५॥
चक्षुषी कृतवर्मा च गौतमश्चास्यतां वरः। भूतवर्मा क्षेमशर्मा करकर्षश्च वीर्यवान् ॥७-१९-६॥
कलिङ्गाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः। शका यवनकाम्बोजास्तथा हंसपदाश्च ये ॥७-१९-७॥
ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः। गजाश्वरथपत्त्यौघास्तस्थुः शतसहस्रशः ॥७-१९-८॥
भूरिश्रवाः शलः शल्यः सोमदत्तश्च बाह्लिकः। अक्षौहिण्या वृता वीरा दक्षिणं पक्षमाश्रिताः ॥७-१९-९॥
विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः। वामं पक्षं समाश्रित्य द्रोणपुत्राग्रगाः स्थिताः ॥७-१९-१०॥
पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौन्द्रमद्रकाः। गान्धाराः शकुनिप्राग्याः पार्वतीया वसातयः ॥७-१९-११॥
पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः। महत्या सेनया तस्थौ नानाध्वजसमुत्थया ॥७-१९-१२॥
जयद्रथो भीमरथः सांयात्रिकसभो जयः। भूमिञ्जयो वृषक्राथो नैषधश्च महाबलः ॥७-१९-१३॥
वृता बलेन महता ब्रह्मलोकपुरस्कृताः। व्यूहस्योपरि ते राजन्स्थिता युद्धविशारदाः ॥७-१९-१४॥
द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः। वातोद्धूतार्णवाकारः प्रवृत्त इव लक्ष्यते ॥७-१९-१५॥
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः। सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे ॥७-१९-१६॥
तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम्। आस्थितः शुशुभे राजन्नंशुमानुदये यथा ॥७-१९-१७॥
माल्यदामवता राजा श्वेतच्छत्रेण धार्यता। कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना ॥७-१९-१८॥
नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ। अभिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान् ॥७-१९-१९॥
नानानृपतिभिर्वीरैर्विविधायुधभूषणैः। समन्वितः पार्वतीयैः शक्रो देवगणैरिव ॥७-१९-२०॥
ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम्। अजय्यमरिभिः सङ्ख्ये पार्षतं वाक्यमब्रवीत् ॥७-१९-२१॥
ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो। पारावतसवर्णाश्व तथा नीतिर्विधीयताम् ॥७-१९-२२॥
धृष्टद्युम्न उवाच॥
द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत। अहमावारयिष्यामि द्रोणमद्य सहानुगम् ॥७-१९-२३॥
मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि। न हि शक्तो रणे द्रोणो विजेतुं मां कथञ्चन ॥७-१९-२४॥
सञ्जय उवाच॥
एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली। पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत् ॥७-१९-२५॥
अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम्। क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव ॥७-१९-२६॥
तं तु सम्प्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्शनः। प्रियं चिकीर्षन्द्रोणस्य धृष्टद्युम्नमवारयत् ॥७-१९-२७॥
स सम्प्रहारस्तुमुलः समरूप इवाभवत्। पार्षतस्य च शूरस्य दुर्मुखस्य च भारत ॥७-१९-२८॥
पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम्। भारद्वाजं शरौघेण महता समवारयत् ॥७-१९-२९॥
द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः। नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत् ॥७-१९-३०॥
तयोर्विषक्तयोः सङ्ख्ये पाञ्चाल्यकुरुमुख्ययोः। द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः ॥७-१९-३१॥
अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः। तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित् ॥७-१९-३२॥
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम्। तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ॥७-१९-३३॥
