Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.021
Core and Pancharatra: Karna dampens the overexcitement of Duryodhana, by suggesting Bhima will certainly rally back the Pandava army.
धृतराष्ट्र उवाच॥
भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे। पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत ॥७-२१-१॥
आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम्। असेवितां कापुरुषैः सेवितां पुरुषर्षभैः ॥७-२१-२॥
स हि वीरो नरः सूत यो भग्नेषु निवर्तते। अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम् ॥७-२१-३॥
जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम्। त्यजन्तमाहवे प्राणान्संनद्धं चित्रयोधिनम् ॥७-२१-४॥
महेष्वासं नरव्याघ्रं द्विषतामघवर्धनम्। कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम् ॥७-२१-५॥
भारद्वाजं तथानीके दृष्ट्वा शूरमवस्थितम्। के वीराः संन्यवर्तन्त तन्ममाचक्ष्व सञ्जय ॥७-२१-६॥
सञ्जय उवाच॥
तान्दृष्ट्वा चलितान्सङ्ख्ये प्रणुन्नान्द्रोणसायकैः। पाञ्चालान्पाण्डवान्मत्स्यान्सृञ्जयांश्चेदिकेकयान् ॥७-२१-७॥
द्रोणचापविमुक्तेन शरौघेणासुहारिणा। सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान् ॥७-२१-८॥
कौरवाः सिंहनादेन नानावाद्यस्वनेन च। रथद्विपनराश्वैश्च सर्वतः पर्यवारयन् ॥७-२१-९॥
तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसंवृतः। दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव ॥७-२१-१०॥
पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः। सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना ॥७-२१-११॥
नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः। यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः ॥७-२१-१२॥
अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना। पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः ॥७-२१-१३॥
संनिरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना। एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः ॥७-२१-१४॥
भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः। अन्योन्यं समलीयन्त पलायनपरायणाः ॥७-२१-१५॥
एष भीमो दृढक्रोधो हीनः पाण्डवसृञ्जयैः। मदीयैरावृतो योधैः कर्ण तर्जयतीव माम् ॥७-२१-१६॥
व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः। निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः ॥७-२१-१७॥
कर्ण उवाच॥
नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत्। न चेमान्पुरुषव्याघ्र सिंहनादान्विशक्ष्यते ॥७-२१-१८॥
न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः। शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः ॥७-२१-१९॥
विषाग्निद्यूतसङ्क्लेशान्वनवासं च पाण्डवाः। स्मरमाणा न हास्यन्ति सङ्ग्राममिति मे मतिः ॥७-२१-२०॥
निकृतो हि महाबाहुरमितौजा वृकोदरः। वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति ॥७-२१-२१॥
असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः। आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति ॥७-२१-२२॥
तमेते चानुवर्तन्ते सात्यकिप्रमुखा रथाः। पाञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः ॥७-२१-२३॥
शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः। विशेषतश्च भीमेन संरब्धेनाभिचोदिताः ॥७-२१-२४॥
ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुङ्गवाः। वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव ॥७-२१-२५॥
एकायनगता ह्येते पीडयेयुर्यतव्रतम्। अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः ॥ असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे ॥७-२१-२६॥
अतिभारं त्वहं मन्ये भारद्वाजे समाहितम्। ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः ॥ काका इव महानागं मा वै हन्युर्यतव्रतम् ॥७-२१-२७॥
सञ्जय उवाच॥
राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा। भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति ॥७-२१-२८॥
तत्रारावो महानासीदेकं द्रोणं जिघांसताम्। पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः ॥७-२१-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.