07.092
Pancharatra and Core: In the intense battle that follows, Satyaki defeats King Duryodhana. Kritavarma, who returns, is severely wounded making way towards Arjuna.
सञ्जय उवाच॥
ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः। त्वरमाणा महाराज युयुधानमयोधयन् ॥७-९२-१॥
तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः। दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः ॥७-९२-२॥
विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः। विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा ॥७-९२-३॥
दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः। चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष ॥७-९२-४॥
दुर्योधनश्च महता शरवर्षेण माधवम्। अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः ॥७-९२-५॥
सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः। तान्प्रत्यविध्यच्छैनेयः पृथक्पृथगजिह्मगैः ॥७-९२-६॥
भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिस्तथा। विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः ॥७-९२-७॥
दुर्मर्षणं द्वादशभिश्चतुर्भिश्च विविंशतिम्। सत्यव्रतं च नवभिर्विजयं दशभिः शरैः ॥७-९२-८॥
ततो रुक्माङ्गदं चापं विधुन्वानो महारथः। अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् ॥७-९२-९॥
राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम्। शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः ॥७-९२-१०॥
विमुञ्चन्तौ शरांस्तीक्ष्णान्संदधानौ च सायकान्। अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ ॥७-९२-११॥
सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत। अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा ॥७-९२-१२॥
सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव। शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥७-९२-१३॥
माधवस्तु रणे राजन्कुरुराजस्य धन्विनः। धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव ॥ अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् ॥७-९२-१४॥
निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा। नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् ॥७-९२-१५॥
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम्। विव्याध सात्यकिं तूर्णं सायकानां शतेन ह ॥७-९२-१६॥
सोऽतिविद्धो बलवता पुत्रेण तव धन्विना। अमर्षवशमापन्नस्तव पुत्रमपीडयत् ॥७-९२-१७॥
पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः। सात्वतं शरवर्षेण छादयामासुरञ्जसा ॥७-९२-१८॥
स छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः। एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥७-९२-१९॥
दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः। प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् ॥७-९२-२०॥
नागं मणिमयं चैव शरैर्ध्वजमपातयत्। हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥ सारथिं पातयामास क्षुरप्रेण महायशाः ॥७-९२-२१॥
एतस्मिन्नन्तरे चैव कुरुराजं महारथम्। अवाकिरच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः ॥७-९२-२२॥
स वध्यमानः समरे शैनेयस्य शरोत्तमैः। प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव ॥ आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः ॥७-९२-२३॥
हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे। ग्रस्यमानं सात्यकिना खे सोममिव राहुणा ॥७-९२-२४॥
तं तु शब्दं महच्छ्रुत्वा कृतवर्मा महारथः। अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः ॥७-९२-२५॥
विधुन्वानो धनुःश्रेष्ठं चोदयंश्चैव वाजिनः। भर्त्सयन्सारथिं चोग्रं याहि याहीति सत्वरः ॥७-९२-२६॥
तमापतन्तं सम्प्रेक्ष्य व्यादितास्यमिवान्तकम्। युयुधानो महाराज यन्तारमिदमब्रवीत् ॥७-९२-२७॥
कृतवर्मा रथेनैष द्रुतमापतते शरी। प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् ॥७-९२-२८॥
ततः प्रजविताश्वेन विधिवत्कल्पितेन च। आससाद रणे भोजं प्रतिमानं धनुष्मताम् ॥७-९२-२९॥
ततः परमसङ्क्रुद्धौ ज्वलन्ताविव पावकौ। समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ ॥७-९२-३०॥
कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत्। निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः ॥७-९२-३१॥
चतुरश्च हयोदारांश्चतुर्भिः परमेषुभिः। अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य ह ॥७-९२-३२॥
रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम्। रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खानवाकिरत् ॥७-९२-३३॥
ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे। प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनञ्जयम् ॥७-९२-३४॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः। समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः ॥७-९२-३५॥
त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं शरैः। विव्याध निशितैस्तूर्णं सात्यकिः कृतवर्मणः ॥७-९२-३६॥
सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः। व्यसृजत्तं महाज्वालं सङ्क्रुद्धमिव पन्नगम् ॥७-९२-३७॥
सोऽविशत्कृतवर्माणं यमदण्डोपमः शरः। जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् ॥ अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः ॥७-९२-३८॥
सञ्जातरुधिरश्चाजौ सात्वतेषुभिरर्दितः। प्रचलन्धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे ॥७-९२-३९॥
स सिंहदंष्ट्रो जानुभ्यामापन्नोऽमितविक्रमः। शरार्दितः सात्यकिना रथोपस्थे नरर्षभः ॥७-९२-४०॥
सहस्रबाहोः सदृशमक्षोभ्यमिव सागरम्। निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः ॥७-९२-४१॥
खड्गशक्तिधनुःकीर्णां गजाश्वरथसङ्कुलाम्। प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः ॥७-९२-४२॥
प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुङ्गवः। अभ्यगाद्वाहिनीं भित्त्वा वृत्रहेवासुरीं चमूम् ॥७-९२-४३॥
समाश्वास्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः। तस्थौ तत्रैव बलवान्वारयन्युधि पाण्डवान् ॥७-९२-४४॥