Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.039
Pancharatra and Core: Abhimanyu defeats Dhushasana and makes him retreat. Karna engages with Abhimanyu.
सञ्जय उवाच॥
शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम्। अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् ॥७-३९-१॥
दिष्ट्या पश्यामि सङ्ग्रामे मानिनं शत्रुमागतम्। निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् ॥७-३९-२॥
यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः। कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः ॥ जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता ॥७-३९-३॥
परवित्तापहारस्य क्रोधस्याप्रशमस्य च। लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च ॥७-३९-४॥
पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम्। तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम् ॥७-३९-५॥
सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते। शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः ॥७-३९-६॥
अद्याहमनृणस्तस्य कोपस्य भविता रणे। अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः ॥७-३९-७॥
अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि। न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ॥७-३९-८॥
एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम्। संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम् ॥७-३९-९॥
तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम्। अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत् ॥७-३९-१०॥
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्। दुःशासनो महाराज कश्मलं चाविशन्महत् ॥७-३९-११॥
सारथिस्त्वरमाणस्तु दुःशासनमचेतसम्। रणमध्यादपोवाह सौभद्रशरपीडितम् ॥७-३९-१२॥
पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम्। पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् ॥७-३९-१३॥
वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः। प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः ॥७-३९-१४॥
पश्यन्तः स्मयमानाश्च सौभद्रस्य विचेष्टितम्। अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् ॥७-३९-१५॥
धर्ममारुतशक्राणामाश्विनोः प्रतिमास्तथा। धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः ॥७-३९-१६॥
सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ। केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृञ्जयाः ॥७-३९-१७॥
पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः। अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः ॥७-३९-१८॥
ततोऽभवन्महद्युद्धं त्वदीयानां परैः सह। जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् ॥७-३९-१९॥
दुर्योधनो महाराज राधेयमिदमब्रवीत्। पश्य दुःशासनं वीरमभिमन्युवशं गतम् ॥७-३९-२०॥
प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे। सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः ॥७-३९-२१॥
ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम्। अभ्यवर्षत सङ्क्रुद्धः पुत्रस्य हितकृत्तव ॥७-३९-२२॥
तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः। अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे ॥७-३९-२३॥
अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः। अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः ॥७-३९-२४॥
तं तदा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे। आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान् ॥७-३९-२५॥
ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुर्भृताम्। सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् ॥७-३९-२६॥
सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान्। समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् ॥७-३९-२७॥
स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः। समरेऽमरसङ्काशः सौभद्रो न व्यषीदत ॥७-३९-२८॥
ततः शिलाशितैस्तीक्ष्णैर्भल्लैः संनतपर्वभिः। छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् ॥ स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत् ॥७-३९-२९॥
ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः। सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् ॥७-३९-३०॥
तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः। वादित्राणि च सञ्जघ्नुः सौभद्रं चापि तुष्टुवुः ॥७-३९-३१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.