Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.132
Core and Pancharatra: Bhima kills Bahlika, ten son's of Dhritarashtra, and brother of Shakuni. Yudhishthira sent the troops of the Ambashthas, Malavas, Trigartas, Shibis, Abhishahas, Shurasenas, Bahlikas, Vasatikas, Yaudheyas, Arattas, and Madrakas to the world of the dead. Then, Yudhisthira counters the attack by Drona with celestial weapons, including the Brahma.
सञ्जय उवाच॥
द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा। द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः ॥७-१३२-१॥
युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः। युयुधानश्च संयत्ता युद्धायैव मनो दधुः ॥७-१३२-२॥
सोमदत्तः पुनः कुर्द्धो दृष्ट्वा सात्यकिमाहवे। महता शरवर्षेण छादयामास सर्वतः ॥७-१३२-३॥
ततः समभवद्युद्धमतीव भयवर्धनम्। त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम् ॥७-१३२-४॥
दशभिः सात्वतस्यार्थे भीमो विव्याध कौरवम्। सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत ॥७-१३२-५॥
सात्वतस्त्वभिसङ्क्रुद्धः पुत्राधिभिरभिप्लुतम्। वृद्धमृद्धं गुणैः सर्वैर्ययातिमिव नाहुषम् ॥७-१३२-६॥
विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातिभिः। शक्त्या चैनमथाहत्य पुनर्विव्याध सप्तभिः ॥७-१३२-७॥
ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम्। मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि ॥७-१३२-८॥
सात्यकिश्चाग्निसङ्काशं मुमोच शरमुत्तमम्। सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि ॥७-१३२-९॥
युगपत्पेततुरथ घोरौ परिघमार्गणौ। शरीरे सोमदत्तस्य स पपात महारथः ॥७-१३२-१०॥
व्यामोहिते तु तनये बाह्लीकः समुपाद्रवत्। विसृजञ्शरवर्षाणि कालवर्षीव तोयदः ॥७-१३२-११॥
भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः। पीडयन्वै महात्मानं विव्याध रणमूर्धनि ॥७-१३२-१२॥
प्रातिपीयस्तु सङ्क्रुद्धः शक्तिं भीमस्य वक्षसि। निचखान महाबाहुः पुरंदर इवाशनिम् ॥७-१३२-१३॥
स तयाभिहतो भीमश्चकम्पे च मुमोह च। प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह ॥७-१३२-१४॥
सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत्। स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् ॥७-१३२-१५॥
तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभे। पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः ॥७-१३२-१६॥
नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान्। कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत् ॥७-१३२-१७॥
ततो वृषरथो नाम भ्राता कर्णस्य विश्रुतः। जघान भीमं नाराचैस्तमप्यभ्यवधीद्बली ॥७-१३२-१८॥
ततः सप्त रथान्वीरः स्यालानां तव भारत। निहत्य भीमो नाराचैः शतचन्द्रमपोथयत् ॥७-१३२-१९॥
अमर्षयन्तो निहतं शतचन्द्रं महारथम्। शकुनेर्भ्रातरो वीरा गजाक्षः शरभो विभुः ॥ अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन् ॥७-१३२-२०॥
स तुद्यमानो नाराचैर्वृष्टिवेगैरिवर्षभः। जघान पञ्चभिर्बाणैः पञ्चैवातिबलो रथान् ॥ तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः ॥७-१३२-२१॥
ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत्। मिषतः कुम्भयोनेश्च पुत्राणां च तवानघ ॥७-१३२-२२॥
अम्बष्ठान्मालवाञ्शूरांस्त्रिगर्तान्सशिबीनपि। प्राहिणोन्मृत्युलोकाय गणान्युद्धे युधिष्ठिरः ॥७-१३२-२३॥
अभीषाहाञ्शूरसेनान्बाह्लीकान्सवसातिकान्। निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम् ॥७-१३२-२४॥
यौधेयारट्टराजन्यमद्रकाणां गणान्युधि। प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः ॥७-१३२-२५॥
हताहरत गृह्णीत विध्यत व्यवकृन्तत। इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति ॥७-१३२-२६॥
सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम्। चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत् ॥७-१३२-२७॥
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम्। विव्याध सोऽस्य तद्दिव्यमस्त्रमस्त्रेण जघ्निवान् ॥७-१३२-२८॥
तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे। वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च ॥ चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् ॥७-१३२-२९॥
क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः। जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन् ॥७-१३२-३०॥
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसम्भवः। प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत ॥ जिघांसुर्धर्मतनयं तव पुत्रहिते रतः ॥७-१३२-३१॥
पतिः कुरूणां गजसिंहगामी; विशालवक्षाः पृथुलोहिताक्षः। प्रादुश्चकारास्त्रमहीनतेजा; माहेन्द्रमन्यत्स जघान तेऽस्त्रे ॥७-१३२-३२॥
विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः। युधिष्ठिरवधप्रेप्सुर्ब्राह्ममस्त्रमुदैरयत् ॥७-१३२-३३॥
ततो नाज्ञासिषं किञ्चिद्घोरेण तमसावृते। सर्वभूतानि च परं त्रासं जग्मुर्महीपते ॥७-१३२-३४॥
ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः। ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत् ॥७-१३२-३५॥
ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ। द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ ॥७-१३२-३६॥
ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम्। व्यधमद्रोषताम्राक्षो वायव्यास्त्रेण भारत ॥७-१३२-३७॥
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात्। पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ॥७-१३२-३८॥
ततः किरीटी भीमश्च सहसा संन्यवर्तताम्। महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तव ॥७-१३२-३९॥
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः। भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ॥७-१३२-४०॥
तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः। अन्वगच्छन्महाराज मत्स्याश्च सह सात्वतैः ॥७-१३२-४१॥
ततः सा भारती सेना वध्यमाना किरीटिना। द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च ॥ नाशक्यन्त महाराज योधा वारयितुं तदा ॥७-१३२-४२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.