Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.089
धृतराष्ट्र उवाच॥
एवं बहुविधं सैन्यमेवं प्रविचितं वरम्। व्यूढमेवं यथान्यायमेवं बहु च सञ्जय ॥७-८९-१॥
नित्यं पूजितमस्माभिरभिकामं च नः सदा। प्रौढमत्यद्भुताकारं पुरस्ताद्दृढविक्रमम् ॥७-८९-२॥
नातिवृद्धमबालं च न कृशं नातिपीवरम्। लघुवृत्तायतप्राणं सारगात्रमनामयम् ॥७-८९-३॥
आत्तसंनाहसम्पन्नं बहुशस्त्रपरिच्छदम्। शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् ॥७-८९-४॥
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते। सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ॥७-८९-५॥
नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम्। परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥७-८९-६॥
न गोष्ठ्या नोपचारेण न सम्बन्धनिमित्ततः। नानाहूतो न ह्यभृतो मम सैन्ये बभूव ह ॥७-८९-७॥
कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम्। कृतमानोपकारं च यशस्वि च मनस्वि च ॥७-८९-८॥
सचिवैश्चापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः। लोकपालोपमैस्तात पालितं नरसत्तमैः ॥७-८९-९॥
बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः। अस्मानभिसृतैः कामात्सबलैः सपदानुगैः ॥७-८९-१०॥
महोदधिमिवापूर्णमापगाभिः समन्ततः। अपक्षैः पक्षिसङ्काशै रथैरश्वैश्च संवृतम् ॥७-८९-११॥
योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम्। क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् ॥७-८९-१२॥
ध्वजभूषणसम्बाधं रत्नपट्टेन सञ्चितम्। वाहनैरपि धावद्भिर्वायुवेगविकम्पितम् ॥७-८९-१३॥
द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम्। जलसन्धमहाग्राहं कर्णचन्द्रोदयोद्धतम् ॥७-८९-१४॥
गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे। सञ्जयैकरथेनैव युयुधाने च मामकम् ॥७-८९-१५॥
तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि। सात्वते च रथोदारे मम सैन्यस्य सञ्जय ॥७-८९-१६॥
तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ। सिन्धुराजं च सम्प्रेक्ष्य गाण्डीवस्येषुगोचरे ॥७-८९-१७॥
किं तदा कुरवः कृत्यं विदधुः कालचोदिताः। दारुणैकायने काले कथं वा प्रतिपेदिरे ॥७-८९-१८॥
ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात सङ्गतान्। विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै ॥७-८९-१९॥
अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ। न च वारयिता कश्चित्तयोरस्तीह सञ्जय ॥७-८९-२०॥
भृताश्च बहवो योधाः परीक्ष्यैव महारथाः। वेतनेन यथायोग्यं प्रियवादेन चापरे ॥७-८९-२१॥
अकारणभृतस्तात मम सैन्ये न विद्यते। कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् ॥७-८९-२२॥
न च योधोऽभवत्कश्चिन्मम सैन्ये तु सञ्जय। अल्पदानभृतस्तात न कुप्यभृतको नरः ॥७-८९-२३॥
पूजिता हि यथाशक्त्या दानमानासनैर्मया। तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः ॥७-८९-२४॥
ते च प्राप्यैव सङ्ग्रामे निर्जिताः सव्यसाचिना। शैनेयेन परामृष्टाः किमन्यद्भागधेयतः ॥७-८९-२५॥
रक्ष्यते यश्च सङ्ग्रामे ये च सञ्जय रक्षिणः। एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः ॥७-८९-२६॥
अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम्। पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत ॥७-८९-२७॥
सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत्। किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत ॥७-८९-२८॥
सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ। दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः ॥७-८९-२९॥
दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम्। शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः ॥७-८९-३०॥
दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च। पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः ॥७-८९-३१॥
विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये। पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः ॥७-८९-३२॥
शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च। हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः ॥७-८९-३३॥
व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः। धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः ॥७-८९-३४॥
विवीरांश्च कृतानश्वान्विरथांश्च कृतान्नरान्। तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः ॥७-८९-३५॥
पत्तिसङ्घान्रणे दृष्ट्वा धावमानांश्च सर्वशः। निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः ॥७-८९-३६॥
द्रोणस्य समतिक्रान्तावनीकमपराजितौ। क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः ॥७-८९-३७॥
संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनञ्जयौ। प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ ॥७-८९-३८॥
तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे। भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः ॥७-८९-३९॥
तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु। कथं युद्धमभूत्तत्र तन्ममाचक्ष्व सञ्जय ॥७-८९-४०॥
द्रोणो हि बलवाञ्शूरः कृतास्त्रो दृढविक्रमः। पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे ॥७-८९-४१॥
बद्धवैरास्तथा द्रोणे धर्मराजजयैषिणः। भारद्वाजस्तथा तेषु कृतवैरो महारथः ॥७-८९-४२॥
अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति। तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि सञ्जय ॥७-८९-४३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.