Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.090
सञ्जय उवाच॥
आत्मापराधात्सम्भूतं व्यसनं भरतर्षभ। प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि ॥७-९०-१॥
तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च। द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् ॥ आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम ॥७-९०-२॥
सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः। वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् ॥७-९०-३॥
आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः। न हि ते सुकृतं किञ्चिदादौ मध्ये च भारत ॥ दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः ॥७-९०-४॥
तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम्। शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम् ॥७-९०-५॥
प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे। भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव ॥७-९०-६॥
आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान्। दधारैको रणे पाण्डून्कृतवर्मा महारथः ॥७-९०-७॥
यथोद्वृत्तं धारयते वेला वै सलिलार्णवम्। पाण्डुसैन्यं तथा सङ्ख्ये हार्दिक्यः समवारयत् ॥७-९०-८॥
तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम्। यदेनं सहिताः पार्था नातिचक्रमुराहवे ॥७-९०-९॥
ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमायसैः। शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान् ॥७-९०-१०॥
सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः। शतेन नकुलश्चापि हार्दिक्यं समविध्यत ॥७-९०-११॥
द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः। धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् ॥ विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः ॥७-९०-१२॥
शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः। पुनर्विव्याध विंशत्या सायकानां हसन्निव ॥७-९०-१३॥
कृतवर्मा ततो राजन्सर्वतस्तान्महारथान्। एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः ॥ धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत् ॥७-९०-१४॥
अथैनं छिन्नधन्वानं त्वरमाणो महारथः। आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः ॥७-९०-१५॥
स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः। चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः ॥७-९०-१६॥
भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः। विसृजन्तः शरान्घोरान्कृतवर्माणमार्दयन् ॥७-९०-१७॥
तं तथा कोष्ठकीकृत्य रथवंशेन मारिष। विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे ॥७-९०-१८॥
प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः। शक्तिं जग्राह समरे हेमदण्डामयस्मयीम् ॥ चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति ॥७-९०-१९॥
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा। कृतवर्माणमभितः प्रजज्वाल सुदारुणा ॥७-९०-२०॥
तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम्। द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा ॥७-९०-२१॥
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा। द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता ॥ शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम् ॥७-९०-२२॥
ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम्। भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् ॥७-९०-२३॥
अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे। भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह ॥७-९०-२४॥
भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष। रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे ॥७-९०-२५॥
ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव। अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत ॥७-९०-२६॥
त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान्। तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः ॥७-९०-२७॥
शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः। धनुश्चिच्छेद समरे प्रहसन्निव भारत ॥७-९०-२८॥
शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम्। असिं जग्राह समरे शतचन्द्रं च भास्वरम् ॥७-९०-२९॥
भ्रामयित्वा महाचर्म चामीकरविभूषितम्। तमसिं प्रेषयामास कृतवर्मरथं प्रति ॥७-९०-३०॥
स तस्य सशरं चापं छित्त्वा सङ्ख्ये महानसिः। अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात् ॥७-९०-३१॥
एतस्मिन्नेव काले तु त्वरमाणा महारथाः। विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे ॥७-९०-३२॥
अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः। विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा ॥७-९०-३३॥
विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः। शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च ॥७-९०-३४॥
धनुरन्यत्समादाय शिखण्डी तु महायशाः। अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम् ॥७-९०-३५॥
ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसम्भवः। अभिदुद्राव वेगेन याज्ञसेनिं महारथम् ॥७-९०-३६॥
भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः। विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम् ॥७-९०-३७॥
तौ दिशागजसङ्काशौ ज्वलिताविव पावकौ। समासेदतुरन्योन्यं शरसङ्घैररिंदमौ ॥७-९०-३८॥
विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान्। विसृजन्तौ च शतशो गभस्तीनिव भास्करौ ॥७-९०-३९॥
तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ। युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव ॥७-९०-४०॥
कृतवर्मा तु रभसं याज्ञसेनिं महारथम्। विद्ध्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः ॥७-९०-४१॥
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्। विसृजन्सशरं चापं मूर्छयाभिपरिप्लुतः ॥७-९०-४२॥
तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ। हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह ॥७-९०-४३॥
शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम्। अपोवाह रणाद्यन्ता त्वरमाणो महारथम् ॥७-९०-४४॥
सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम्। परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे ॥७-९०-४५॥
तत्राद्भुतं परं चक्रे कृतवर्मा महारथः। यदेकः समरे पार्थान्वारयामास सानुगान् ॥७-९०-४६॥
पार्थाञ्जित्वाजयच्चेदीन्पाञ्चालान्सृञ्जयानपि। केकयांश्च महावीर्यान्कृतवर्मा महारथः ॥७-९०-४७॥
ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः। इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे ॥७-९०-४८॥
जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान्। हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः ॥७-९०-४९॥
ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः। विमुखाः समपद्यन्त शरवृष्टिभिरर्दिताः ॥७-९०-५०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.