07.022 
 Pancharatra and Core: Description of the various warriors and their horses who rallied behind Bhimasena.
धृतराष्ट्र उवाच॥
सर्वेषामेव मे ब्रूहि रथचिह्नानि सञ्जय। ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः ॥७-२२-१॥
सञ्जय उवाच॥
ऋश्यवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम्। रजताश्वस्ततः शूरः शैनेयः संन्यवर्तत ॥७-२२-२॥
दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः। वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः ॥७-२२-३॥
कृष्णास्तु मेघसङ्काशाः सहदेवमुदायुधम्। भीमवेगा नरव्याघ्रमवहन्वातरंहसः ॥७-२२-४॥
हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे। अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम् ॥७-२२-५॥
राज्ञस्त्वनन्तरं राजा पाञ्चाल्यो द्रुपदोऽभवत्। जातरूपमयच्छत्रः सर्वैः स्वैरभिरक्षितः ॥७-२२-६॥
ललामैर्हरिभिर्युक्तैः सर्वशब्दक्षमैर्युधि। राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत ॥७-२२-७॥
तं विराटोऽन्वयात्पश्चात्सह शूरैर्महारथैः। केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च ॥ स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः ॥७-२२-८॥
ते तु पाटलपुष्पाणां समवर्णा हयोत्तमाः। वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः ॥७-२२-९॥
हारिद्रसमवर्णास्तु जवना हेममालिनः। पुत्रं विराटराजस्य सत्वराः समुदावहन् ॥७-२२-१०॥
इन्द्रगोपकवर्णैस्तु भ्रातरः पञ्च केकयाः। जातरूपसमाभासः सर्वे लोहितकध्वजाः ॥७-२२-११॥
ते हेममालिनः शूराः सर्वे युद्धविशारदाः। वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः ॥७-२२-१२॥
आमपात्रनिभाकाराः पाञ्चाल्यममितौजसम्। दान्तास्ताम्रारुणा युक्ताः शिखण्डिनमुदावहन् ॥७-२२-१३॥
तथा द्वादशसाहस्राः पाञ्चालानां महारथाः। तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः ॥७-२२-१४॥
पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष। आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः ॥७-२२-१५॥
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः। काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः ॥७-२२-१६॥
बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः। पलालधूमवर्णाभाः सैन्धवाः शीघ्रमावहन् ॥७-२२-१७॥
मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलङ्कृताः। शूरं शिखण्डिनः पुत्रं क्षत्रदेवमुदावहन् ॥७-२२-१८॥
युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः। काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम् ॥७-२२-१९॥
श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः। यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन् ॥७-२२-२०॥
सुतसोमं तु यं धौम्यात्पार्थः पुत्रमयाचत। माषपुष्पसवर्णास्तमवहन्वाजिनो रणे ॥७-२२-२१॥
सहस्रसोमप्रतिमा बभूवुः; पुरे कुरूणामुदयेन्दुनाम्नि। तस्मिञ्जातः सोमसङ्क्रन्दमध्ये; यस्मात्तस्मात्सुतसोमोऽभवत्सः ॥७-२२-२२॥
नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः। आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन् ॥७-२२-२३॥
काञ्चनप्रतिमैर्योक्त्रैर्मयूरग्रीवसंनिभाः। द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमावहन् ॥७-२२-२४॥
श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः। ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः ॥७-२२-२५॥
यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संयुगे। अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे ॥७-२२-२६॥
एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः। तं बृहन्तो महाकाया युयुत्सुमवहन्रणे ॥७-२२-२७॥
पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम्। ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलङ्कृताः ॥७-२२-२८॥
कुमारं शितिपादास्तु रुक्मपत्रैरुरश्छदैः। सौचित्तिमवहन्युद्धे यन्तुः प्रेष्यकरा हयाः ॥७-२२-२९॥
रुक्मपृष्ठावकीर्णास्तु कौशेयसदृशा हयाः। सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन् ॥७-२२-३०॥
