07.153
Pancharatra and Core: The mighty son of Bhimasena threw the unconscious head of Alayudha in front of Duryodhana.
सञ्जय उवाच॥
सम्प्रेक्ष्य समरे भीमं रक्षसा ग्रस्तमन्तिकात्। वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा ॥७-१५३-१॥
पश्य भीमं महाबाहो रक्षसा ग्रस्तमन्तिकात्। पश्यतां सर्वसैन्यानां तव चैव महाद्युते ॥७-१५३-२॥
स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम्। जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि ॥७-१५३-३॥
स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान्। युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः ॥ तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः ॥७-१५३-४॥
अलायुधस्य योधांस्तु राक्षसान्भीमदर्शनान्। वेगेनापततः शूरान्प्रगृहीतशरासनान् ॥७-१५३-५॥
आत्तायुधः सुसङ्क्रुद्धो युयुधानो महारथः। नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः ॥७-१५३-६॥
सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान्। परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपञ्शरान् ॥७-१५३-७॥
कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान्। धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान् ॥७-१५३-८॥
तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः। अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे ॥७-१५३-९॥
ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः। नकुलः सहदेवश्च सात्यकिश्च महारथः ॥ ते कर्णं योधयामासुः पाञ्चाला द्रोणमेव च ॥७-१५३-१०॥
अलायुधस्तु सङ्क्रुद्धो घटोत्कचमरिंदमम्। परिघेणातिकायेन ताडयामास मूर्धनि ॥७-१५३-११॥
स तु तेन प्रहारेण भैमसेनिर्महाबलः। ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भयत वीर्यवान् ॥७-१५३-१२॥
ततो दीप्ताग्निसङ्काशां शतघण्टामलङ्कृताम्। चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम् ॥७-१५३-१३॥
सा हयान्सारथिं चैव रथं चास्य महास्वना। चूर्णयामास वेगेन विसृष्टा भीमकर्मणा ॥७-१५३-१४॥
स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः। उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम् ॥७-१५३-१५॥
स समास्थाय मायां तु ववर्ष रुधिरं बहु। विद्युद्विभ्राजितं चासीत्तिमिराभ्राकुलं नभः ॥७-१५३-१६॥
ततो वज्रनिपाताश्च साशनिस्तनयित्नवः। महांश्चटचटाशब्दस्तत्रासीद्धि महाहवे ॥७-१५३-१७॥
तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु। ऊर्ध्वमुत्पत्य हैडिम्बस्तां मायां माययावधीत् ॥७-१५३-१८॥
सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि। अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे ॥७-१५३-१९॥
अश्मवर्षं स तद्घोरं शरवर्षेण वीर्यवान्। दिशो विध्वंसयामास तदद्भुतमिवाभवत् ॥७-१५३-२०॥
ततो नानाप्रहरणैरन्योन्यमभिवर्षताम्। आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः ॥७-१५३-२१॥
पिनाकैः करवालैश्च तोमरप्रासकम्पनैः। नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वधैः ॥७-१५३-२२॥
अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि। उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः ॥७-१५३-२३॥
शमीपीलुकरीरैश्च शम्याकैश्चैव भारत। इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः ॥७-१५३-२४॥
पलाशैररिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः। महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः ॥७-१५३-२५॥
विविधैः पर्वताग्रैश्च नानाधातुभिराचितैः। तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव ॥७-१५३-२६॥
युद्धं तदभवद्घोरं भैम्यलायुधयोर्नृप। हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा ॥७-१५३-२७॥
तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा। प्रगृह्य निशितौ खड्गावन्योन्यमभिजघ्नतुः ॥७-१५३-२८॥
तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ। भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ ॥७-१५३-२९॥
तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप। रुधिरं च महाकायावभिवृष्टाविवाचलौ ॥७-१५३-३०॥
अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम्। बलेनाक्षिप्य हैडिम्बश्चकर्तास्य शिरो महत् ॥७-१५३-३१॥
सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम्। तदा सुतुमुलं नादं ननाद सुमहाबलः ॥७-१५३-३२॥
हतं दृष्ट्वा महाकायं बकज्ञातिमरिंदमम्। पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे ॥७-१५३-३३॥
ततो भेरीसहस्राणि शङ्खानामयुतानि च। अवादयन्पाण्डवेयास्तस्मिन्रक्षसि पातिते ॥७-१५३-३४॥
अतीव सा निशा तेषां बभूव विजयावहा। विद्योतमाना विबभौ समन्ताद्दीपमालिनी ॥७-१५३-३५॥
अलायुधस्य तु शिरो भैमसेनिर्महाबलः। दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम् ॥७-१५३-३६॥
अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम्। बभूव परमोद्विग्नः सह सैन्येन भारत ॥७-१५३-३७॥
तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि। हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम् ॥७-१५३-३८॥
ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः। जीवितं चिरकालाय भ्रातॄणां चाप्यमन्यत ॥७-१५३-३९॥
स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै। प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत ॥७-१५३-४०॥