Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.154
Pancharatra and Core: When the Kaurava army was in a state of distress, Karna was compelled to use the celestial weapon Vaijayanti, with which Ghatotkacha was killed.
सञ्जय उवाच॥
निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः। ननाद विविधान्नादान्वाहिन्याः प्रमुखे स्थितः ॥७-१५४-१॥
तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम्। तावकानां महाराज भयमासीत्सुदारुणम् ॥७-१५४-२॥
अलायुधविषक्तं तु भैमसेनिं महाबलम्। दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत् ॥७-१५४-३॥
दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ। दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः ॥७-१५४-४॥
ततः परमनाराचैर्युधामन्यूत्तमौजसौ। सात्यकिं च रथोदारं कम्पयामास मार्गणैः ॥७-१५४-५॥
तेषामभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम्। मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप ॥७-१५४-६॥
तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह। मेघानामिव घर्मान्ते बभूव तुमुलो निशि ॥७-१५४-७॥
ज्यानेमिघोषस्तनयित्नुमान्वै; धनुस्तडिन्मण्डलकेतुशृङ्गः। शरौघवर्षाकुलवृष्टिमांश्च; सङ्ग्राममेघः स बभूव राजन् ॥७-१५४-८॥
तदुद्धतं शैल इवाप्रकम्प्यो; वर्षं महच्छैलसमानसारः। विध्वंसयामास रणे नरेन्द्र; वैकर्तनः शत्रुगणावमर्दी ॥७-१५४-९॥
ततोऽतुलैर्वज्रनिपातकल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः। शत्रून्व्यपोहत्समरे महात्मा; वैकर्तनः पुत्रहिते रतस्ते ॥७-१५४-१०॥
सञ्छिन्नभिन्नध्वजिनश्च के चि; त्केचिच्छरैरर्दितभिन्नदेहाः। केचिद्विसूता विहयाश्च के चि; द्वैकर्तनेनाशु कृता बभूवुः ॥७-१५४-११॥
अविन्दमानास्त्वथ शर्म सङ्ख्ये; यौधिष्ठिरं ते बलमन्वपद्यन्। तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च; घटोत्कचो रोषमतीव चक्रे ॥७-१५४-१२॥
आस्थाय तं काञ्चनरत्नचित्रं; रथोत्तमं सिंह इवोन्ननाद। वैकर्तनं कर्णमुपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः ॥७-१५४-१३॥
तौ कर्णिनाराचशिलीमुखैश्च; नालीकदण्डैश्च सवत्सदन्तैः। वराहकर्णैः सविषाणशृङ्गैः; क्षुरप्रवर्षैश्च विनेदतुः खम् ॥७-१५४-१४॥
तद्बाणधारावृतमन्तरिक्षं; तिर्यग्गताभिः समरे रराज। सुवर्णपुङ्खज्वलितप्रभाभि; र्विचित्रपुष्पाभिरिव स्रजाभिः ॥७-१५४-१५॥
समं हि तावप्रतिमप्रभावा; वन्योन्यमाजघ्नतुरुत्तमास्त्रैः। तयोर्हि वीरोत्तमयोर्न कश्चि; द्ददर्श तस्मिन्समरे विशेषम् ॥७-१५४-१६॥
