Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.133
Pancharatra and Core: Conversation between Kripa and Karna, where Kripa highlights the shortcomings of Karna. Karna responds by stating the weapon given to him by Indra will be decisive.
सञ्जय उवाच॥
उदीर्यमाणं तद्दृष्ट्वा पाण्डवानां महद्बलम्। अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत् ॥७-१३३-१॥
अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल। त्रायस्व समरे कर्ण सर्वान्योधान्महाबल ॥७-१३३-२॥
पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः। वृतान्समन्तात्सङ्क्रुद्धैर्निःश्वसद्भिरिवोरगैः ॥७-१३३-३॥
एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः। शक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः ॥७-१३३-४॥
कर्ण उवाच॥
परित्रातुमिह प्राप्तो यदि पार्थं पुरंदरः। तमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम् ॥७-१३३-५॥
सत्यं ते प्रतिजानामि समाश्वसिहि भारत। हन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान् ॥७-१३३-६॥
जयं ते प्रतिजानामि वासवस्येव पावकिः। प्रियं तव मया कार्यमिति जीवामि पार्थिव ॥७-१३३-७॥
सर्वेषामेव पार्थानां फल्गुनो बलवत्तरः। तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम् ॥७-१३३-८॥
तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद। तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः ॥७-१३३-९॥
मयि जीवति कौरव्य विषादं मा कृथाः क्वचित्। अहं जेष्यामि समरे सहितान्सर्वपाण्डवान् ॥७-१३३-१०॥
पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान्। बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम् ॥७-१३३-११॥
सञ्जय उवाच॥
एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत्। स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः ॥७-१३३-१२॥
शोभनं शोभनं कर्ण सनाथः कुरुपुङ्गवः। त्वया नाथेन राधेय वचसा यदि सिध्यति ॥७-१३३-१३॥
बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः। न तु ते विक्रमः कश्चिद्दृश्यते बलमेव वा ॥७-१३३-१४॥
समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि। सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन ॥७-१३३-१५॥
ह्रियमाणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजे। तदायुध्यन्त सैन्यानि त्वमेकस्तु पलायथाः ॥७-१३३-१६॥
विराटनगरे चापि समेताः सर्वकौरवाः। पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः ॥७-१३३-१७॥
एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे। कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान् ॥७-१३३-१८॥
अब्रुवन्कर्ण युध्यस्व बहु कत्थसि सूतज। अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम् ॥७-१३३-१९॥
गर्जित्वा सूतपुत्र त्वं शारदाभ्रमिवाजलम्। निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते ॥७-१३३-२०॥
तावद्गर्जसि राधेय यावत्पार्थं न पश्यसि। पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत् ॥७-१३३-२१॥
त्वमनासाद्य तान्बाणान्फल्गुनस्य विगर्जसि। पार्थसायकविद्धस्य दुर्लभं गर्जितं भवेत् ॥७-१३३-२२॥
बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः। धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः ॥७-१३३-२३॥
एवं परुषितस्तेन तदा शारद्वतेन सः। कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत् ॥७-१३३-२४॥
शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः। फलं चाशु प्रयच्छन्ति बीजमुप्तमृताविव ॥७-१३३-२५॥
दोषमत्र न पश्यामि शूराणां रणमूर्धनि। तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे ॥७-१३३-२६॥
यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति। दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते ॥७-१३३-२७॥
व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन्। गर्जामि यद्यहं विप्र तव किं तत्र नश्यति ॥७-१३३-२८॥
वृथा शूरा न गर्जन्ति सजला इव तोयदाः। सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः ॥७-१३३-२९॥
सोऽहमद्य रणे यत्तः सहितौ कृष्णपाण्डवौ। उत्सहे तरसा जेतुं ततो गर्जामि गौतम ॥७-१३३-३०॥
पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगः। हत्वा पाण्डुसुतानाजौ सहकृष्णान्ससात्वतान् ॥ दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम् ॥७-१३३-३१॥
कृप उवाच॥
मनोरथप्रलापो मे न ग्राह्यस्तव सूतज। यदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम् ॥७-१३३-३२॥
ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ। देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम् ॥ दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ ॥७-१३३-३३॥
ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः। नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः ॥ धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः ॥७-१३३-३४॥
भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः। गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः ॥७-१३३-३५॥
सम्बन्धिनश्चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः। धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः ॥७-१३३-३६॥
चन्द्रसेनो भद्रसेनः कीर्तिधर्मा ध्रुवो धरः। वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुवेधनः ॥७-१३३-३७॥
द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित्। येषामर्थाय संयत्तो मत्स्यराजः सहानुगः ॥७-१३३-३८॥
शतानीकः सुदशनः श्रुतानीकः श्रुतध्वजः। बलानीको जयानीको जयाश्वो रथवाहनः ॥७-१३३-३९॥
चन्द्रोदयः कामरथो विराटभ्रातरः शुभाः। यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः ॥ येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः ॥७-१३३-४०॥
कामं खलु जगत्सर्वं सदेवासुरमानवम्। सयक्षराक्षसगणं सभूतभुजगद्विपम् ॥ निःशेषमस्त्रवीर्येण कुर्यातां भीमफल्गुनौ ॥७-१३३-४१॥
युधिष्ठिरश्च पृथिवीं निर्दहेद्घोरचक्षुषा। अप्रमेयबलः शौरिर्येषामर्थे च दंशितः ॥७-१३३-४२॥
कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान् ॥७-१३३-४२॥
महानपनयस्त्वेष तव नित्यं हि सूतज। यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह ॥७-१३३-४३॥
सञ्जय उवाच॥
एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभ। अब्रवीच्च तदा कर्णो गुरुं शारद्वतं कृपम् ॥७-१३३-४४॥
सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः। एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै ॥७-१३३-४५॥
अजय्याश्च रणे पार्था देवैरपि सवासवैः। सदैत्ययक्षगन्धर्वपिशाचोरगराक्षसैः ॥ तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया ॥७-१३३-४६॥
ममाप्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज। एतया निहनिष्यामि सव्यसाचिनमाहवे ॥७-१३३-४७॥
हते तु पाण्डवे कृष्णो भ्रातरश्चास्य सोदराः। अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथञ्चन ॥७-१३३-४८॥
तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा। अयत्नात्कौरवेयस्य वशे स्थास्यति गौतम ॥७-१३३-४९॥
सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः। एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम ॥७-१३३-५०॥
त्वं तु वृद्धश्च विप्रश्च अशक्तश्चापि संयुगे। कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे ॥७-१३३-५१॥
यद्येवं वक्ष्यसे भूयो मामप्रियमिह द्विज। ततस्ते खड्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते ॥७-१३३-५२॥
यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे। भीषयन्सर्वसैन्यानि कौरवेयाणि दुर्मते ॥ अत्रापि शृणु मे वाक्यं यथावद्गदतो द्विज ॥७-१३३-५३॥
दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः। दुःशासनो वृषसेनो मद्रराजस्त्वमेव च ॥ सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः ॥७-१३३-५४॥
तिष्ठेयुर्दंशिता यत्र सर्वे युद्धविशारदाः। जयेदेतान्रणे को नु शक्रतुल्यबलोऽप्यरिः ॥७-१३३-५५॥
शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः। धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि ॥७-१३३-५६॥
एते स्थास्यन्ति सङ्ग्रामे पाण्डवानां वधार्थिनः। जयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः ॥७-१३३-५७॥
दैवायत्तमहं मन्ये जयं सुबलिनामपि। यत्र भीष्मो महाबाहुः शेते शरशताचितः ॥७-१३३-५८॥
विकर्णश्चित्रसेनश्च बाह्लीकोऽथ जयद्रथः। भूरिश्रवा जयश्चैव जलसन्धः सुदक्षिणः ॥७-१३३-५९॥
शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान्। एते चान्ये च राजानो देवैरपि सुदुर्जयाः ॥७-१३३-६०॥
निहताः समरे शूराः पाण्डवैर्बलवत्तराः। किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम ॥७-१३३-६१॥
यांश्च तान्स्तौषि सततं दुर्योधनरिपून्द्विज। तेषामपि हताः शूराः शतशोऽथ सहस्रशः ॥७-१३३-६२॥
क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह। प्रभावं नात्र पश्यामि पाण्डवानां कथञ्चन ॥७-१३३-६३॥
यांस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम। यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगे ॥ दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः ॥७-१३३-६४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.