Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.038
Pancharatra and Core: Seeing Drona's sympathetic attitude towards Abhimanyu, Duryodhana asks Dushasana to kill him.
धृतराष्ट्र उवाच॥
द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च सञ्जय। मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् ॥७-३८-१॥
विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः। विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह ॥७-३८-२॥
सञ्जय उवाच॥
हन्त ते सम्प्रवक्ष्यामि विमर्दमतिदारुणम्। एकस्य च बहूनां च यथासीत्तुमुलो रणः ॥७-३८-३॥
अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान्। रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् ॥७-३८-४॥
द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम्। दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् ॥७-३८-५॥
नानानृपान्नृपसुतान्सैन्यानि विविधानि च। अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् ॥७-३८-६॥
निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान्। अदर्शयत तेजस्वी दिक्षु सर्वासु भारत ॥७-३८-७॥
तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः। समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः ॥७-३८-८॥
अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान्। हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् ॥७-३८-९॥
घट्टयन्निव मर्माणि तव पुत्रस्य मारिष। अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् ॥७-३८-१०॥
एष गच्छति सौभद्रः पार्थानामग्रतो युवा। नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् ॥७-३८-११॥
नकुलं सहदेवं च भीमसेनं च पाण्डवम्। बन्धून्सम्बन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा ॥७-३८-१२॥
नास्य युद्धे समं मन्ये कञ्चिदन्यं धनुर्धरम्। इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति ॥७-३८-१३॥
द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः। आर्जुनिं प्रति सङ्क्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव ॥७-३८-१४॥
अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं कृपम्। दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान् ॥७-३८-१५॥
सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः। अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति ॥७-३८-१६॥
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः। किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः ॥७-३८-१७॥
अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति। पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् ॥७-३८-१८॥
संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः। आत्मसम्भावितो मूढस्तं प्रमथ्नीत माचिरम् ॥७-३८-१९॥
एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः। संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः ॥७-३८-२०॥
दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा। अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः ॥७-३८-२१॥
अहमेनं हनिष्यामि महाराज ब्रवीमि ते। मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् ॥ ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् ॥७-३८-२२॥
उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः। श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ ॥ गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः ॥७-३८-२३॥
तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः। एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् ॥७-३८-२४॥
तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव। शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव ॥७-३८-२५॥
एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव। सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् ॥७-३८-२६॥
तमभिक्रुद्धमायान्तं तव पुत्रमरिंदमः। अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत् ॥७-३८-२७॥
दुःशासनस्तु सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः। अयोधयत सौभद्रमभिमन्युश्च तं रणे ॥७-३८-२८॥
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम्। चरमाणावयुध्येतां रथशिक्षाविशारदौ ॥७-३८-२९॥
अथ पणवमृदङ्गदुन्दुभीनां; कृकरमहानकभेरिझर्झराणाम्। निनदमतिभृशं नराः प्रचक्रु; र्लवणजलोद्भवसिंहनादमिश्रम् ॥७-३८-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.