Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.053
Pancharatra and Core: Krishna warns of the difficulty in fulfilling his vow, but Arjuna reassures himself and others.
सञ्जय उवाच॥
प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा। वासुदेवो महाबाहुर्धनञ्जयमभाषत ॥७-५३-१॥
भ्रातॄणां मतमाज्ञाय त्वया वाचा प्रतिश्रुतम्। सैन्धवं श्वोऽस्मि हन्तेति तत्साहसतमं कृतम् ॥७-५३-२॥
असंमन्त्र्य मया सार्धमतिभारोऽयमुद्यतः। कथं नु सर्वलोकस्य नावहास्या भवेमहि ॥७-५३-३॥
धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः। त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः ॥७-५३-४॥
त्वया वै सम्प्रतिज्ञाते सिन्धुराजवधे तदा। सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः ॥७-५३-५॥
तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः। नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः ॥७-५३-६॥
सुमहाञ्शब्दसम्पातः कौरवाणां महाभुज। आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः ॥७-५३-७॥
अभिमन्युवधं श्रुत्वा ध्रुवमार्तो धनञ्जयः। रात्रौ निर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः ॥७-५३-८॥
तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव। प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन ॥७-५३-९॥
ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव। आसन्सुयोधनामात्याः स च राजा जयद्रथः ॥७-५३-१०॥
अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः। आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः ॥७-५३-११॥
स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेयसीः क्रियाः। सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि ॥७-५३-१२॥
मामसौ पुत्रहन्तेति श्वोऽभियाता धनञ्जयः। प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम ॥७-५३-१३॥
तां न देवा न गन्धर्वा नासुरोरगराक्षसाः। उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः ॥७-५३-१४॥
ते मां रक्षत सङ्ग्रामे मा वो मूर्ध्नि धनञ्जयः। पदं कृत्वाप्नुयाल्लक्ष्यं तस्मादत्र विधीयताम् ॥७-५३-१५॥
अथ रक्षा न मे सङ्ख्ये क्रियते कुरुनन्दन। अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति ॥७-५३-१६॥
एवमुक्तस्त्ववाक्षीर्षो विमनाः स सुयोधनः। श्रुत्वाभिशप्तवन्तं त्वां ध्यानमेवान्वपद्यत ॥७-५३-१७॥
तमार्तमभिसम्प्रेक्ष्य राजा किल स सैन्धवः। मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् ॥७-५३-१८॥
नाहं पश्यामि भवतां तथावीर्यं धनुर्धरम्। योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे ॥७-५३-१९॥
वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः। कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः ॥७-५३-२०॥
महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा। पदातिना महातेजा गिरौ हिमवति प्रभुः ॥७-५३-२१॥
दानवानां सहस्राणि हिरण्यपुरवासिनाम्। जघानेकरथेनैव देवराजप्रचोदितः ॥७-५३-२२॥
समायुक्तो हि कौन्तेयो वासुदेवेन धीमता। सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः ॥७-५३-२३॥
सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना। द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे ॥७-५३-२४॥
स राज्ञा स्वयमाचार्यो भृशमाक्रन्दितोऽर्जुन। संविधानं च विहितं रथाश्च किल सज्जिताः ॥७-५३-२५॥
कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः। कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः ॥७-५३-२६॥
शकटः पद्मपश्चार्धो व्यूहो द्रोणेन कल्पितः। पद्मकर्णिकमध्यस्थः सूचीपाशे जयद्रथः ॥ स्थास्यते रक्षितो वीरैः सिन्धुराड्युद्धदुर्मदैः ॥७-५३-२७॥
धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथोरसि। अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः ॥ एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः ॥७-५३-२८॥
तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय। सहिता हि नरव्याघ्रा न शक्या जेतुमञ्जसा ॥७-५३-२९॥
भूयश्च चिन्तयिष्यामि नीतिमात्महिताय वै। मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये ॥७-५३-३०॥
अर्जुन उवाच॥
षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान्। तेषां वीर्यं ममार्धेन न तुल्यमिति लक्षये ॥७-५३-३१॥
अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन। मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा ॥७-५३-३२॥
द्रोणस्य मिषतः सोऽहं सगणस्य विलप्यतः। मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले ॥७-५३-३३॥
यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः। मरुतश्च सहेन्द्रेण विश्वेदेवास्तथासुराः ॥७-५३-३४॥
पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः। द्यौर्वियत्पृथिवी चेयं दिशश्च सदिगीश्वराः ॥७-५३-३५॥
ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च। त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन ॥७-५३-३६॥
तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया। सत्येन ते शपे कृष्ण तथैवायुधमालभे ॥७-५३-३७॥
यश्च गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः। तमेव प्रथमं द्रोणमभियास्यामि केशव ॥७-५३-३८॥
तस्मिन्द्यूतमिदं बद्धं मन्यते स्म सुयोधनः। तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम् ॥७-५३-३९॥
द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजनैः। शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि ॥७-५३-४०॥
नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम्। पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः ॥७-५३-४१॥
गाण्डीवप्रेषिता बाणा मनोनिलसमा जवे। नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः ॥७-५३-४२॥
यमात्कुबेराद्वरुणाद्रुद्रादिन्द्राच्च यन्मया। उपात्तमस्त्रं घोरं वै तद्द्रष्टारो नरा युधि ॥७-५३-४३॥
ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे। मया द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम् ॥७-५३-४४॥
शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः। आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मया युधि ॥७-५३-४५॥
क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान्। सुहृदो नन्दयिष्यामि पातयिष्यामि सैन्धवम् ॥७-५३-४६॥
बह्वागस्कृत्कुसम्बन्धी पापदेशसमुद्भवः। मया सैन्धवको राजा हतः स्वाञ्शोचयिष्यति ॥७-५३-४७॥
सर्वक्षीरान्नभोक्तारः पापाचारा रणाजिरे। मया सराजका बाणैर्नुन्ना नङ्क्ष्यन्ति सैन्धवाः ॥७-५३-४८॥
तथा प्रभाते कर्तास्मि यथा कृष्ण सुयोधनः। नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि ॥७-५३-४९॥
गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ। त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया ॥७-५३-५०॥
यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम्। एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन ॥७-५३-५१॥
मावमंस्था ममास्त्राणि मावमंस्था धनुर्दृढम्। मावमंस्था बलं बाह्वोर्मावमंस्था धनञ्जयम् ॥७-५३-५२॥
यथा हि यात्वा सङ्ग्रामे न जीये विजयामि च। तेन सत्येन सङ्ग्रामे हतं विद्धि जयद्रथम् ॥७-५३-५३॥
ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः। श्रीर्ध्रुवा चापि दक्षेषु ध्रुवो नारायणे जयः ॥७-५३-५४॥
सञ्जय उवाच॥
एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना। संदिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम् ॥७-५३-५५॥
यथा प्रभातां रजनीं कल्पितः स्याद्रथो मम। तथा कार्यं त्वया कृष्ण कार्यं हि महदुद्यतम् ॥७-५३-५६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.