Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.034
Pancharatra and Core: Yudhishthira entrusts the burden of penetrating the discus military formation of Drona to Abhimanyu, as others are not capable.
सञ्जय उवाच॥
तदनीकमनाधृष्यं भारद्वाजेन रक्षितम्। पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः ॥७-३४-१॥
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः। कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः ॥७-३४-२॥
आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान्। चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः ॥७-३४-३॥
युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः। उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः ॥७-३४-४॥
द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान्। केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः ॥७-३४-५॥
एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः। समभ्यधावन्सहसा भारद्वाजं युयुत्सवः ॥७-३४-६॥
समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान्। असम्भ्रान्तः शरौघेण महता समवारयत् ॥७-३४-७॥
महौघाः सलिलस्येव गिरिमासाद्य दुर्भिदम्। द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः ॥७-३४-८॥
पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः। न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः ॥७-३४-९॥
तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम्। यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह ॥७-३४-१०॥
तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः। बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् ॥७-३४-११॥
अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः। अविषह्यं गुरुं भारं सौभद्रे समवासृजत् ॥७-३४-१२॥
वासुदेवादनवरं फल्गुनाच्चामितौजसम्। अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः ॥७-३४-१३॥
एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु। चक्रव्यूहस्य न वयं विद्म भेदं कथञ्चन ॥७-३४-१४॥
त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा। चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते ॥७-३४-१५॥
अभिमन्यो वरं तात याचतां दातुमर्हसि। पितॄणां मातुलानां च सैन्यानां चैव सर्वशः ॥७-३४-१६॥
धनञ्जयो हि नस्तात गर्हयेदेत्य संयुगात्। क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय ॥७-३४-१७॥
अभिमन्युरुवाच॥
द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि। पितॄणां जयमाकाङ्क्षन्नवगाहे भिनद्मि च ॥७-३४-१८॥
उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने। नोत्सहे तु विनिर्गन्तुमहं कस्याञ्चिदापदि ॥७-३४-१९॥
युधिष्ठिर उवाच॥
भिन्ध्यनीकं युधा श्रेष्ठ द्वारं सञ्जनयस्व नः। वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि ॥७-३४-२०॥
धनञ्जयसमं युद्धे त्वां वयं तात संयुगे। प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः ॥७-३४-२१॥
भीम उवाच॥
अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः। पाञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः ॥७-३४-२२॥
सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः। वयं प्रध्वंसयिष्यामो निघ्नमाना वरान्वरान् ॥७-३४-२३॥
अभिमन्युरुवाच॥
अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम्। पतङ्ग इव सङ्क्रुद्धो ज्वलितं जातवेदसम् ॥७-३४-२४॥
तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः। मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे ॥७-३४-२५॥
शिशुनैकेन सङ्ग्रामे काल्यमानानि सङ्घशः। अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया ॥७-३४-२६॥
युधिष्ठिर उवाच॥
एवं ते भाषमाणस्य बलं सौभद्र वर्धताम्। यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम् ॥७-३४-२७॥
रक्षितं पुरुषव्याघ्रैर्महेष्वासैः प्रहारिभिः। साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः ॥७-३४-२८॥
सञ्जय उवाच॥
तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत्। सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय ॥७-३४-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.