07.157
धृतराष्ट्र उवाच॥
एकवीरवधे मोघा शक्तिः सूतात्मजे यदा। कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान् ॥७-१५७-१॥
तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः। एकवीरवधे कस्मान्न युद्धे जयमादधत् ॥७-१५७-२॥
आहूतो न निवर्तेयमिति तस्य महाव्रतम्। स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः ॥७-१५७-३॥
ततो द्वैरथमानीय फल्गुनं शक्रदत्तया। न जघान वृषा कस्मात्तन्ममाचक्ष्व सञ्जय ॥७-१५७-४॥
नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः। शत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन् ॥७-१५७-५॥
या ह्यस्य परमा शक्तिर्जयस्य च परायणम्। सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे ॥७-१५७-६॥
कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसा। तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे ॥७-१५७-७॥
यथा वराहस्य शुनश्च युध्यतो; स्तयोरभावे श्वपचस्य लाभः। मन्ये विद्वन्वासुदेवस्य तद्व; द्युद्धे लाभः कर्णहैडिम्बयोर्वै ॥७-१५७-८॥
घटोत्कचो यदि हन्याद्धि कर्णं; परो लाभः स भवेत्पाण्डवानाम्। वैकर्तनो वा यदि तं निहन्या; त्तथापि कृत्यं शक्तिनाशात्कृतं स्यात् ॥७-१५७-९॥
इति प्राज्ञः प्रज्ञयैतद्विचार्य; घटोत्कचं सूतपुत्रेण युद्धे। अयोधयद्वासुदेवो नृसिंहः; प्रियं कुर्वन्पाण्डवानां हितं च ॥७-१५७-१०॥
सञ्जय उवाच॥
एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप। नियोजयामास तदा द्वैरथे राक्षसेश्वरम् ॥७-१५७-११॥
घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः। अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव ॥७-१५७-१२॥
तदैव कृतकार्या हि वयं स्याम कुरूद्वह। न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात् ॥७-१५७-१३॥
साश्वध्वजरथः सङ्ख्ये धृतराष्ट्र पतेद्भुवि। विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम् ॥७-१५७-१४॥
तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव। जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः ॥७-१५७-१५॥
सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम्। हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः ॥७-१५७-१६॥
धृतराष्ट्र उवाच॥
विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः। यस्यैष समतिक्रान्तो वधोपायो जयं प्रति ॥७-१५७-१७॥
तवापि समतिक्रान्तमेतद्गावल्गणे कथम्। एतमर्थं महाबुद्धे यत्त्वया नावबोधितः ॥७-१५७-१८॥
सञ्जय उवाच॥
दुर्योधनस्य शकुनेर्मम दुःशासनस्य च। रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना ॥७-१५७-१९॥
श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनञ्जयम्। प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः ॥७-१५७-२०॥
अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः। स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम् ॥७-१५७-२१॥
कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः। शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसञ्ज्ञिताः ॥७-१५७-२२॥
कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः। कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः ॥७-१५७-२३॥
तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज। कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा ॥७-१५७-२४॥
हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम्। कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः ॥७-१५७-२५॥
यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनो महात्मा। ननु तव वसुधा नरेन्द्र सर्वा; सगिरिसमुद्रवना वशं व्रजेत ॥७-१५७-२६॥
सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे। अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत ॥७-१५७-२७॥
अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः। न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे ॥७-१५७-२८॥
अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतः। अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो ॥७-१५७-२९॥
ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः। पप्रच्छ रथशार्दूल कर्णं प्रति महारथम् ॥७-१५७-३०॥
अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रम। किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा ॥७-१५७-३१॥
वासुदेव उवाच॥
दुःषासनश्च कर्णश्च शकुनिश्च ससैन्धवः। सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः ॥७-१५७-३२॥
कर्ण कर्ण महेष्वास रणेऽमितपराक्रम। नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर ॥७-१५७-३३॥
ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनञ्जयात्। स हि तेषामतियशा देवानामिव वासवः ॥७-१५७-३४॥
तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जयैः सह। भविष्यन्ति गतात्मानः सुरा इव निरग्नयः ॥७-१५७-३५॥
तथेति च प्रतिज्ञातं कर्णेन शिनिपुङ्गव। हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः ॥७-१५७-३६॥
अहमेव तु राधेयं मोहयामि युधां वर। यतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने ॥७-१५७-३७॥
फल्गुनस्य हि तां मृत्युमवगम्य युयुत्सतः। न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर ॥७-१५७-३८॥
घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुङ्गव। मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनञ्जयम् ॥७-१५७-३९॥
न पिता न च मे माता न यूयं भ्रातरस्तथा। न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे ॥७-१५७-४०॥
त्रैलोक्यराज्याद्यत्किञ्चिद्भवेदन्यत्सुदुर्लभम्। नेच्छेयं सात्वताहं तद्विना पार्थं धनञ्जयम् ॥७-१५७-४१॥
अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत्। मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनञ्जयम् ॥७-१५७-४२॥
अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः। न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम् ॥७-१५७-४३॥
सञ्जय उवाच॥
इति सात्यकये प्राह तदा देवकिनन्दनः। धनञ्जयहिते युक्तस्तत्प्रिये सततं रतः ॥७-१५७-४४॥