Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.054
Pancharatra and Core: Krishna goes to sister Subhadra and consoles her grief over Abhimanyu's death.
सञ्जय उवाच॥
तां निशां दुःखशोकार्तौ श्वसन्ताविव चोरगौ। निद्रां नैवोपलेभाते वासुदेवधनञ्जयौ ॥७-५४-१॥
नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः। व्यथिताश्चिन्तयामासुः किं स्विदेतद्भविष्यति ॥७-५४-२॥
ववुश्च दारुणा वाता रूक्षा गोराभिशंसिनः। सकबन्धस्तथादित्ये परिघः समदृश्यत ॥७-५४-३॥
शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः। चचाल चापि पृथिवी सशैलवनकानना ॥७-५४-४॥
चुक्षुभुश्च महाराज सागरा मकरालयाः। प्रतिस्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः ॥७-५४-५॥
रथाश्वनरनागानां प्रवृत्तमधरोत्तरम्। क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये ॥७-५४-६॥
वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह। तान्दृष्ट्वा दारुणान्सर्वानुत्पाताँल्लोमहर्षणान् ॥७-५४-७॥
सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ। श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः ॥७-५४-८॥
अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः। आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह ॥७-५४-९॥
स्नुषा श्वश्व्रानघायस्ते विशोके कुरु माधव। साम्ना सत्येन युक्तेन वचसाश्वासय प्रभो ॥७-५४-१०॥
ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः। भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् ॥७-५४-११॥
मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा। सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता ॥७-५४-१२॥
कुले जतस्य वीरस्य क्षत्रियस्य विशेषतः। सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः ॥७-५४-१३॥
दिष्ट्या महारथो वीरः पितुस्तुल्यपराक्रमः। क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् ॥७-५४-१४॥
जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे। गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान् ॥७-५४-१५॥
तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च। सन्तो यां गतिमिच्छन्ति प्राप्तस्तां तव पुत्रकः ॥७-५४-१६॥
वीरसूर्वीरपत्नी त्वं वीरश्वशुरबान्धवा। मा शुचस्तनयं भद्रे गतः स परमां गतिम् ॥७-५४-१७॥
प्राप्स्यते चाप्यसौ क्षुद्रः सैन्धवो बालघातकः। अस्यावलेपस्य फलं ससुहृद्गणबान्धवः ॥७-५४-१८॥
व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत्। न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम् ॥७-५४-१९॥
श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम्। समन्तपञ्चकाद्बाह्यं विशोका भव मा रुदः ॥७-५४-२०॥
क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम्। यां वयं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः ॥७-५४-२१॥
व्यूढोरस्को महाबाहुरनिवर्ती वरप्रणुत्। गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि ॥७-५४-२२॥
अनु जातश्च पितरं मातृपक्षं च वीर्यवान्। सहस्रशो रिपून्हत्वा हतः शूरो महारथः ॥७-५४-२३॥
आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृषम्। श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि ॥७-५४-२४॥
यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा। चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् ॥७-५४-२५॥
यदि च मनुजपन्नगाः पिशाचा; रजनिचराः पतगाः सुरासुराश्च। रणगतमभियान्ति सिन्धुराजं; न स भविता सह तैरपि प्रभाते ॥७-५४-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.