रुक्ममालाधराः शूरा हेमवर्णाः स्वलङ्कृताः। काशिराजं हयश्रेष्ठाः श्लाघनीयमुदावहन् ॥७-२२-३१॥
अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम्। तं सत्यधृतिमायान्तमरुणाः समुदावहन् ॥७-२२-३२॥
यः स पाञ्चालसेनानीर्द्रोणमंशमकल्पयत्। पारावतसवर्णाश्वा धृष्टद्युम्नमुदावहन् ॥७-२२-३३॥
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः। श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभो ॥७-२२-३४॥
युक्तैः परमकाम्बोजैर्जवनैर्हेममालिभिः। भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः ॥७-२२-३५॥
प्रभद्रकास्तु पाञ्चालाः षट्सहस्राण्युदायुधाः। नानावर्णैर्हयश्रेष्ठैर्हेमचित्ररथध्वजाः ॥७-२२-३६॥
शरव्रातैर्विधुन्वन्तः शत्रून्विततकार्मुकाः। समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः ॥७-२२-३७॥
बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः। ऊहुरग्लानमनसश्चेकितानं हयोत्तमाः ॥७-२२-३८॥
इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः। आयात्सुवश्यैः पुरुजिन्मातुलः सव्यसाचिनः ॥७-२२-३९॥
अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव। राजानं रोचमानं ते हयाः सङ्ख्ये समावहन् ॥७-२२-४०॥
कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः। जारासन्धिं हयश्रेष्ठाः सहदेवमुदावहन् ॥७-२२-४१॥
ये तु पुष्करनालस्य समवर्णा हयोत्तमाः। जवे श्येनसमाश्चित्राः सुदामानमुदावहन् ॥७-२२-४२॥
शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः। पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन् ॥७-२२-४३॥
पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः। तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः ॥७-२२-४४॥
माषवर्णास्तु जवना बृहन्तो हेममालिनः। दधिपृष्ठाश्चन्द्रमुखाः पाञ्चाल्यमवहन्द्रुतम् ॥७-२२-४५॥
शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः। पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन् ॥७-२२-४६॥
बिभ्रतो हेममालाश्च चक्रवाकोदरा हयाः। कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन् ॥७-२२-४७॥
शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बूनदस्रजः। युद्धे सत्यधृतिं क्षैमिमवहन्प्रांशवः शुभाः ॥७-२२-४८॥
एकवर्णेन सर्वेण ध्वजेन कवचेन च। अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत ॥७-२२-४९॥
समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम्। अश्वाः शशाङ्कसदृशाश्चन्द्रदेवमुदावहन् ॥७-२२-५०॥
नीलोत्पलसवर्णास्तु तपनीयविभूषिताः। शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन्हयाः ॥७-२२-५१॥
कलायपुष्पवर्णास्तु श्वेतलोहितराजयः। रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम् ॥७-२२-५२॥
यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम्। तं पटच्चरहन्तारं शुकवर्णावहन्हयाः ॥७-२२-५३॥
चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम्। ऊहुः किंशुकपुष्पाणां तुल्यवर्णा हयोत्तमाः ॥७-२२-५४॥
एकवर्णेन सर्वेण ध्वजेन कवचेन च। धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत ॥७-२२-५५॥
नानारूपै रत्नचित्रैर्वरूथध्वजकार्मुकैः। वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत ॥७-२२-५६॥
ये तु पुष्करपत्रस्य तुल्यवर्णा हयोत्तमाः। ते रोचमानस्य सुतं हेमवर्णमुदावहन् ॥७-२२-५७॥
योधाश्च भद्रकाराश्च शरदण्डानुदण्डजाः। श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुमुदावहन् ॥७-२२-५८॥
आटरूषकपुष्पाभा हयाः पाण्ड्यानुयायिनाम्। अवहन्रथमुख्यानामयुतानि चतुर्दश ॥७-२२-५९॥
नानारूपेण वर्णेन नानाकृतिमुखा हयाः। रथचक्रध्वजं वीरं घटोत्कचमुदावहन् ॥७-२२-६०॥
सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम्। राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः ॥ वर्णैश्चोच्चावचैर्दिव्यैः सदश्वानां प्रभद्रकाः ॥७-२२-६१॥
ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः। प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः ॥७-२२-६२॥
अत्यरोचत तान्सर्वान्धृष्टद्युम्नः समागतान्। सर्वाण्यपि च सैन्यानि भारद्वाजोऽत्यरोचत ॥७-२२-६३॥