अतीव तच्चित्रमतीव रूपं; बभूव युद्धं रविभीमसून्वोः। समाकुलं शस्त्रनिपातघोरं; दिवीव राह्वंशुमतोः प्रतप्तम् ॥७-१५४-१७॥
घटोत्कचो यदा कर्णं न विशेषयते नृप। तदा प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः ॥७-१५४-१८॥
तेनास्त्रेण हयान्पूर्वं हत्वा कर्णस्य राक्षसः। सारथिं चैव हैडिम्बः क्षिप्रमन्तरधीयत ॥७-१५४-१९॥
धृतराष्ट्र उवाच॥
तथा ह्यन्तर्हिते तस्मिन्कूटयोधिनि राक्षसे। मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व सञ्जय ॥७-१५४-२०॥
सञ्जय उवाच॥
अन्तर्हितं राक्षसं तं विदित्वा; सम्प्राक्रोशन्कुरवः सर्व एव। कथं नायं राक्षसः कूटयोधी; हन्यात्कर्णं समरेऽदृश्यमानः ॥७-१५४-२१॥
ततः कर्णो लघुचित्रास्त्रयोधी; सर्वा दिशो व्यावृणोद्बाणजालैः। न वै किञ्चिद्व्यापतत्तत्र भूतं; तमोभूते सायकैरन्तरिक्षे ॥७-१५४-२२॥
न चाददानो न च संदधानो; न चेषुधी स्पृशमानः कराग्रैः। अदृश्यद्वै लाघवात्सूतपुत्रः; सर्वं बाणैश्छादयानोऽन्तरिक्षम् ॥७-१५४-२३॥
ततो मायां विहितामन्तरिक्षे; घोरां भीमां दारुणां राक्षसेन। सम्पश्यामो लोहिताभ्रप्रकाशां; देदीप्यन्तीमग्निशिखामिवोग्राम् ॥७-१५४-२४॥
ततस्तस्या विद्युतः प्रादुरास; न्नुल्काश्चापि ज्वलिताः कौरवेन्द्र। घोषश्चान्यः प्रादुरासीत्सुघोरः; सहस्रशो नदतां दुन्दुभीनाम् ॥७-१५४-२५॥
ततः शराः प्रापतन्रुक्मपुङ्खाः; शक्त्यः प्रासा मुसलान्यायुधानि। परश्वधास्तैलधौताश्च खड्गाः; प्रदीप्ताग्राः पट्टिशास्तोमराश्च ॥७-१५४-२६॥
मयूखिनः परिघा लोहबद्धा; गदाश्चित्राः शितधाराश्च शूलाः। गुर्व्यो गदा हेमपट्टावनद्धाः; शतघ्न्यश्च प्रादुरासन्समन्तात् ॥७-१५४-२७॥
महाशिलाश्चापतंस्तत्र तत्र; सहस्रशः साशनयः सवज्राः। चक्राणि चानेकशतक्षुराणि; प्रादुर्बभूवुर्ज्वलनप्रभाणि ॥७-१५४-२८॥
तां शक्तिपाषाणपरश्वधानां; प्रासासिवज्राशनिमुद्गराणाम्। वृष्टिं विशालां ज्वलितां पतन्तीं; कर्णः शरौघैर्न शशाक हन्तुम् ॥७-१५४-२९॥
शराहतानां पततां हयानां; वज्राहतानां पततां गजानाम्। शिलाहतानां च महारथानां; महान्निनादः पततां बभूव ॥७-१५४-३०॥
सुभीमनानाविधशस्त्रपातै; र्घटोत्कचेनाभिहतं समन्तात्। दौर्योधनं तद्बलमार्तरूप; मावर्तमानं ददृशे भ्रमन्तम् ॥७-१५४-३१॥
हाहाकृतं सम्परिवर्तमानं; संलीयमानं च विषण्णरूपम्। ते त्वार्यभावात्पुरुषप्रवीराः; पराङ्मुखा न बभूवुस्तदानीम् ॥७-१५४-३२॥
तां राक्षसीं घोरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम्। दृष्ट्वा बलौघांश्च निपात्यमाना; न्महद्भयं तव पुत्रान्विवेश ॥७-१५४-३३॥
