Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.033
Pancharatra and Core: Circular military formation of the Kaurava Army.
सञ्जय उवाच॥
समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः। सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः ॥७-३३-१॥
सत्त्वकर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया। नैव भूतो न भविता कृष्णतुल्यगुणः पुमान् ॥७-३३-२॥
सत्यधर्मपरो दाता विप्रपूजादिभिर्गुणैः। सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः ॥७-३३-३॥
युगान्ते चान्तको राजञ्जामदग्न्यश्च वीर्यवान्। रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः ॥७-३३-४॥
प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः। उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ ॥७-३३-५॥
गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः। नकुलेऽप्रातिरूप्यं च शौर्यं च नियतानि षट् ॥७-३३-६॥
श्रुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः। सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः ॥७-३३-७॥
ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः। अभिमन्यौ किलैकस्था दृश्यन्ते गुणसञ्चयाः ॥७-३३-८॥
युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च। कर्मभिर्भीमसेनस्य सदृशो भीमकर्मणः ॥७-३३-९॥
धनञ्जयस्य रूपेण विक्रमेण श्रुतेन च। विनयात्सहदेवस्य सदृशो नकुलस्य च ॥७-३३-१०॥
धृतराष्ट्र उवाच॥
अभिमन्युमहं सूत सौभद्रमपराजितम्। श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः ॥७-३३-११॥
सञ्जय उवाच॥
चक्रव्यूहो महाराज आचार्येणाभिकल्पितः। तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः ॥७-३३-१२॥
सङ्घातो राजपुत्राणां सर्वेषामभवत्तदा। कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः ॥७-३३-१३॥
रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः। सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः ॥७-३३-१४॥
तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम्। पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् ॥७-३३-१५॥
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः। अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः ॥७-३३-१६॥
कर्णदुःशासनकृपैर्वृतो राजा महारथैः। देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः ॥ चामरव्यजनाक्षेपैरुदयन्निव भास्करः ॥७-३३-१७॥
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायके। सिन्धुराजस्तथातिष्ठच्छ्रीमान्मेरुरिवाचलः ॥७-३३-१८॥
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः। सुतास्तव महाराज त्रिंशत्त्रिदशसंनिभाः ॥७-३३-१९॥
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा। पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः ॥७-३३-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.