नैव स्वे न परे राजन्नज्ञायन्त परस्परम्। अनुमानेन सञ्ज्ञाभिर्युद्धं तत्समवर्तत ॥७-१९-३४॥
चूडामणिषु निष्केषु भूषणेष्वसिचर्मसु। तेषामादित्यवर्णाभा मरीच्यः प्रचकाशिरे ॥७-१९-३५॥
तत्प्रकीर्णपताकानां रथवारणवाजिनाम्। बलाकाशबलाभ्राभं ददृशे रूपमाहवे ॥७-१९-३६॥
नरानेव नरा जघ्नुरुदग्राश्च हया हयान्। रथांश्च रथिनो जघ्नुर्वारणा वरवारणान् ॥७-१९-३७॥
समुच्छ्रितपताकानां गजानां परमद्विपैः। क्षणेन तुमुलो घोरः सङ्ग्रामः समवर्तत ॥७-१९-३८॥
तेषां संसक्तगात्राणां कर्षतामितरेतरम्। दन्तसङ्घातसङ्घर्षात्सधूमोऽग्निरजायत ॥७-१९-३९॥
विप्रकीर्णपताकास्ते विषाणजनिताग्नयः। बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः ॥७-१९-४०॥
विक्षरद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः। सम्बभूव मही कीर्णा मेघैर्द्यौरिव शारदी ॥७-१९-४१॥
तेषामाहन्यमानानां बाणतोमरवृष्टिभिः। वारणानां रवो जज्ञे मेघानामिव सम्प्लवे ॥७-१९-४२॥
तोमराभिहताः केचिद्बाणैश्च परमद्विपाः। वित्रेसुः सर्वभूतानां शब्दमेवापरेऽव्रजन् ॥७-१९-४३॥
विषाणाभिहताश्चापि केचित्तत्र गजा गजैः। चक्रुरार्तस्वरं घोरमुत्पातजलदा इव ॥७-१९-४४॥
प्रतीपं ह्रियमाणाश्च वारणा वरवारणैः। उन्मथ्य पुनराजह्रुः प्रेरिताः परमाङ्कुशैः ॥७-१९-४५॥
महामात्रा महामात्रैस्ताडिताः शरतोमरैः। गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः ॥७-१९-४६॥
निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः। छिन्नाभ्राणीव सम्पेतुः सम्प्रविश्य परस्परम् ॥७-१९-४७॥
हतान्परिवहन्तश्च यन्त्रिताः परमायुधैः। दिशो जग्मुर्महानागाः केचिदेकचरा इव ॥७-१९-४८॥
ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वधैः। पेतुरार्तस्वरं कृत्वा तदा विशसने गजाः ॥७-१९-४९॥
तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः। आहता सहसा भूमिश्चकम्पे च ननाद च ॥७-१९-५०॥
सादितैः सगजारोहैः सपताकैः समन्ततः। मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः ॥७-१९-५१॥
गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे। रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः ॥७-१९-५२॥
क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः। परान्स्वांश्चापि मृद्नन्तः परिपेतुर्दिशो दश ॥७-१९-५३॥
गजाश्वरथसङ्घानां शरीरौघसमावृता। बभूव पृथिवी राजन्मांसशोणितकर्दमा ॥७-१९-५४॥
प्रमथ्य च विषाणाग्रैः समुत्क्षिप्य च वारणैः। सचक्राश्च विचक्राश्च रथैरेव महारथाः ॥७-१९-५५॥
रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः। हतारोहाश्च मातङ्गा दिशो जग्मुः शरातुराः ॥७-१९-५६॥
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा। इत्यासीत्तुमुलं युद्धं न प्रज्ञायत किञ्चन ॥७-१९-५७॥
आ गुल्फेभ्योऽवसीदन्त नराः शोणितकर्दमे। दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः ॥७-१९-५८॥
शोणितैः सिच्यमानानि वस्त्राणि कवचानि च। छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत ॥७-१९-५९॥
हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः। संवृत्ताः पुनरावृत्ता बहुधा रथनेमिभिः ॥७-१९-६०॥
स गजौघमहावेगः परासुनरशैवलः। रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः ॥७-१९-६१॥
तं वाहनमहानौभिर्योधा जयधनैषिणः। अवगाह्यावमज्जन्तो नैव मोहं प्रचक्रिरे ॥७-१९-६२॥
शरवर्षाभिवृष्टेषु योधेष्वजितलक्ष्मसु। न हि स्वचित्ततां लेभे कश्चिदाहतलक्षणः ॥७-१९-६३॥
वर्तमाने तथा युद्धे घोररूपे भयङ्करे। मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत् ॥७-१९-६४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.