07.126
Pancharatra and Core: Drona responds to Duryodhana's rebuke, explaining the situation and his real helplessness against the Pandavas strength and righteousness.
धृतराष्ट्र उवाच॥
सिन्धुराजे हते तात समरे सव्यसाचिना। तथैव भूरिश्रवसि किमासीद्वो मनस्तदा ॥७-१२६-१॥
दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि। किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व सञ्जय ॥७-१२६-२॥
सञ्जय उवाच॥
निष्टानको महानासीत्सैन्यानां तव भारत। सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च ॥७-१२६-३॥
मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे। येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः ॥७-१२६-४॥
द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः। मुहूर्तमिव तु ध्यात्वा भृशमार्तोऽभ्यभाषत ॥७-१२६-५॥
दुर्योधन किमेवं मां वाक्षरैरभिकृन्तसि। अजय्यं समरे नित्यं ब्रुवाणं सव्यसाचिनम् ॥७-१२६-६॥
एतेनैवार्जुनं ज्ञातुमलं कौरव संयुगे। यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना ॥७-१२६-७॥
अवध्यं निहतं दृष्ट्वा संयुगे देवमानुषैः। तदैवाज्ञासिषमहं नेयमस्तीति भारती ॥७-१२६-८॥
यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि। तस्मिन्विनिहते शूरे किं शेषं पर्युपास्महे ॥७-१२६-९॥
यान्स्म तान्ग्लहते तातः शकुनिः कुरुसंसदि। अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः ॥७-१२६-१०॥
त एते घ्नन्ति नस्तात विशिखा जयचोदिताः। यांस्तदा ख्याप्यमानांस्त्वं विदुरेण न बुध्यसे ॥७-१२६-११॥
तास्ता विलपतश्चापि विदुरस्य महात्मनः। धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः ॥७-१२६-१२॥
तदिदं वर्तते घोरमागतं वैशसं महत्। तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव ॥७-१२६-१३॥
यच्च नः प्रेक्षमाणानां कृष्णामानाययः सभाम्। अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम् ॥७-१२६-१४॥
तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं त्वया। नो चेत्पापं परे लोके त्वमर्च्छेथास्ततोऽधिकम् ॥७-१२६-१५॥
यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह। प्राव्राजयस्तदारण्ये रौरवाजिनवाससः ॥७-१२६-१६॥
पुत्राणामिव चैतेषां धर्ममाचरतां सदा। द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः ॥७-१२६-१७॥
पाण्डवानामयं कोपस्त्वया शकुनिना सह। आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि ॥७-१२६-१८॥
दुःशासनेन संयुक्तः कर्णेन परिवर्धितः। क्षत्तुर्वाक्यमनादृत्य त्वयाभ्यस्तः पुनः पुनः ॥७-१२६-१९॥
यत्तत्सर्वे पराभूय पर्यवारयतार्जुनिम्। सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः ॥७-१२६-२०॥
कथं त्वयि च कर्णे च कृपे शल्ये च जीवति। अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत् ॥७-१२६-२१॥
यद्वस्तत्सर्वराजानस्तेजस्तिग्ममुपासते। सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः ॥७-१२६-२२॥
मय्येव हि विशेषेण तथा दुर्योधन त्वयि। आशंसत परित्राणमर्जुनात्स महीपतिः ॥७-१२६-२३॥
ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात्। न किञ्चिदनुपश्यामि जीवितत्राणमात्मनः ॥७-१२६-२४॥
मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य किल्बिषे। पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना ॥७-१२६-२५॥
तन्मा किमभितप्यन्तं वाक्षरैरभिकृन्तसि। अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत ॥७-१२६-२६॥
सौवर्णं सत्यसन्धस्य ध्वजमक्लिष्टकर्मणः। अपश्यन्युधि भीष्मस्य कथमाशंससे जयम् ॥७-१२६-२७॥
मध्ये महारथानां च यत्राहन्यत सैन्धवः। हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे ॥७-१२६-२८॥
कृप एव च दुर्धर्षो यदि जीवति पार्थिव। यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम् ॥७-१२६-२९॥
यच्चापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै। दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् ॥ अवध्यकल्पं सङ्ग्रामे देवैरपि सवासवैः ॥७-१२६-३०॥
न ते वसुन्धरास्तीति तदहं चिन्तये नृप। इमानि पाण्डवानां च सृञ्जयानां च भारत ॥ अनीकान्याद्रवन्ते मां सहितान्यद्य मारिष ॥७-१२६-३१॥
नाहत्वा सर्वपाञ्चालान्कवचस्य विमोक्षणम्। कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव ॥७-१२६-३२॥
राजन्ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे। न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता ॥७-१२६-३३॥
यच्च पित्रानुशिष्टोऽसि तद्वचः परिपालय। आनृशंस्ये दमे सत्ये आर्जवे च स्थिरो भव ॥७-१२६-३४॥
धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन्। धर्मप्रधानः कार्याणि कुर्याश्चेति पुनः पुनः ॥७-१२६-३५॥
चक्षुर्मनोभ्यां सन्तोष्या विप्राः सेव्याश्च शक्तितः। न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः ॥७-१२६-३६॥
एष त्वहमनीकानि प्रविशाम्यरिसूदन। रणाय महते राजंस्त्वया वाक्षल्यपीडितः ॥७-१२६-३७॥
त्वं च दुर्योधन बलं यदि शक्नोषि धारय। रात्रावपि हि योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः ॥७-१२६-३८॥
एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्डवसृञ्जयान्। मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान् ॥७-१२६-३९॥