07.047 
 Pancharatra and Core: Abhimanyu fights Karna, then kills Aśvaketu, the son of the Magadha king. Shakuni sugests they all should crush Abhimanyu together. Karna severed the bow; Bhoja, the charioteer of Gautama, killed his horses. Droṇa severed the sword from his fist, while Radheya shattered the shield; Abhimanyu continued to fight with a disc in hand. 
सञ्जय उवाच॥
स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः। शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् ॥७-४७-१॥
प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः। स तैराचितसर्वाङ्गो बह्वशोभत भारत ॥७-४७-२॥
कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम्। कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः ॥७-४७-३॥
तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ। बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ ॥७-४७-४॥
अथ कर्णस्य सचिवान्षट्शूरांश्चित्रयोधिनः। साश्वसूतध्वजरथान्सौभद्रो निजघान ह ॥७-४७-५॥
अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः। प्रत्यविध्यदसम्भ्रान्तस्तदद्भुतमिवाभवत् ॥७-४७-६॥
मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः। साश्वं ससूतं तरुणमश्वकेतुमपातयत् ॥७-४७-७॥
मार्तिकावतकं भोजं ततः कुञ्जरकेतनम्। क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान् ॥७-४७-८॥
तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान्। सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् ॥७-४७-९॥
ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः। संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् ॥७-४७-१०॥
पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा। दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे ॥७-४७-११॥
एतावदुक्त्वा वचनं कर्मारपरिमार्जितम्। नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् ॥७-४७-१२॥
तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत्। तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् ॥७-४७-१३॥
तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी। तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम् ॥७-४७-१४॥
शत्रुञ्जयं चन्द्रकेतुं मेघवेगं सुवर्चसम्। सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् ॥७-४७-१५॥
तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत्। सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः ॥७-४७-१६॥
अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा। पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः ॥७-४७-१७॥
ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत। अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति ॥७-४७-१८॥
अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम्। शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत ॥७-४७-१९॥
धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते। संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः ॥७-४७-२०॥
आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः। प्रहर्षयति मा भूयः सौभद्रः परवीरहा ॥७-४७-२१॥
अति मा नन्दयत्येष सौभद्रो विचरन्रणे। अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः ॥७-४७-२२॥
अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः। न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः ॥७-४७-२३॥
अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः। स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना ॥७-४७-२४॥
तेजस्विनः कुमारस्य शराः परमदारुणाः। क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः ॥७-४७-२५॥
तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव। अभेद्यमस्य कवचं युवा चाशुपराक्रमः ॥७-४७-२६॥
उपदिष्टा मया अस्य पितुः कवचधारणा। तामेष निखिलां वेत्ति ध्रुवं परपुरञ्जयः ॥७-४७-२७॥
शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः। अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी ॥७-४७-२८॥
एतत्कुरु महेष्वास राधेय यदि शक्यते। अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु ॥७-४७-२९॥
सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः। विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि ॥७-४७-३०॥
तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन्। अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत् ॥७-४७-३१॥
अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी। शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् ॥७-४७-३२॥
त्वरमाणास्त्वराकाले विरथं षण्महारथाः। शरवर्षैरकरुणा बालमेकमवाकिरन् ॥७-४७-३३॥
स छिन्नधन्वा विरथः स्वधर्ममनुपालयन्। खड्गचर्मधरः श्रीमानुत्पपात विहायसम् ॥७-४७-३४॥
मार्गैः स कैशिकाद्यैश्च लाघवेन बलेन च। आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव ॥७-४७-३५॥
मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः। विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः ॥७-४७-३६॥
तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम्। राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम् ॥७-४७-३७॥
व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम्। आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत ॥७-४७-३८॥
स चक्ररेणूज्ज्वलशोभिताङ्गो; बभावतीवोन्नतचक्रपाणिः। रणेऽभिमन्युः क्षणदासुभद्रः; स वासुभद्रानुकृतिं प्रकुर्वन् ॥७-४७-३९॥
स्रुतरुधिरकृतैकरागवक्त्रो; भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः। प्रभुरमितबलो रणेऽभिमन्यु; र्नृपवरमध्यगतो भृशं व्यराजत् ॥७-४७-४०॥