Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.041
Pancharatra and Core: Sindhava equipped with the boon of Lord Shiva to face any Pandava other than Arjuna, blocks the march of the Pandavas behind Abhimanyu.
धृतराष्ट्र उवाच॥
बालमत्यन्तसुखिनमवार्यबलदर्पितम्। युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम् ॥७-४१-१॥
गाहमानमनीकानि सदश्वैस्तं त्रिहायनैः। अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्रथी ॥७-४१-२॥
सञ्जय उवाच॥
युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ। धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः ॥ धृष्टकेतुश्च संरब्धो मत्स्याश्चान्वपतन्रणे ॥७-४१-३॥
अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः। तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाभवन् ॥७-४१-४॥
ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम्। जामाता तव तेजस्वी विष्टम्भयिषुराद्रवत् ॥७-४१-५॥
सैन्धवस्य महाराज पुत्रो राजा जयद्रथः। स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत् ॥७-४१-६॥
उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन्। वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरान् ॥७-४१-७॥
धृतराष्ट्र उवाच॥
अतिभारमहं मन्ये सैन्धवे सञ्जयाहितम्। यदेकः पाण्डवान्क्रुद्धान्पुत्रगृद्धीनवारयत् ॥७-४१-८॥
अत्यद्भुतमिदं मन्ये बलं शौर्यं च सैन्धवे। तदस्य ब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः ॥७-४१-९॥
किं दत्तं हुतमिष्टं वा सुतप्तमथ वा तपः। सिन्धुराजेन येनैकः क्रुद्धान्पार्थानवारयत् ॥७-४१-१०॥
सञ्जय उवाच॥
द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः। मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः ॥७-४१-११॥
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः। क्षुत्पिपासातपसहः कृशो धमनिसन्ततः ॥ देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम् ॥७-४१-१२॥
भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम्। स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् ॥ वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि ॥७-४१-१३॥
एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः। उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान् ॥७-४१-१४॥
पाण्डवेयानहं सङ्ख्ये भीमवीर्यपराक्रमान्। एको रणे धारयेयं समस्तानिति भारत ॥७-४१-१५॥
एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत्। ददामि ते वरं सौम्य विना पार्थं धनञ्जयम् ॥७-४१-१६॥
धारयिष्यसि सङ्ग्रामे चतुरः पाण्डुनन्दनान्। एवमस्त्विति देवेशमुक्त्वाबुध्यत पार्थिवः ॥७-४१-१७॥
स तेन वरदानेन दिव्येनास्त्रबलेन च। एकः सन्धारयामास पाण्डवानामनीकिनीम् ॥७-४१-१८॥
तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत्। परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् ॥७-४१-१९॥
दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमर्पितम्। उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम् ॥७-४१-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.