Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.068
सञ्जय उवाच॥
हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे। जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव ॥७-६८-१॥
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः। अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनञ्जयम् ॥७-६८-२॥
तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः। ते स्म भीताः पलायन्त व्याघ्रात्क्षुद्रमृगा इव ॥७-६८-३॥
ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन्। रणे सपत्नान्निघ्नन्तं जिगीषन्तन्परान्युधि ॥७-६८-४॥
तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः। शिरांसि पातयामास बाहूंश्चैव धनञ्जयः ॥७-६८-५॥
शिरोभिः पतितैस्तत्र भूमिरासीन्निरन्तरा। अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रवडैर्युधि ॥७-६८-६॥
तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ। श्रुतायुश्चाच्युतायुश्च धनञ्जयमयुध्यताम् ॥७-६८-७॥
बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ। तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् ॥७-६८-८॥
त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः। अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ ॥७-६८-९॥
तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम्। पूरयामासतुः क्रुद्धौ तडागं जलदौ यथा ॥७-६८-१०॥
श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनञ्जयम्। आजघान रथश्रेष्ठः पीतेन निशितेन च ॥७-६८-११॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः। आजगाम परं मोहं मोहयन्केशवं रणे ॥७-६८-१२॥
एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः। शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् ॥७-६८-१३॥
क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः। पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः ॥७-६८-१४॥
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते। सिंहनादो महानासीद्धतं मत्वा धनञ्जयम् ॥७-६८-१५॥
कृष्णश्च भृशसन्तप्तो दृष्ट्वा पार्थं विचेतसम्। आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनञ्जयम् ॥७-६८-१६॥
ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनञ्जयम्। वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः ॥७-६८-१७॥
सचक्रकूबररथं साश्वध्वजपताकिनम्। अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् ॥७-६८-१८॥
प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत। प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा ॥७-६८-१९॥
सञ्छन्नं शरजालेन रथं दृष्ट्वा सकेशवम्। शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ ॥७-६८-२०॥
प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः। तस्मादासन्सहस्राणि शराणां नतपर्वणाम् ॥७-६८-२१॥
ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान्। विचेरुराकाशगताः पार्थबाणविदारिताः ॥७-६८-२२॥
प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः। प्रतस्थे तत्र तत्रैव योधयन्वै महारथान् ॥७-६८-२३॥
तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ। वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ ॥७-६८-२४॥
श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः। लोकविस्मापनमभूत्समुद्रस्येव शोषणम् ॥७-६८-२५॥
तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान्। अभ्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान् ॥७-६८-२६॥
श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम्। अयुतायुश्च सङ्क्रुद्धो दीर्घायुश्चैव भारत ॥७-६८-२७॥
पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः। किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ ॥७-६८-२८॥
तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः। प्रेषयत्परमक्रुद्धो यमस्य सदनं प्रति ॥७-६८-२९॥
लोडयन्तमनीकानि द्विपं पद्मसरो यथा। नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुङ्गवाः ॥७-६८-३०॥
अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन्। क्रुद्धाः सहस्रशो राजञ्शिखिता हस्तिसादिनः ॥७-६८-३१॥
दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः। प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः ॥७-६८-३२॥
तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः। निचकर्त शिरांस्युग्रौ बाहूनपि सुभूषणान् ॥७-६८-३३॥
तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः। बभौ कनकपाषाणा भुजगैरिव संवृता ॥७-६८-३४॥
बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च। च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः ॥७-६८-३५॥
शरैः सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः। व्यदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव ॥७-६८-३६॥
निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः। गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः ॥७-६८-३७॥
नानावेषधरा राजन्नानाशस्त्रौघसंवृताः। रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः ॥७-६८-३८॥
शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः। सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः ॥७-६८-३९॥
चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः। भृशं त्रस्ताश्च बहुधा स्वानेन ममृदुर्गजाः ॥ सान्तरायुधिका मत्ता द्विपास्तीक्ष्णविषोपमाः ॥७-६८-४०॥
विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः। यवनाः पारदाश्चैव शकाश्च सुनिकैः सह ॥७-६८-४१॥
गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः। दार्वाभिसारा दरदाः पुण्ड्राश्च सह बाह्लिकैः ॥७-६८-४२॥
न ते स्म शक्याः सङ्ख्यातुं व्राताः शतसहस्रशः। वृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः ॥७-६८-४३॥
अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनञ्जयः। मुण्डार्धमुण्डजटिलानशुचीञ्जटिलाननान् ॥ म्लेच्छानशातयत्सर्वान्समेतानस्त्रमायया ॥७-६८-४४॥
शरैश्च शतशो विद्धास्ते सङ्घाः सङ्घचारिणः। प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः ॥७-६८-४५॥
गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः। वडाः कङ्का वृका भूमावपिबन्रुधिरं मुदा ॥७-६८-४६॥
पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसङ्क्रमाम्। शरवर्षप्लवां घोरां केशशैवलशाड्वलाम् ॥ प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् ॥७-६८-४७॥
शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसम्भृताम्। अकरोद्गजसम्बाधां नदीमुत्तरशोणिताम् ॥ देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् ॥७-६८-४८॥
यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे। तथासीत्पृथिवी सर्वा शोणितेन परिप्लुता ॥७-६८-४९॥
षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान्। प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः ॥७-६८-५०॥
शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः। शेरते भूमिमासाद्य शैला वज्रहता इव ॥७-६८-५१॥
स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः। प्रभिन्न इव मातङ्गो मृद्नन्नडवनं यथा ॥७-६८-५२॥
भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम्। निर्दहेदनलोऽरण्यं यथा वायुसमीरितः ॥७-६८-५३॥
सैन्यारण्यं तव तथा कृष्णानिलसमीरितः। शरार्चिरदहत्क्रुद्धः पाण्डवाग्निर्धनञ्जयः ॥७-६८-५४॥
शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम्। प्रानृत्यदिव सम्बाधे चापहस्तो धनञ्जयः ॥७-६८-५५॥
वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम्। प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जयः ॥ तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् ॥७-६८-५६॥
तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः। न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष ॥ धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे ॥७-६८-५७॥
अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः। आससाद रणे पार्थं केशवं च महारथम् ॥७-६८-५८॥
ततः स प्रहसन्वीरो गदामुद्यम्य भारत। रथमावार्य गदया केशवं समताडयत् ॥७-६८-५९॥
गदया ताडितं दृष्ट्वा केशवं परवीरहा। अर्जुनो भृशसङ्क्रुद्धः सोऽम्बष्ठं प्रति भारत ॥७-६८-६०॥
ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम्। छादयामास समरे मेघः सूर्यमिवोदितम् ॥७-६८-६१॥
ततोऽपरैः शरैश्चापि गदां तस्य महात्मनः। अचूर्णयत्तदा पार्थस्तदद्भुतमिवाभवत् ॥७-६८-६२॥
अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम्। अर्जुनं वासुदेवं च पुनः पुनरताडयत् ॥७-६८-६३॥
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ। चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा ॥७-६८-६४॥
स पपात हतो राजन्वसुधामनुनादयन्। इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः ॥७-६८-६५॥
रथानीकावगाढश्च वारणाश्वशतैर्वृतः। सोऽदृश्यत तदा पार्थो घनैः सूर्य इवावृतः ॥७-६८-६६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.