Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.093
सञ्जय उवाच॥
काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः। भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत् ॥७-९३-१॥
स सम्प्रहारस्तुमुलो द्रोणसात्वतयोरभूत्। पश्यतां सर्वसैन्यानां बलिवासवयोरिव ॥७-९३-२॥
ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः। त्रिभिराशीविषाकारैर्ललाटे समविध्यत ॥७-९३-३॥
तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः। व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः ॥७-९३-४॥
ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान्। भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे ॥७-९३-५॥
तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान्। द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् ॥७-९३-६॥
तामस्य लघुतां द्रोणः समवेक्ष्य विशां पते। प्रहस्य सहसाविध्यद्विंशत्या शिनिपुङ्गवम् ॥७-९३-७॥
पुनः पञ्चाशतेषूणां शतेन च समार्पयत्। लघुतां युयुधानस्य लाघवेन विशेषयन् ॥७-९३-८॥
समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः। तथा द्रोणरथाद्राजन्नुत्पतन्ति तनुच्छिदः ॥७-९३-९॥
तथैव युयुधानेन सृष्टाः शतसहस्रशः। अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः ॥७-९३-१०॥
लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष। विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ ॥७-९३-११॥
सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः। आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः ॥ सारथिं च शतेनैव भारद्वाजस्य पश्यतः ॥७-९३-१२॥
लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः। सप्तत्या सात्यकिं विद्ध्वा तुरगांश्च त्रिभिस्त्रिभिः ॥ ध्वजमेकेन विव्याध माधवस्य रथे स्थितम् ॥७-९३-१३॥
अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा। धनुश्चिच्छेद समरे माधवस्य महात्मनः ॥७-९३-१४॥
सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः। गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् ॥७-९३-१५॥
तामापतन्तीं सहसा पट्टबद्धामयस्मयीम्। न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः ॥७-९३-१६॥
अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः। विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः ॥७-९३-१७॥
स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत। तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः ॥७-९३-१८॥
तथः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम्। तरसा प्रेषयामास माधवस्य रथं प्रति ॥७-९३-१९॥
अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा। भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना ॥७-९३-२०॥
ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा। दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ ॥७-९३-२१॥
द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः। अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् ॥७-९३-२२॥
मुमोह सरथिस्तस्य रथशक्त्या समाहतः। स रथोपस्थमासाद्य मुहूर्तं संन्यषीदत ॥७-९३-२३॥
चकार सात्यकी राजंस्तत्र कर्मातिमानुषम्। अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम् ॥७-९३-२४॥
ततः शरशतेनैव युयुधानो महारथः। अविध्यद्ब्राह्मणं सङ्ख्ये हृष्टरूपो विशां पते ॥७-९३-२५॥
तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत। ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥७-९३-२६॥
निर्विद्धस्तु शरैर्घोरैरक्रुध्यत्सात्यकिर्भृशम्। सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति ॥७-९३-२७॥
ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि। अश्वान्व्यद्रावयद्बाणैर्हतसूतान्महात्मनः ॥७-९३-२८॥
स रथः प्रद्रुतः सङ्ख्ये मण्डलानि सहस्रशः। चकार राजतो राजन्भ्राजमान इवांशुमान् ॥७-९३-२९॥
अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत। इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः ॥७-९३-३०॥
ते सात्यकिमपास्याशु राजन्युधि महारथाः। यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् ॥७-९३-३१॥
तान्दृष्ट्वा प्रद्रुतान्सर्वान्सात्वतेन शरार्दितान्। प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् ॥७-९३-३२॥
व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः। वातायमानैस्तैरश्वैर्हृतो वृष्णिशरार्दितैः ॥७-९३-३३॥
पाण्डुपाञ्चालसम्भग्नं व्यूहमालोक्य वीर्यवान्। शैनेये नाकरोद्यत्नं व्यूहस्यैवाभिरक्षणे ॥७-९३-३४॥
निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव। तस्थौ क्रोधाग्निसंदीप्तः कालसूर्य इवोदितः ॥७-९३-३५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.