07.032 
 Pancharatra and Core: The thirteenth day of the war begins; Drona is rebuked by Duryodhana for the previous day's defeat; promising a better outcome, Drona makes a formidable military formation.
सञ्जय उवाच॥
पूर्वमस्मासु भग्नेषु फल्गुनेनामितौजसा। द्रोणे च मोघसङ्कल्पे रक्षिते च युधिष्ठिरे ॥७-३२-१॥
सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः। रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश ॥७-३२-२॥
अवहारं ततः कृत्वा भारद्वाजस्य संमते। लब्धलक्ष्यैः परैर्दीना भृशावहसिता रणे ॥७-३२-३॥
श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान्। केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति ॥ अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः ॥७-३२-४॥
ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत्। प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः ॥ शृण्वतां सर्वभूतानां संरब्धो वाक्यकोविदः ॥७-३२-५॥
नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम। तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम् ॥७-३२-६॥
इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः। जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः ॥७-३२-७॥
वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि। आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथञ्चन ॥७-३२-८॥
ततोऽप्रीतस्तथोक्तः स भारद्वाजोऽब्रवीन्नृपम्। नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिये ॥७-३२-९॥
ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः। नालं लोका रणे जेतुं पाल्यमानं किरीटिना ॥७-३२-१०॥
विश्वसृग्यत्र गोविन्दः पृतनारिस्तहार्जुनः। तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः ॥७-३२-११॥
सत्यं तु ते ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत्। अद्यैषां प्रवरं वीरं पातयिष्ये महारथम् ॥७-३२-१२॥
तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि। योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम् ॥७-३२-१३॥
न ह्यज्ञातमसाध्यं वा तस्य सङ्ख्येऽस्ति किञ्चन। तेन ह्युपात्तं बलवत्सर्वज्ञानमितस्ततः ॥७-३२-१४॥
द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः। आह्वयन्नर्जुनं सङ्ख्ये दक्षिणामभितो दिशम् ॥७-३२-१५॥
तत्रार्जुनस्याथ परैः सार्धं समभवद्रणः। तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित् ॥७-३२-१६॥
ततो द्रोणेन विहितो राजन्व्यूहो व्यरोचत। चरन्मध्यंदिने सूर्यः प्रतपन्निव दुर्दृशः ॥७-३२-१७॥
तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत। बिभेद दुर्भिदं सङ्ख्ये चक्रव्यूहमनेकधा ॥७-३२-१८॥
स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः। षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः ॥७-३२-१९॥
वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः। सौभद्रे निहते राजन्नवहारमकुर्वत ॥७-३२-२०॥
धृतराष्ट्र उवाच॥
पुत्रं पुरुषसिंहस्य सञ्जयाप्राप्तयौवनम्। रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः ॥७-३२-२१॥
दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः। यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन् ॥७-३२-२२॥
बालमत्यन्तसुखिनं विचरन्तमभीतवत्। कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम् ॥७-३२-२३॥
बिभित्सता रथानीकं सौभद्रेणामितौजसा। विक्रीडितं यथा सङ्ख्ये तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच॥
यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम्। तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः ॥ विक्रीडितं कुमारेण यथानीकं बिभित्सता ॥७-३२-२५॥
दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे। वनौकसामिवारण्ये त्वदीयानामभूद्भयम् ॥७-३२-२६॥