शिवाश्च वैश्वानरदीप्तजिह्वाः; सुभीमनादाः शतशो नदन्त्यः। रक्षोगणान्नर्दतश्चाभिवीक्ष्य; नरेन्द्रयोधा व्यथिता बभूवुः ॥७-१५४-३४॥
ते दीप्तजिह्वाननतीक्ष्णदंष्ट्रा; विभीषणाः शैलनिकाशकायाः। नभोगताः शक्तिविषक्तहस्ता; मेघा व्यमुञ्चन्निव वृष्टिमार्गम् ॥७-१५४-३५॥
तैराहतास्ते शरशक्तिशूलै; र्गदाभिरुग्रैः परिघैश्च दीप्तैः। वज्रैः पिनाकैरशनिप्रहारै; श्चक्रैः शतघ्न्युन्मथिताश्च पेतुः ॥७-१५४-३६॥
हुडा भुशुण्ड्योऽश्मगुडाः शतघ्न्यः; स्थूणाश्च कार्ष्णायसपट्टनद्धाः। अवाकिरंस्तव पुत्रस्य सैन्यं; तथा रौद्रं कश्मलं प्रादुरासीत् ॥७-१५४-३७॥
निष्कीर्णान्त्रा विहतैरुत्तमाङ्गैः; सम्भग्नाङ्गाः शेरते तत्र शूराः। भिन्ना हयाः कुञ्जराश्चावभग्नाः; सञ्चूर्णिताश्चैव रथाः शिलाभिः ॥७-१५४-३८॥
एवं महच्छस्त्रवर्षं सृजन्त; स्ते यातुधाना भुवि घोररूपाः। मायाः सृष्टास्तत्र घटोत्कचेन; नामुञ्चन्वै याचमानं न भीतम् ॥७-१५४-३९॥
तस्मिन्घोरे कुरुवीरावमर्दे; कालोत्सृष्टे क्षत्रियाणामभावे। ते वै भग्नाः सहसा व्यद्रवन्त; प्राक्रोशन्तः कौरवाः सर्व एव ॥७-१५४-४०॥
पलायध्वं कुरवो नैतदस्ति; सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे। तथा तेषां मज्जतां भारतानां; न स्म द्वीपस्तत्र कश्चिद्बभूव ॥७-१५४-४१॥
तस्मिन्सङ्क्रन्दे तुमुले वर्तमाने; सैन्ये भग्ने लीयमाने कुरूणाम्। अनीकानां प्रविभागेऽप्रकाशे; न ज्ञायन्ते कुरवो नेतरे वा ॥७-१५४-४२॥
निर्मर्यादे विद्रवे घोररूपे; सर्वा दिशः प्रेक्षमाणाः स्म शून्याः। तां शस्त्रवृष्टिमुरसा गाहमानं; कर्णं चैकं तत्र राजन्नपश्यम् ॥७-१५४-४३॥
ततो बाणैरावृणोदन्तरिक्षं; दिव्यां मायां योधयन्राक्षसस्य। ह्रीमान्कुर्वन्दुष्करमार्यकर्म; नैवामुह्यत्संयुगे सूतपुत्रः ॥७-१५४-४४॥
ततो भीताः समुदैक्षन्त कर्णं; राजन्सर्वे सैन्धवा बाह्लिकाश्च। असंमोहं पूजयन्तोऽस्य सङ्ख्ये; सम्पश्यन्तो विजयं राक्षसस्य ॥७-१५४-४५॥
तेनोत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश्चतुरोऽश्वाञ्जघान। ते जानुभिर्जगतीमन्वपद्य; न्गतासवो निर्दशनाक्षिजिह्वाः ॥७-१५४-४६॥
ततो हताश्वादवरुह्य वाहा; दन्तर्मनाः कुरुषु प्राद्रवत्सु। दिव्ये चास्त्रे मायया वध्यमाने; नैवामुह्यच्चिन्तयन्प्राप्तकालम् ॥७-१५४-४७॥
ततोऽब्रुवन्कुरवः सर्व एव; कर्णं दृष्ट्वा घोररूपां च मायाम्। शक्त्या रक्षो जहि कर्णाद्य तूर्णं; नश्यन्त्येते कुरवो धार्तराष्ट्राः ॥७-१५४-४८॥
