07.155
Pancharatra and Core: On Ghatotkacha's death, Vasudeva, filled with immense joy, embraced Arjuna.
सञ्जय उवाच॥
हैडिम्बं निहतं दृष्ट्वा विकीर्णमिव पर्वतम्। पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः ॥७-१५५-१॥
वासुदेवस्तु हर्षेण महताभिपरिप्लुतः। ननाद सिंहवन्नादं व्यथयन्निव भारत ॥ विनद्य च महानादं पर्यष्वजत फल्गुनम् ॥७-१५५-२॥
स विनद्य महानादमभीशून्संनियम्य च। ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः ॥७-१५५-३॥
ततो विनिर्भ्राम्य पुनः पार्थमास्फोट्य चासकृत्। रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः ॥७-१५५-४॥
प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम्। अब्रवीदर्जुनो राजन्नातिहृष्टमना इव ॥७-१५५-५॥
अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन। शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै ॥७-१५५-६॥
विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम्। वयं च भृशमाविग्ना हैडिम्बस्य निपातनात् ॥७-१५५-७॥
नैतत्कारणमल्पं हि भविष्यति जनार्दन। तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर ॥७-१५५-८॥
यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिंदम। धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन ॥७-१५५-९॥
समुद्रस्येव सङ्क्षोभो मेरोरिव विसर्पणम्। तथैतल्लाघवं मन्ये तव कर्म जनार्दन ॥७-१५५-१०॥
वासुदेव उवाच॥
अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनञ्जय। अतीव मनसः सद्यः प्रसादकरमुत्तमम् ॥७-१५५-११॥
शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते। कर्णं निहतमेवाजौ विद्धि सद्यो धनञ्जय ॥७-१५५-१२॥
शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह। य एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे ॥७-१५५-१३॥
दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः। दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे ॥७-१५५-१४॥
यदि हि स्यात्सकवचस्तथैव च सकुण्डलः। सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली ॥७-१५५-१५॥
वासवो वा कुबेरो वा वरुणो वा जलेश्वरः। यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम् ॥७-१५५-१६॥
गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम्। न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् ॥७-१५५-१७॥
त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः। विहीनकवचश्चायं कृतः परपुरञ्जयः ॥७-१५५-१८॥
उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते। प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः ॥७-१५५-१९॥
आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा। तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः ॥७-१५५-२०॥
यदा प्रभृति कर्णाय शक्तिर्दत्ता महात्मना। वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे ॥७-१५५-२१॥
कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च। तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे ॥७-१५५-२२॥
एवं गतेऽपि शक्योऽयं हन्तुं नान्येन केनचित्। ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ ॥७-१५५-२३॥
ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः। रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः ॥७-१५५-२४॥
युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः। केसरीव वने मर्दन्मत्तमातङ्गयूथपान् ॥ विमदान्रथशार्दूलान्कुरुते रणमूर्धनि ॥७-१५५-२५॥
मध्यङ्गत इवादित्यो यो न शक्यो निरीक्षितुम्। त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः ॥ शरजालसहस्रांशुः शरदीव दिवाकरः ॥७-१५५-२६॥
तपान्ते तोयदो यद्वच्छरधाराः क्षरत्यसौ। दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान् ॥ सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया ॥७-१५५-२७॥
एको हि योगोऽस्य भवेद्वधाय; छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम्। कृच्छ्रप्राप्तं रथचक्रे निमग्ने; हन्याः पूर्वं त्वं तु सञ्ज्ञां विचार्य ॥७-१५५-२८॥
जरासन्धश्चेदिराजो महात्मा; महाबलश्चैकलव्यो निषादः। एकैकशो निहताः सर्व एव; योगैस्तैस्तैस्त्वद्धितार्थं मयैव ॥७-१५५-२९॥
अथापरे निहता राक्षसेन्द्रा; हिडिम्बकिर्मीरबकप्रधानाः। अलायुधः परसैन्यावमर्दी; घटोत्कचश्चोग्रकर्मा तरस्वी ॥७-१५५-३०॥