07.127
Pancharatra and Core: Then King Duryodhana, provoked by Drona, succumbed to his anger and resolved to continue the fight.
सञ्जय उवाच॥
ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः। अमर्षवशमापन्नो युद्धायैव मनो दधे ॥७-१२७-१॥
अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव। पश्य कृष्णसहायेन पाण्डवेन किरीटिना ॥ आचार्यविहितं व्यूहं भिन्नं देवैः सुदुर्भिदम् ॥७-१२७-२॥
तव व्यायच्छमानस्य द्रोणस्य च महात्मनः। मिषतां योधमुख्यानां सैन्धवो विनिपातितः ॥७-१२७-३॥
पश्य राधेय राजानः पृथिव्यां प्रवरा युधि। पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः ॥७-१२७-४॥
मम व्यायच्छमानस्य समरे शत्रुसूदन। अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह ॥७-१२७-५॥
कथं ह्यनिच्छमानस्य द्रोणस्य युधि फल्गुनः। भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे ॥७-१२७-६॥
प्रियो हि फल्गुनो नित्यमाचार्यस्य महात्मनः। ततोऽस्य दत्तवान्द्वारं नयुद्धेनारिमर्दन ॥७-१२७-७॥
अभयं सैन्धवस्याजौ दत्त्वा द्रोणः परन्तपः। प्रादात्किरीटिने द्वारं पश्य निर्गुणतां मम ॥७-१२७-८॥
यद्यदास्यमनुज्ञां वै पूर्वमेव गृहान्प्रति। सिन्धुराजस्य समरे नाभविष्यज्जनक्षयः ॥७-१२७-९॥
जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति। मयानार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे ॥७-१२७-१०॥
अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो युधि। भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम् ॥७-१२७-११॥
कर्ण उवाच॥
आचार्यं मा विगर्हस्व शक्त्या युध्यत्यसौ द्विजः। अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृधे ॥७-१२७-१२॥
तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः। दैवदृष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित् ॥७-१२७-१३॥
ततो नो युध्यमानानां परं शक्त्या सुयोधन। सैन्धवो निहतो राजन्दैवमत्र परं स्मृतम् ॥७-१२७-१४॥
परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे। हत्वास्माकं पौरुषं हि दैवं पश्चात्करोति नः ॥ सततं चेष्टमानानां निकृत्या विक्रमेण च ॥७-१२७-१५॥
दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित्। कृतं कृतं स्म तत्तस्य दैवेन विनिहन्यते ॥७-१२७-१६॥
यत्कर्तव्यं मनुष्येण व्यवसायवता सता। तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता ॥७-१२७-१७॥
निकृत्या निकृताः पार्था विषयोगैश्च भारत। दग्धा जतुगृहे चापि द्यूतेन च पराजिताः ॥७-१२७-१८॥
राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम्। यत्नेन च कृतं यत्ते दैवेन विनिपातितम् ॥७-१२७-१९॥
युध्यस्व यत्नमास्थाय मृत्युं कृत्वा निवर्तनम्। यततस्तव तेषां च दैवं मार्गेण यास्यति ॥७-१२७-२०॥
न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित्। दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह ॥७-१२७-२१॥
दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा। अनन्यकर्म दैवं हि जागर्ति स्वपतामपि ॥७-१२७-२२॥
बहूनि तव सैन्यानि योधाश्च बहवस्तथा। न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत ॥७-१२७-२३॥
तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः। शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम् ॥७-१२७-२४॥
सञ्जय उवाच॥
एवं सम्भाषमाणानां बहु तत्तज्जनाधिप। पाण्डवानामनीकानि समदृश्यन्त संयुगे ॥७-१२७-२५॥
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्। तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव ॥७-१२७-२६॥