करिष्यतः किं च नो भीमपार्थौ; तपन्तमेनं जहि रक्षो निशीथे। यो नः सङ्ग्रामाद्घोररूपाद्विमुच्ये; त्स नः पार्थान्समरे योधयेत ॥७-१५४-४९॥
तस्मादेनं राक्षसं घोररूपं; जहि शक्त्या दत्तया वासवेन। मा कौरवाः सर्व एवेन्द्रकल्पा; रात्रीमुखे कर्ण नेशुः सयोधाः ॥७-१५४-५०॥
स वध्यमानो रक्षसा वै निशीथे; दृष्ट्वा राजन्नश्यमानं बलं च। महच्च श्रुत्वा निनदं कौरवाणां; मतिं दध्रे शक्तिमोक्षाय कर्णः ॥७-१५४-५१॥
स वै क्रुद्धः सिंह इवात्यमर्षी; नामर्षयत्प्रतिघातं रणे तम्। शक्तिं श्रेष्ठां वैजयन्तीमसह्यां; समाददे तस्य वधं चिकीर्षन् ॥७-१५४-५२॥
यासौ राजन्निहिता वर्षपूगा; न्वधायाजौ सत्कृता फल्गुनस्य। यां वै प्रादात्सूतपुत्राय शक्रः; शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय ॥७-१५४-५३॥
तां वै शक्तिं लेलिहानां प्रदीप्तां; पाशैर्युक्तामन्तकस्येव रात्रिम्। मृत्योः स्वसारं ज्वलितामिवोल्कां; वैकर्तनः प्राहिणोद्राक्षसाय ॥७-१५४-५४॥
तामुत्तमां परकायापहन्त्रीं; दृष्ट्वा सौतेर्बाहुसंस्थां ज्वलन्तीम्। भीतं रक्षो विप्रदुद्राव राज; न्कृत्वात्मानं विन्ध्यपादप्रमाणम् ॥७-१५४-५५॥
दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां; नेदुर्भूतान्यन्तरिक्षे नरेन्द्र। ववुर्वातास्तुमुलाश्चापि राज; न्सनिर्घाता चाशानिर्गां जगाम ॥७-१५४-५६॥
सा तां मायां भस्म कृत्वा ज्वलन्ती; भित्त्वा गाढं हृदयं राक्षसस्य। ऊर्ध्वं ययौ दीप्यमाना निशायां; नक्षत्राणामन्तराण्याविशन्ती ॥७-१५४-५७॥
युद्ध्वा चित्रैर्विविधैः शस्त्रपूगै; र्दिव्यैर्वीरो मानुषै राक्षसैश्च। नदन्नादान्विविधान्भैरवांश्च; प्राणानिष्टांस्त्याजितः शक्रशक्त्या ॥७-१५४-५८॥
इदं चान्यच्चित्रमाश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय। तस्मिन्काले शक्तिनिर्भिन्नमर्मा; बभौ राजन्मेघशैलप्रकाशः ॥७-१५४-५९॥
ततोऽन्तरिक्षादपतद्गतासुः; स राक्षसेन्द्रो भुवि भिन्नदेहः। अवाक्षिराः स्तब्धगात्रो विजिह्वो; घटोत्कचो महदास्थाय रूपम् ॥७-१५४-६०॥
स तद्रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात। हतोऽप्येवं तव सैन्येकदेश; मपोथयत्कौरवान्भीषयाणः ॥७-१५४-६१॥
ततो मिश्राः प्राणदन्सिंहनादै; र्भेर्यः शङ्खा मुरजाश्चानकाश्च। दग्धां मायां निहतं राक्षसं च; दृष्ट्वा हृष्टाः प्राणदन्कौरवेयाः ॥७-१५४-६२॥
ततः कर्णः कुरुभिः पूज्यमानो; यथा शक्रो वृत्रवधे मरुद्भिः। अन्वारूढस्तव पुत्रं रथस्थं; हृष्टश्चापि प्राविशत्स्वं स सैन्यम् ॥७-१५४-६३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.