07.125
सञ्जय उवाच॥
सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः। अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये ॥ अमन्यतार्जुनसमो योधो भुवि न विद्यते ॥७-१२५-१॥
न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च। क्रुद्धस्य प्रमुखे स्थातुं पर्याप्ता इति मारिष ॥७-१२५-२॥
निर्जित्य हि रणे पार्थः सर्वान्मम महारथान्। अवधीत्सैन्धवं सङ्ख्ये नैनं कश्चिदवारयत् ॥७-१२५-३॥
सर्वथा हतमेवैतत्कौरवाणां महद्बलम्। न ह्यस्य विद्यते त्राता साक्षादपि पुरंदरः ॥७-१२५-४॥
यमुपाश्रित्य सङ्ग्रामे कृतः शस्त्रसमुद्यमः। स कर्णो निर्जितः सङ्ख्ये हतश्चैव जयद्रथः ॥७-१२५-५॥
परुषाणि सभामध्ये प्रोक्तवान्यः स्म पाण्डवान्। स कर्णो निर्जितः सङ्ख्ये सैन्धवश्च निपातितः ॥७-१२५-६॥
यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम्। तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि ॥७-१२५-७॥
एवं क्लान्तमना राजन्नुपायाद्द्रोणमीक्षितुम्। आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ ॥७-१२५-८॥
ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत्। परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः ॥७-१२५-९॥
दुर्योधन उवाच॥
पश्य मूर्धावसिक्तानामाचार्य कदनं कृतम्। कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम् ॥७-१२५-१०॥
तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः। पाञ्चालैः सहितः सर्वैः सेनाग्रमभिकर्षति ॥७-१२५-११॥
अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना। अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥७-१२५-१२॥
अस्मद्विजयकामानां सुहृदामुपकारिणाम्। गन्तास्मि कथमानृण्यं गतानां यमसादनम् ॥७-१२५-१३॥
ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः। ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते ॥७-१२५-१४॥
सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम्। नाश्वमेधसहस्रेण पातुमात्मानमुत्सहे ॥७-१२५-१५॥
मम लुब्धस्य पापस्य तथा धर्मापचायिनः। व्यायच्छन्तो जिगीषन्तः प्राप्ता वैवस्वतक्षयम् ॥७-१२५-१६॥
कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः। विवरं नाशकद्दातुं मम पार्थिवसंसदि ॥७-१२५-१७॥
सोऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम्। शयानं नाशकं त्रातुं भीष्ममायोधने हतम् ॥७-१२५-१८॥
तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम्। किं स वक्ष्यति दुर्धर्षः समेत्य परलोकजित् ॥७-१२५-१९॥
जलसन्धं महेष्वासं पश्य सात्यकिना हतम्। मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम् ॥७-१२५-२०॥
काम्बोजं निहतं दृष्ट्वा तथालम्बुसमेव च। अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम ॥७-१२५-२१॥
व्यायच्छन्तो हताः शूरा मदर्थे येऽपराङ्मुखाः। यतमानाः परं शक्त्या विजेतुमहितान्मम ॥७-१२५-२२॥
तेषां गत्वाहमानृण्यमद्य शक्त्या परन्तप। तर्पयिष्यामि तानेव जलेन यमुनामनु ॥७-१२५-२३॥
सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर। इष्टापूर्तेन च शपे वीर्येण च सुतैरपि ॥७-१२५-२४॥
निहत्य तान्रणे सर्वान्पाञ्चालान्पाण्डवैः सह। शान्तिं लब्धास्मि तेषां वा रणे गन्ता सलोकताम् ॥७-१२५-२५॥
न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः। श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज ॥७-१२५-२६॥
स्वयं हि मृत्युर्विहितः सत्यसन्धेन संयुगे। भवानुपेक्षां कुरुते सुशिष्यत्वाद्धनञ्जये ॥७-१२५-२७॥
अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः। कर्णमेव तु पश्यामि सम्प्रत्यस्मज्जयैषिणम् ॥७-१२५-२८॥
यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः। मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति ॥७-१२५-२९॥
तादृग्रूपमिदं कार्यं कृतं मम सुहृद्ब्रुवैः। मोहाल्लुब्धस्य पापस्य जिह्माचारैस्ततस्ततः ॥७-१२५-३०॥
हतो जयद्रथश्चैव सौमदत्तिश्च वीर्यवान्। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥७-१२५-३१॥
सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः। हता मदर्थं सङ्ग्रामे युध्यमानाः किरीटिना ॥७-१२५-३२॥
न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान्। आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान् ॥७-१२५-३३॥